तृतीयोऽध्यायः
मार्कण्डेय उवाच
अहन्यहनि विप्रेन्द्र स तेषां मुनिसत्तमः ।
चकाराहारपयसा तथा गुप्त्या च पोषणम् ॥ ३.१ ॥
मासमात्रेण जग्मुस्ते भानोः स्यन्दनवर्त्मनि ।
कौतूहलविलोलाक्षैर्दृष्टा मुनिकुमारकैः ॥ ३.२ ॥
दृष्ट्वा महीं सनगरां साम्भोनिधिसरिद्वराम् ।
रथचक्रप्रमाणां ते पुनराश्रममागताः ॥ ३.३ ॥
श्रमक्लान्तान्तरात्मानो महात्मानो वियोनिजाः ।
ज्ञानञ्च प्रकटीभूतं तत्र तेषां प्रभावतः ॥ ३.४ ॥
ऋषेः शिष्यानुकम्पार्थं वदतो धर्मनिश्चयम् ।
कृत्वा प्रदक्षिणं सर्वे चरणावभ्यवादयन् ॥ ३.५ ॥
ऊचुश्च मरणाद्घोरान्मोक्षिताः स्मस्त्वया मुने ।
आवासभक्ष्यपयसां त्वं नो दाता पिता गुरुः ॥ ३.६ ॥
गर्भस्थानां मृता माता पित्रा नैवापि पालिताः ।
त्वया नो जीवितं दत्तं शिशवो येन रक्षिताः ॥ ३.७ ॥
क्षितावक्षततेजास्त्वं कृमीणामिव शुष्यताम् ।
गजघण्टां समुत्पाट्य कृतवान् दुः खरेचनम् ॥ ३.८ ॥
कथं वर्धेयुरबलाः खस्थान् द्रक्ष्याम्यहं कदा ।
कदा भूमेर्द्रुमं प्राप्तान् द्रक्ष्ये वृक्षान्तरं गतान् ॥ ३.९ ॥
कदा मे सहजा कान्तिः पांशुना नाशमेष्यति ।
एषां पक्षानिलोत्थेन मत्समीपविचारिणाम् ॥ ३.१० ॥
इति चिन्तयता तात भवता प्रतिपालिताः ।
ते साम्प्रतं प्रवृद्धाः स्मः प्रबुद्धाः करवाम किम् ॥ ३.११ ॥
इत्यृषिर्वचनं तेषां श्रुत्वा संस्कारवत्स्फुटम् ।
शिष्यैः परिवृतः सर्वैः सह पुत्रेण शृङ्गिणा ॥ ३.१२ ॥
कौतूहलपरो भूत्वा रोमाञ्चपटसंवृतः ।
उवाच तत्त्वतो ब्रूत प्रवृत्तेः कारणं गिरः ॥ ३.१३ ॥
कस्य शापादियं प्राप्ता भवद्भिर्विक्रिया परा ।
रूपस्य वचसश्चैव तन्मे वक्तुमीहार्हथ ॥ ३.१४ ॥
पक्षिण ऊचुः
विपुलस्वानिति ख्यातः प्रागासीन्मुनिसत्तमः ।
तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा ॥ ३.१५ ॥
सुकृषस्य वयं पुत्राश्चत्वारः संयतात्मनः ।
तस्यर्षेर्विनयाचारभक्तिनम्राः सदैव हि ॥ ३.१६ ॥
तपश्चरणसक्तस्य शास्यमानेन्द्रियस्य च ।
यथाभिमतमस्माभिस्तदा तस्योपपादितम् ॥ ३.१७ ॥
समित्पुष्पादिकं सर्वं यच्चैवाभ्यवहारिकम् ।
एवं तत्राथ वसतां तस्यास्माकञ्च कानने ॥ ३.१८ ॥
आजगाम महावर्ष्मा भग्नपक्षो जरान्वितः ।
आताम्रनेत्रः स्त्रस्तात्मा पक्षी भूत्वा सुरेश्वरः ॥ ३.१९ ॥
सत्यशौचक्षमाचारमतीवोदारमानसम् ।
जिज्ञासुस्तमृषिश्रेष्ठमस्मच्छापभवाय च ॥ ३.२० ॥
पक्ष्युवाच
द्विजेन्द्र मां क्षुधाविष्टं परित्रातुमिहार्हसि ।
भक्षणार्थो महाभाग गतिर्भव ममातुला ॥ ३.२१ ॥
विन्ध्यस्य शिखरे तिष्ठन् पत्रिपत्रेरितेन वै ।
पतितोऽस्मि महाभाग श्वसनेनातिरंहसा ॥ ३.२२ ॥
सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः ।
स्थितस्तत्राष्टमेनाह्ना चेतनां प्राप्तवानहम् ॥ ३.२३ ॥
प्राप्तचेताः क्षुधाविष्टो भवन्तं शरणं गतः ।
भक्ष्यार्थो विगतानन्दो दूयमानेन चेतसा ॥ ३.२४ ॥
तत्कुरुष्वामलमते मत्त्राणायाचलां मतिम् ।
प्रयच्छ भक्ष्यं विप्रर्षे प्राणयात्राक्षमं मम ॥ ३.२५ ॥
स एवमुक्तः प्रोवाच तमिन्द्रं पक्षिरूपिणम् ।
प्राणसन्धारणार्थाय दास्ये भक्ष्यं तवेप्सितम् ॥ ३.२६ ॥
इत्युक्त्वा पुनरप्येनमपृच्छत्स द्विजोत्तमः ।
आहारः कस्तवार्थाय उपकल्प्यो भवेन्मया ।
स चाह नरमांसेन तृप्तिर्भवति मे परा ॥ ३.२७ ॥
ऋषिरुवाच
कौमारं ते व्यतिक्रान्तमतीतं यौवनञ्च ते ।
वयसः परिणामस्ते वर्तते नूनमण्डज ॥ ३.२८ ॥
यस्मिन्नराणां सर्वेषामशेषेच्छा निवर्तते ।
स कस्माद्वृद्धभावेऽपि सुनृशंसात्मको भवान् ॥ ३.२९ ॥
क्व मानुषस्य पिशितं क्व वयश्चरमं तव ।
सर्वथा दुष्टभावानां प्रशमो नोपपद्यते ॥ ३.३० ॥
अथवा किं मयैतेन प्रोक्तेनास्ति प्रयोजनम् ।
प्रतिश्रुत्य सदा देयमिति नो भावितं मनः ॥ ३.३१ ॥
इत्युक्त्वा तं स विप्रेन्द्रस्तथेति कृतनिश्चयः ।
शीघ्रमस्मान् समाहूय गुणतोऽनुप्रशस्य च ॥ ३.३२ ॥
उवाच क्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरम् ।
विनयावनतान् सर्वान् भक्तियुक्तान् कृताञ्जलीन् ॥ ३.३३ ॥
कृतात्मानो द्विजश्रेष्ठा ऋणैर्युक्ता मया सह ।
जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः ॥ ३.३४ ॥
गुरुः पूज्यो यदि मतो भवतां परमः पिता ।
ततः कुरुत मे वाक्यं निर्व्यलीकेन चेतसा ॥ ३.३५ ॥
तद्वाक्यसमकालञ्च प्रोक्तमस्माभिरादृतैः ।
यद्वक्ष्यति भवांस्तद्वै कृतमेवावधार्यताम् ॥ ३.३६ ॥
ऋषिरुवाच
मामेष शरणं प्राप्तो विहगः क्षुत्तृषान्वितः ।
युष्मन्मांसेन येनास्य क्षणं तृप्तिर्भवेत वै ॥ ३.३७ ॥
तृष्णाक्षयञ्च रक्तेन तथा शीघ्नं विधीयताम् ।
ततो वयं प्रव्यथिताः प्रकम्पोद्भूतसाध्वसाः ।
कष्टं कष्टमिति प्रोच्य नैतत्कुर्मेति चाब्रुवन् ॥ ३.३८ ॥
कथं परशरीरस्य हेतोर्देहं स्वकं बुधः ।
विनाशयेद्घातयेद्वा यथा ह्यात्मा तथा सुतः ॥ ३.३९ ॥
पितृदेवमनुष्याणां यान्युक्तानि ऋणानि वै ।
तान्यपाकुरुते पुत्रो न शरीरप्रदः सुतः ॥ ३.४० ॥
तस्मान्नैतत्करिष्यामो नी चीर्णं यत्पुरातनैः ।
जीवन् भद्राण्यवाप्नोति जीवन् पुण्यं करोति च ॥ ३.४१ ॥
मृतस्य देहनाशश्च धर्माद्युपरतिस्तथा ।
आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः ॥ ३.४२ ॥
इत्थं श्रुत्वा वचोऽस्माकं मुनिः क्रोधादिव ज्वलन् ।
प्रोवाच पुनरप्यस्मान्निर्दहन्निव लोचनैः ॥ ३.४३ ॥
प्रतिज्ञातं वचो मह्यं यस्मान्नैतत्करिष्यथ ।
तस्मान्मच्छापनिर्दग्धास्तिर्यग्योनौ प्रयास्यथ ॥ ३.४४ ॥
एवमुक्त्वा तदा सोऽस्मास्तं विहङ्गमथाब्रवीत् ।
अन्त्येष्टिमात्मनः कृत्वा शास्त्रतश्चौर्ध्वदेहिकम् ॥ ३.४५ ॥
भक्षयस्व सुविश्रब्धौ मामत्र द्विजसत्तम ।
आहारीकृतमेतत्ते मया देहमिहात्मनः ॥ ३.४६ ॥
एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्ष्यते ।
यावत्पतगजात्यग्रय स्वसत्यपरिपालनम् ॥ ३.४७ ॥
न यज्ञैर्दक्षिणावद्भिस्तत्पुण्यं प्राप्यते महत् ।
कर्मणान्येन वा विप्रैर्यत्सत्यपरिपालनात् ॥ ३.४८ ॥
इत्यृषेर्वचनं श्रुत्वा सोऽन्तर्विस्मयनिर्भरः ।
प्रत्युवाच मुनिं शक्रः पक्षिरूपधरस्तदा ॥ ३.४९ ॥
योगमास्थाय विप्रेन्द्र त्यजेदं स्वं कलेवरम् ।
जीवज्जन्तुं हि विप्रेन्द्र न भक्षामि कदाचन ॥ ३.५० ॥
तस्मैतद्वचनं श्रुत्वा योगयुक्तोऽभवन्मुनिः ।
तं तस्य निश्चयं ज्ञात्वा शक्रोऽप्याह स्वदेहभृत् ॥ ३.५१ ॥
भो भो विप्रेन्द्र बुध्यस्व बुद्ध्या बोध्यं बुधात्मक ।
जिज्ञासार्थं मयायं ते अपराधः कृतोऽनघ ॥ ३.५२ ॥
तत्क्षमस्वामलमते का चेच्छा क्रियतां तव ।
पालनात्सत्यवाक्यस्य प्रीतिर्मे परमा त्वयि ॥ ३.५३ ॥
अद्यप्रभृति ते ज्ञानमैन्द्रं प्रादुर्भविष्यति ।
तपस्यथ तथा धर्मे न ते विघ्नो भविष्यति ॥ ३.५४ ॥
इत्युक्त्वा तु गते शक्रे पिता कोपसमन्वितः ।
प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः ॥ ३.५५ ॥
बिभ्यतां मरणात्तात त्वमस्माकं महामते ।
क्षन्तुमर्हसि दीनानां जीवितप्रियता हि नः ॥ ३.५६ ॥
त्वगस्थिमांससङ्घाते पूयशोणितपूरिते ।
कर्तव्या न रतिर्यत्र तत्रास्माकमियं रतिः ॥ ३.५७ ॥
श्रूयतां च महाभाग यथा लोको विमुह्यति ।
कामक्रोधादिभिर्देषैरवशः प्रबलारिभिः ॥ ३.५८ ॥
प्रज्ञाप्राकारसंयुक्तमस्थिस्थूणं परं महत् ।
चर्मभित्तिमहारोधं मांसशोणितलेपनम् ॥ ३.५९ ॥
नवद्वारं महायामं सर्वतः स्नायुवेष्टितम् ।
नृपश्च पुरुषस्तत्र चेतनावानवस्थितः ॥ ३.६० ॥
मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ ।
यतेते वैरनाशाय तावुभावितरेतरम् ॥ ३.६१ ॥
नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः ।
कामः क्रोधस्तथा लोभो मोहश्चान्यस्तथा रिपुः ॥ ३.६२ ॥
यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति ।
सदा सुस्थबलश्चैव निरातङ्कश्च जायते ॥ ३.६३ ॥
जातानुरागो भवति शत्रुभिर्नाभिभूयते ॥ ३.६४ ॥
यदा तु सर्वद्वाराणि विवृतानि स मुञ्चति ।
रागो नाम तदा शत्रुर्नेत्रादिद्वारमृच्छति ॥ ३.६५ ॥
सर्वव्यापी महायामः पञ्चद्वारप्रवेशनः ।
तस्यानुमार्गं विशति तद्वै घोरं रिपुत्रयम् ॥ ३.६६ ॥
प्रविश्याथ स वै तत्र द्वारैरिन्द्रियसञ्ज्ञकैः ।
रागः शंश्लेषमायाति मनसा च सहेतरैः ॥ ३.६७ ॥
इन्द्रियाणि मनश्चैव वशे कृत्वा दुरासदः ।
द्वाराणि च वशे कृत्वा प्राकारं नाशयत्यथ ॥ ३.६८ ॥
मनस्तस्याश्रितं दृष्ट्वा बुद्धिर्नश्यति तत्क्षणात् ।
अमात्यरहितस्तत्र पौरवर्गोज्झितस्तथा ॥ ३.६९ ॥
रिपुभिर्लब्धविवरः स नृपो नाशमृच्छति ।
एवं रागस्तथा मोहो लोभः क्रोधस्तथैव च ॥ ३.७० ॥
प्रवर्तन्ते दुरात्मानो मनुष्यस्मृतिनाशकाः ।
रागात्तु क्रोधः प्रभवति क्रोधाल्लोभोऽभिजायते ॥ ३.७१ ॥
लोभाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ३.७२ ॥
एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनाम् ।
जीविते च सलोभानां प्रसादं कुरु सत्तम ॥ ३.७३ ॥
योऽयं शापो भगवता दत्तः स न भवेत्तथा ।
न तामसीं गतिं कष्टां व्रजेम मुनिसत्तम ॥ ३.७४ ॥
यन्मयोक्तं न तन्मिथ्या भविष्यति कदाचन ।
न मे वागनृतं प्राह यावदद्येति पुत्रकाः ॥ ३.७५ ॥
दैवमत्र परं मन्ये धिक्पौरुषमनर्थकम् ।
अकार्यं कारितो येन बलादहमचिन्तितम् ॥ ३.७६ ॥
यस्माच्च युष्माभिरहं प्रणिपत्य प्रसादितः ।
तस्मात्तिर्यक्त्वमापन्नाः परं ज्ञानमवाप्स्यथ ॥ ३.७७ ॥
ज्ञानदर्शितमार्गाश्च निर्धूतक्लेशकल्मषाः ।
मत्प्रसादादसन्दिग्धाः परां सिद्धिमवाप्स्यथ ॥ ३.७८ ॥
एवं शप्ताः स्म भगवन् पित्रा दैववशात्पुरा ।
ततः कालेन महता योन्यन्तरमुपागताः ॥ ३.७९ ॥
जाताश्च रणमध्ये वै भवता परिपालिताः ।
वयमित्थं द्विजश्रेष्ठ खगत्वं समुपागताः ।
नास्त्यसाविह संसारे यो न दिष्टेन बाध्यते ॥ ३.८० ॥
मार्कण्डेय उवाच
इति तेषां वचः श्रुत्वा शमीको भगवान्मुनिः ।
प्रत्युवाच महाभागः समीपस्थायिनो द्विजान् ॥ ३.८१ ॥
पूर्वमेव मया प्रोक्तं भवतां सन्निधाविदम् ।
सामान्यपक्षिणो नैते केऽप्येते द्विजसत्तमाः ।
ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥ ३.८२ ॥
ततः प्रीतिमता तेन तेऽनुज्ञाता महात्मना ।
जग्मुः शिखरिणां श्रेष्टं विन्ध्यं द्रुमलतायुतम् ॥ ३.८३ ॥
यावदद्य स्थितास्तस्मिन्नचले धर्मपक्षिणः ।
तपः स्वाध्यायनिरताः समाधौ कृतनिश्चयाः ॥ ३.८४ ॥
इति मुनिवरलब्धसत्क्रियास्ते
मुनितनया विहगत्वमभ्युपेताः ।
गिरिवरगहनेऽतिपुण्यतोये
यतमनसो निवसन्ति विन्ध्यपृष्ठे ॥ ३.८५ ॥
इति श्रीमार्कण्डेयपुराणे विन्ध्यप्राप्तिर्नाम तृतीयोऽध्यायः