पञ्चमोऽध्यायः
पक्षिण ऊचुः
त्वष्टृपुत्रे हते पूर्वं ब्रह्मन्निन्द्रस्य तेजसः ।
ब्रह्महत्याभिभूतस्य परा हानिरजायत ॥ ५.१ ॥
तद्धमं प्रविवेशाथ शाक्रतेजोऽपचारतः ।
निस्तेजाश्चाभवच्छक्रो धर्मे तेजसि निर्गते ॥ ५.२ ॥
ततः पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ।
अवलुञ्च्य जटामेकामिदं वचनमब्रवीत् ॥ ५.३ ॥
अद्य पश्यन्तु मे वीर्यं त्रयो लोकाः सदेवताः ।
स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः ॥ ५.४ ॥
स्वकर्माभिरतो येन मत्सुतो विनपातितः ।
इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम् ॥ ५.५ ॥
ततो वृत्रः समुत्तस्थौ ज्वालामाली महासुरः ।
महाकायो महादंष्ट्रो भिन्नाञ्जनचयप्रभः ॥ ५.६ ॥
इन्द्रशत्रुरमेयात्मा त्वष्टृतेजोपबृंहितः ।
अहन्यहनि सोऽवर्धदिषुपातं महाबलः ॥ ५.७ ॥
वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम् ।
प्रेषयामास सप्तर्षोन् सन्धिमिच्छन् भयातुरः ॥ ५.८ ॥
सख्यञ्चक्रुस्ततस्तस्य वृत्रेण समयांस्तथा ।
ऋषयः प्रीतमनसः सर्वभूतहिते रताः ॥ ५.९ ॥
समयस्थितिमुल्लङ्घ्य यदा शक्रेण घातितः ।
वृत्रो हत्याभिभूतस्य तदा बलमशीर्यत ॥ ५.१० ॥
तच्छक्रदेहविभ्रष्टं बलं मारुतमाविशत् ।
सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम् ॥ ५.११ ॥
अहल्याञ्च यदा शक्रो गौतमं रूपमास्थितः ।
धर्षयामास देवेन्द्रस्तदा रूपमहीयत ॥ ५.१२ ॥
अङ्गप्रत्यङ्गलावण्यं यदतीव मनोरम् ।
विहाय दुष्टं देवेन्द्रं नासत्यावगमत्ततः ॥ ५.१३ ॥
धर्मेण तेजसा त्यक्तं बलहीनमरूपिणम् ।
ज्ञात्वा सुरेशं दैतेयास्तज्जये चक्रुरुद्यमम् ॥ ५.१४ ॥
राज्ञामुद्रिक्तवीर्याणां देवेन्द्रं विजिगीषवः ।
कुलेष्वतिबला दैत्या अजायन्त महामुने ॥ ५.१५ ॥
कस्यचित्त्वथ कालस्य धरणी भारपीडिता ।
जगाम मेरुशिखरं सदो यत्र दिवौकसाम् ॥ ५.१६ ॥
तेषां सा कथयामास भूरिभारावपीडिता ।
दनुजात्मजदैत्योत्थं खेदकारणमात्मनः ॥ ५.१७ ॥
एते भवद्भिरसुरा निहताः पृथुलौजसः ।
ते सर्वे मानुषे लोके जाता गेहेषु भूभृताम् ॥ ५.१८ ॥
अक्षौहिण्यो हि बहुलास्तद्भारार्ता व्रजाम्यधः ।
तथा कुरुध्वं त्रिदशा यथा शान्तिर्भवेन्मम ॥ ५.१९ ॥
पक्षिण ऊचुः
तेजोभागैस्ततो देवा अवतेरुर्दिवो महीम् ।
प्रजानामुपकारार्थं भूभारहरणाय च ॥ ५.२० ॥
यदिन्द्रदेहजं तेजस्तन्मुमोच स्वयं वृषः ।
कुन्त्या जातो महातेजास्ततो राजा युधिष्ठिरः ॥ ५.२१ ॥
बलं मुमोच पवनस्ततो भीमो व्यजायत ।
शक्रवीर्यार्धतश्चैव जज्ञे पार्थो धनञ्जयः ॥ ५.२२ ॥
उत्पन्नौ यमजौ माद्रयां शक्ररूपौ महाद्युती ।
पञ्चधा भगवानित्थमवतीर्णः शतक्रतुः ॥ ५.२३ ॥
तस्योत्पन्ना महाभागा पत्नी कृष्णा हुताशनात् ॥ ५.२४ ॥
शक्रस्यैकस्य सा पत्नी कृष्णा नान्यस्य कस्यचित् ।
योगीश्वराः शरीराणि कुर्वन्ति बहुलान्यपि ॥ ५.२५ ॥
पञ्चानामेकपत्नीत्वमित्येतत्कथितं तव ।
श्रूयतां बलदेवोऽपि यथा यातः सरस्वतीम् ॥ ५.२६ ॥
इति श्रीमार्कण्डेयपुराणे इन्द्रविक्रियानाम पञ्चमोऽध्यायः