द्वितीयोऽध्यायः
मार्कण्डेय उवाच
अरिष्टनेमिपुत्रोऽभूद्गरुडो नाम पक्षिराट् ।
गरुडस्याभवत्पुत्रः सम्पातिरिति विश्रुतः ॥ २.१ ॥
तस्याप्यासीत्सुतः शूरः सुपार्श्वो वायुविक्रमः ।
सुपार्श्वतनयः कुन्तिः कुन्तिपुत्रः प्रलोलुपः ॥ २.२ ॥
तस्यापि तनयावास्तां कङ्कः कन्धर एव च ॥ २.३ ॥
कङ्कः कैलासशिखरे विद्युद्रूपेति विश्रुतम् ।
ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम् ॥ २.४ ॥
आपानासक्तममलस्त्रग्दामाम्बरधारिणम् ।
भार्यासहायमासीनं शिलापट्टेऽमले शुभे ॥ २.५ ॥
तद्दृष्टमात्रं कङ्केन रक्षः क्रोधसमन्वितम् ।
प्रोवाच कस्मादायातस्त्वमितो ह्यण्डजाधम ॥ २.६ ॥
स्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि ।
नैष धर्मः सुबुद्धीनां मिथोनिष्पाद्यवस्तुषु ॥ २.७ ॥
कङ्क उवाच
साधारणोऽयं शैलेन्द्रो यथा तव तथा मम ।
अन्येषां चैव जन्तूनां ममता भवतोऽत्र का ॥ २.८ ॥
मार्कण्डेय उवाच
ब्रुवाणमित्थं खड्गेन कङ्कं चिन्छेद राक्षसः ।
क्षरत्क्षतजबीभत्सं विस्फुरन्तमचेतनम् ॥ २.९ ॥
कङ्कं विनिहतं श्रुत्वा कन्धरः क्रोधमूर्च्छितः ।
विद्युद्रूपवधायाशु मनश्चक्रेऽण्डजेश्वरः ॥ २.१० ॥
स गत्वा शैलशिखरं कङ्को यत्र हतः स्थितः ।
तस्य सङ्कलनं चक्रे भ्रातुर्ज्येष्ठस्य खेचरः ।
कोपामर्षविवृताक्षो नागेन्द्र इव निः श्वसन् ॥ २.११ ॥
जगामाथ स यत्रास्ते भ्रातृहा तस्य राक्षसः ।
पक्षवातेन महता चालयन् भूधरान् वरान् ॥ २.१२ ॥
वेगात्पयोदजालानि विक्षिपन् क्षतजेक्षणः ।
क्षणात्क्षयितशत्रुः स पक्षाभ्यां क्रान्तभूधरः ॥ २.१३ ॥
पानासक्तमतिं तत्र तं ददर्श निशाचरम् ।
आताम्रवक्त्रनयनं हेमपर्यङ्कमाश्रितम् ॥ २.१४ ॥
स्त्रग्दामापूरितशिखं हरिचन्दनभूषितम् ।
केतकीगर्भपत्राभैर्दन्तैर्घोरतराननम् ॥ २.१५ ॥
वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् ।
पत्नीं मदनिकां नाम पुंस्कोकिलकलस्वनाम् ॥ २.१६ ॥
ततो रोषपरीतात्मा कन्धरः कन्दरस्थितम् ।
तमुवाच सुदुष्टात्मन्नेहि युध्यस्व वै मया ॥ २.१७ ॥
यस्माज्जेष्ठो मम भ्राता विश्रब्धो घाततस्त्वया ।
तस्मात्त्वां मदसंसक्तं नयिष्ये यमसादनम् ॥ २.१८ ॥
विश्वस्तघातिनां लोका ये च स्त्रीबालघातिनाम् ।
यास्यसे निरयान् सर्वांस्तांस्त्वमद्य मया हतः ॥ २.१९ ॥
मार्कण्डेय उवाच
इत्येवं पतगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा ।
रक्षः क्रोधसमाविष्टं प्रत्यभाषत पक्षिणम् ॥ २.२० ॥
यदि ते निहतो भ्राता पौरुषं तद्धि दर्शितम् ।
त्वामप्यद्य हनिष्येऽहं खड्गेनानेन खेचर ॥ २.२१ ॥
तिष्ठ क्षणं नात्र जीवन् पतगाधम यास्यसि ।
इत्युक्त्वाञ्जनपुञ्जाभं विमलं खड्गमाददे ॥ २.२२ ॥
ततः पतगराजस्य यक्षाधिपभटस्य च ।
बभूव युद्धमतुलं यथा गरुडशक्रयोः ॥ २.२३ ॥
ततः स राक्षसः क्रोधात्खड्गमाविध्य वेगवत् ।
चिक्षेप पतगेन्द्राय निर्वाणाङ्गारवर्चसम् ॥ २.२४ ॥
पतगेन्द्रश्च तं खड्गङ्किञ्चिदुत्प्लुत्य भूतलात् ।
वक्त्रेण जग्राह तदा गरुडः पन्नगं यथा ॥ २.२५ ॥
वक्त्रपादतलैर्भङ्क्त्वा चक्रे क्षोभमथातुलम् ।
तस्मिन् भग्ने ततः खड्गे बाहुयुद्धमवर्तत ॥ २.२६ ॥
ततः पतगराजेन वक्षस्याक्रम्य राक्षसः ।
हस्तपादकरैराशु शिरसा च वियोजितः ॥ २.२७ ॥
तस्मिन् विनिहते सा स्त्री खगं शरणमभ्यगात् ।
किञ्चित्सञ्जातसन्त्रासा प्राह भार्या भवामि ते ॥ २.२८ ॥
तामादाय खगश्रेष्ठः स्वकं गृहमगात्पुनः ।
गत्वा स निष्कृतिं भ्रातुर्विद्युद्रुपनिपातनात् ॥ २.२९ ॥
कन्धरस्य च सा वेश्म प्राप्येच्छारूपधारिणी ।
मेनकातनया सुभ्रूः सौपर्णं रूपमाददे ॥ २.३० ॥
तस्यां स जनयामास तार्क्षों नाम सुतां तदा ।
मुनिशापाग्निविप्लुष्टां वपुमप्सरसां वराम् ।
तस्या नाम तदा चक्रे तार्क्षोमिति विहङ्गमः ॥ २.३१ ॥
मन्दपालसुताश्चासंश्चत्वारोऽमितबुद्धयः ।
जरितारिप्रभृतयो द्रोणान्ता द्विजसत्तमाः ॥ २.३२ ॥
तेषां जघन्यो धर्मात्मा वेदवेदाङ्गपारगः ।
उपयेमे स तां तार्क्षों कन्धरानुमते शुभाम् ॥ २.३३ ॥
कस्यचित्त्वथ कालस्य तार्क्षो गर्भमवाप ह ।
सप्तपक्षाहिते गर्भे कुरुक्षेत्रं जगाम सा ॥ २.३४ ॥
कुरुपाण्डवयोर्युद्धे वर्तमाने सुदारुणे ।
भावित्वाच्चैव कार्यस्य रणमध्ये विवेश सा ॥ २.३५ ॥
तत्रापश्यत्तदा युद्धं भगदत्तकिरीटिनोः ।
निरन्तरं शरैरासीदाकाशं शलभैरिव ॥ २.३६ ॥
पार्थकोदण्डनिर्मुक्तमासन्नमतिवेगवत् ।
तस्या भल्लमहिश्यामं त्वचं चिच्छेद जाठरीम् ॥ २.३७ ॥
भिन्ने कोष्ठे शसाङ्काभं भूमावण्डचतुष्टयम् ।
आयुषः सावशेषत्वात्तूलराशाविवापतत् ॥ २.३८ ॥
तत्पातसमकालं च सुप्रतीकाद्गजोत्तमात् ।
पपात महती घष्टा बाणसञ्छिन्नबन्धना ॥ २.३९ ॥
समं समन्तात्प्राप्ता तु निर्भिन्नधरणीतला ।
छादयन्ती खगाण्डानि स्थितानि पिशितोपरि ॥ २.४० ॥
हते च तस्मिन्नृपतौ भगदत्ते नरेश्वरे ।
बहून्यहान्यभूद्युद्धं कुरुपाण्डवसैन्ययोः ॥ २.४१ ॥
वृत्ते युद्धे धर्मपुत्रे गते शान्तनवान्तिकम् ।
भीष्मस्य गदतोऽशेषान् श्रोतुं धर्मान्महात्मनः ॥ २.४२ ॥
घष्टागतानि तिष्ठन्ति यत्राण्डानि द्विजोत्तम ।
आजगाम तमुद्देशं शमीको नाम संयमी ॥ २.४३ ॥
स तत्र शब्दमशृणोच्चिचीकुचीति वाशताम् ।
बाल्यादस्फुटवाक्यानां विज्ञानेऽपि परे सति ॥ २.४४ ॥
अथर्षिः शिष्यसहितो घष्टामुत्पाट्य विस्मितः ।
अमातृपितृपक्षाणि शिशुकानि ददर्श ह ॥ २.४५ ॥
तानि तत्र तथा भूमौ शमीको भगवान्मुनिः ।
दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगतान् द्विजान् ॥ २.४६ ॥
सम्यगुक्तं द्विजाग्य्रेण शुक्रेणोशनसा स्वयम् ।
पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितम् ॥ २.४७ ॥
न गन्तव्यं निवर्तध्वं कस्माद्व्रजथ कातराः ।
उत्सृज्य शौर्ययशसी क्व गता न मरिष्यथ ॥ २.४८ ॥
नश्यतो युध्यतो वापि तावद्भवति जीवितम् ।
यावद्धातासृजत्पूर्वं न यावन्मनसेप्सितम् ॥ २.४९ ॥
एके म्रियन्ते स्वगृहे पलायन्तोऽपरे जनाः ।
भुञ्जन्तोऽन्नं तथैवापः पिबन्तो निधनं गताः ॥ २.५० ॥
विलासिनस्तथैवान्ये कामयाना निरामयाः ।
अविक्षताङ्गाः शस्त्रैश्च प्रेतराजवशङ्गताः ॥ २.५१ ॥
अन्ये तपस्यभिरता नीताः प्रेतनृपानुगैः ।
योगाभ्यासे रताश्चान्ये नैव प्रापुरमृत्युताम् ॥ २.५२ ॥
शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ।
हृदयेऽभिहतस्तेन तथापि न मृतोऽसुरः ॥ २.५३ ॥
तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः ।
प्राप्ते काले हता दैत्यास्तत्क्षणान्निधनं गताः ॥ २.५४ ॥
विदित्वैवं न सन्त्रासः कर्तव्यो विनिवर्तते ।
ततो निवृत्तास्ते दैत्यास्त्यक्त्वा मरणजं भयम् ॥ २.५५ ॥
इति शुक्रवचः सत्यं कृतमेभिः खगोत्तमैः ।
ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥ २.५६ ॥
क्वाणाडानां पतनं विप्राः क्व घण्टापतनं समम् ।
क्व च मांसवसारक्तैर्भूमेरास्तरणक्रियाः ॥ २.५७ ॥
केऽप्येते सर्वथा विप्रा नैते सामान्यपक्षिणः ।
दैवानुकूलता लोके महाभाग्यप्रदर्शिनी ॥ २.५८ ॥
एवमुक्त्वा स तान् वीक्ष्य पुनर्वचनमब्रवीत् ।
निवर्तताश्रमं यात गृहीत्वा पक्षिबालकान् ॥ २.५९ ॥
मार्जाराखुभयं यत्र नैषामण्डजजन्मनाम् ।
श्येनतो नकुलाद्वापि स्थाप्यन्तां तत्र पक्षिणः ॥ २.६० ॥
द्विजाः किं वातियत्नेन मार्यन्ते कर्मभिः स्वकैः ।
रक्ष्यन्ते चाखिला जीवा यथैते पक्षिबालकाः ॥ २.६१ ॥
तथापि यत्नः कर्तव्यो नरैः सर्वेषु कर्मसु ।
कुर्वन् पुरुषकारन्तु वाच्यतां याति नो सताम् ॥ २.६२ ॥
इति मुनिवरचोदितास्ततस्ते
मुनितनयाः परिगृह्य पक्षिणस्तान् ।
तरुविटपसमाश्रितालिसङ्घं
ययुरथ तापसरम्यमाश्रमं स्वम् ॥ २.६३ ॥
स चापि वन्यं मनसाभिकामितं
प्रगृह्य मूलं कुसुमं फलं कुशान् ।
चकार चक्रायुधरुद्रवेधसां
सुरेन्द्रवैवस्वतः जातवेदसाम् ॥ २.६४ ॥
अपाम्पतेर्गोष्पतिवित्तरक्षिणोः
समीरणस्यापि तथा द्विजोत्तमाः ।
धातुर्विधातुस्त्वथ वैश्वदेविकाः
श्रुतिप्रयुक्ता विवधास्तु सत्क्रियाः ॥ २.६५ ॥
इति श्रीमार्कण्डेयपुराणे चटकोत्पत्तिर्नाम द्वितीयोऽध्यायः