०१

श्रीमन्महर्षिवेदव्यासप्रणीतं
श्रीमार्कण्डेयपुराणम्
प्रथमोऽध्यायः
आरम्भमङ्गलम्
यद्योगिभिर्भवभयार्तिविनाशयोग्यम्
आसाद्य वन्दितमतीव विवक्तचित्तैः ।
तद्वः पुनातु हरिपादसरोजयुग्मम्
अविर्भवत्क्रमविलङ्घितभूर्भुवः स्वः ॥ म.१ ॥
पायात्स वः सकलकल्मषभेददक्षः
क्षीरोदकुक्षिफणिभोगनिविष्टमूर्तिः ।
श्वासावधूतसलिलोत्कणिकाकरालः
सिन्धुः प्रनृत्यमिव यस्य करोति सङ्गात् ॥ म.२ ॥
नारायणं समस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ म.३ ॥

तपः स्वाध्यायनिरतं मार्कण्डेयं महामुनिम् ।
व्यासशिष्यो महातेजा जैमिनिः पर्यपृच्छत ॥ १.१ ॥
भगवन् भारताख्यानं व्यासेनोक्तं महात्मना ।
पूर्णमस्तमलैः शुभ्रैर्नानाशास्त्रसमुच्चयैः ॥ १.२ ॥
जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् ।
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् ॥ १.३ ॥
त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा ।
भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः ॥ १.४ ॥
यथायुधानां कुलिशमिन्द्रियाणां यथा मनः ।
तथेह सर्वशास्त्रणां महाभारतमुत्तमम् ॥ १.५ ॥
अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते ।
परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक् ॥ १.६ ॥
धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् ।
कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम् ॥ १.७ ॥
चतुराश्रमधर्माणामाचारस्थितिसाधनम् ।
प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता ॥ १.८ ॥
तथा तात कृतं ह्येतद्व्यासेनोदारकर्मणा ।
यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते ॥ १.९ ॥
व्यासवाक्यजलौघेन कुतर्कतरुहारिणा ।
वेदशैलावतीर्णेन नीरजस्का मही कृता ॥ १.१० ॥
कलशब्दमहाहंसं माख्यानपराम्बुजम् ।
कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम् ॥ १.११ ॥
तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् ।
तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः ॥ १.१२ ॥
कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।
वासुदेवो जगत्सूतिस्थितिसंयमकारणम् ॥ १.१३ ॥
कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा ।
पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान् ॥ १.१४ ॥
भेषजं ब्रह्महत्याया बलदेवो महाबलः ।

तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः ॥ १.१५ ॥
कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः ।
पाण्डुनाथा महात्मानो वधमापुरनाथवत् ॥ १.१६ ॥
एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि ।
भवन्तो मूढबुद्धीनामवबोधकराः सदा ॥ १.१७ ॥
इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः ।
दशाष्टदोषरहितो वक्तुं समुपचक्रमे ॥ १.१८ ॥

मार्कण्डेय उवाच

क्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम ।
विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते ॥ १.१९ ॥
ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव ।
तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः ॥ १.२० ॥
पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा ।

द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः ॥ १.२१ ॥
वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः ।
विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च ॥ १.२२ ॥
एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता ।
प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः ॥ १.२३ ॥

जैमिनिरुवाच

अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी ।
यत्पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम् ॥ १.२४ ॥
तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् ।
कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः ॥ १.२५ ॥
कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् ।
जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम् ॥ १.२६ ॥

मार्कण्डेय उवाच

शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा ।
शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे ॥ १.२७ ॥
नारदो नन्दनेऽपश्यत्पुंश्चलीगणमध्यगम् ।
शक्रं सुराधिराजानं तन्मुखासक्तलोचनम् ॥ १.२८ ॥
स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः ।
समुत्तस्थौ स्वकं चास्मै ददावासनमादरात् ॥ १.२९ ॥
तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः ।
प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः ॥ १.३० ॥
ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ ।
यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः ॥ १.३१ ॥

शक्र उवाच

ततः कथान्तरे शक्रस्तमुवाच महामुनिम् ।
देह्याज्ञां नृत्यतामासां तव याभिमतेति वै ॥ १.३२ ॥
रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा ।
घृताची मेनका वापि यत्र वा भवतो रुचिः ॥ १.३३ ॥
एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः ।
विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः ॥ १.३४ ॥
युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् ।
आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः ॥ १.३५ ॥
गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै ।
चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम् ॥ १.३६ ॥
तद्वाक्यसमकालं च एकैकास्ता नतास्ततः ।
अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम् ॥ १.३७ ॥

मार्कण्डेय उवाच

तासां सम्भ्रममालोक्य भगवान् पाकशासनः ।
पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम् ॥ १.३८ ॥
शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः ।
प्रोवाच यत्तदा वाक्यं जैमिने तन्निबोध मे ॥ १.३९ ॥
तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् ।
दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम् ॥ १.४० ॥

मार्कण्डेय उवाच

तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः ।
अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः ॥ १.४१ ॥
तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता ।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥ १.४२ ॥
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥ १.४३ ॥
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः ।
तमप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥ १.४४ ॥
इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा ।
मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम् ॥ १.४५ ॥
स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः ।
क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः ॥ १.४६ ॥
तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः ।
जगाम तत्र यत्रास्ते सा बाला रुचिरानना ॥ १.४७ ॥
तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् ।
क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः ॥ १.४८ ॥
उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः ॥ १.४९ ॥
यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् ।
आगतासि मदोन्मत्ते मम दुः खाय खेचरि ॥ १.५० ॥
तस्मात्सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता ।
जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश ॥ १.५१ ॥
निजरूपं परित्यज्य पक्षिणीरूपधारिणी ।
चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः ॥ १.५२ ॥
अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि ।
वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन ॥ १.५३ ॥
इति वचनमसह्यं कोपसंरक्तदृष्टिश्
चलकलबलयां तां मानिनीं श्रावयित्वा ।
तरलतरतरङ्गां गां परित्यज्य विप्रः
प्रथितगुणगणौघां सम्प्रयाताः खगङ्गाम् ॥ १.५४ ॥

इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमोऽध्यायः