Summary (SA)
Chapter 246- Conclusion to the Brahmapurāṇa
{{Ref- SS 401-402}}
लोमहर्षण उवाच-
एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा ।
दशाष्टदोषरहितैर् वाक्यैः सारतरैर् द्विजाः ॥ १ ॥
पूर्णम् अस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः ।
जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥ २ ॥
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् ।
श्रावयित्वा यथान्यायं विरराम महामतिः ॥ ३ ॥
ते ऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसम्मितम् ।
आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम् ॥ ४ ॥
हृष्टा बभूवुः सुप्रीता विस्मिताश् च पुनः पुनः ।
प्रशशंसुस् तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥ ५ ॥
मुनय ऊचुः-
अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसम्मितम् ।
सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥ ६ ॥
प्रोक्तं श्रुतं तथास्माभिर् विचित्रपदम् अक्षरम् ।
न ते ऽस्त्य् अविदितं किञ्चित् त्रिषु लोकेषु वै प्रभो ॥ ७ ॥
सर्वज्ञस् त्वं महाभाग देवेष्व् इव बृहस्पतिः ।
नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥ ८ ॥
येन त्वया तु वेदार्था भारते प्रकटीकृताः ।
कः शक्नोति गुणान् वक्तुं तव सर्वान् महामुने ॥ ९ ॥
अधीत्य चतुरो वेदान् साङ्गान् व्याकरणानि च ।
कृतवान् भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥ १० ॥
नमो ऽस्तु ते व्यास विशालबुद्धे ।
फुल्लारविन्दायतपत्त्रनेत्र ।
येन त्वया भारततैलपूर्णः ।
प्रज्वालितो ज्ञानमयः प्रदीपः ॥ ११ ॥
अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः ।
ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः ॥ १२ ॥
एवम् उक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः ।
जग्मुर् यथागतं सर्वे कृतकृत्याः स्वम् आश्रमम् ॥ १३ ॥
तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् ।
पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥ १४ ॥
यथा भवद्भिः पृष्टो ऽहं सम्प्रश्नं द्विजसत्तमाः ।
व्यासप्रसादात् तत् सर्वं मया सम्परिकीर्तितम् ॥ १५ ॥
इदं गृहस्थैः श्रोतव्यं यतिभिर् ब्रह्मचारिभिः ।
धनसौख्यप्रदं नॄणां पवित्रं पापनाशनम् ॥ १६ ॥
तथा ब्रह्मपरैर् विप्रैर् ब्राह्मणाद्यैः सुसंयतैः ।
श्रोतव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः ॥ १७ ॥
प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे ।
वैश्यस् तु धनम् अक्षय्यं शूद्रः सुखम् अवाप्नुयात् ॥ १८ ॥
यं यं कामम् अभिध्यायञ् शृणोति पुरुषः शुचिः ।
तं तं कामम् अवाप्नोति नरो नास्त्य् अत्र संशयः ॥ १९ ॥
पुराणं वैष्णवं त्व् एतत् सर्वकिल्बिषनाशनम् ।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ २० ॥
एतद् वो यन् मयाख्यातं पुराणं वेदसम्मितम् ।
श्रुते ऽस्मिन् सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ २१ ॥
प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे ।
उपोष्य यद् अवाप्नोति तद् अस्य श्रवणान् नरः ॥ २२ ॥
यद् अग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् ।
महापुण्यमयं विप्रास् तद् अस्य श्रवणात् सकृत् ॥ २३ ॥
यज् ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ २४ ॥
तद् आप्नोति फलं सम्यक् समाधानेन कीर्तनात् ।
पुराणे ऽस्य हितो विप्राः केशवार्पितमानसः ॥ २५ ॥
यत् फलं क्रियम् आलोक्य पुरुषो ऽथ लभेन् नरः ।
तत् फलं समवाप्नोति यः पठेच् छृणुयाद् अपि ॥ २६ ॥
इदं यः श्रद्धया नित्यं पुराणं वेदसम्मितम् ।
यः पठेच् छृणुयान् मर्त्यः स याति भुवनं हरेः ॥ २७ ॥
श्रावयेद् ब्राह्मणो यस् तु सदा पर्वसु संयतः ।
एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥ २८ ॥
इदं यशस्यम् आयुष्यं सुखदं कीर्तिवर्धनम् ।
बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ॥ २९ ॥
त्रिसन्ध्यं यः पठेद् विद्वाञ् श्रद्धया सुसमाहितः ।
इदं वरिष्ठम् आख्यानं स सर्वम् ईप्सितं लभेत् ॥ ३० ॥
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
भयाद् विमुच्यते भीत आपदापन्न आपदः ॥ ३१ ॥
जातिस्मरत्वं विद्यां च पुत्रान् मेधां पशून् धृतिम् ।
धर्मं चार्थं च कामं च मोक्षं तु लभते नरः ॥ ३२ ॥
यान् यान् कामान् अभिप्रेत्य पठेत् प्रयतमानसः ।
तांस् तान् सर्वान् अवाप्नोति पुरुषो नात्र संशयः ॥ ३३ ॥
यश् चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदं ।
विष्णुं लोकगुरुं प्रणम्य वरदं भक्त्येकचित्तः शुचिः ।
भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखं ।
पश्चाद् याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः॥ ३४ ॥
तस्माद् विप्रवरैः स्वधर्मनिरतैर् मुक्त्येकमार्गेप्सुभिस् ।
तद्वत् क्षत्रियपुङ्गवैस् तु नियतैः श्रेयोर्थिभिः सर्वदा ।
वैश्यैश् चानुदिनं विशुद्धकुलजैः शूद्रैस् तथा धार्मिकैः ।
श्रोतव्यं त्व् इदम् उत्तमं बहुफलं धर्मार्थमोक्षप्रदम् ॥ ३५ ॥
धर्मे मतिर् भवतु वः पुरुषोत्तमानां ।
स ह्य् एक एव परलोकगतस्य बन्धुः ।
अर्थाः स्त्रियश् च निपुणैर् अपि सेव्यमाना ।
नैव प्रभावम् उपयान्ति न च स्थिरत्वम् ॥ ३६ ॥
धर्मेण राज्यं लभते मनुष्यः ।
स्वर्गं च धर्मेण नरः प्रयाति ।
आयुश् च कीर्तिं च तपश् च धर्मं ।
धर्मेण मोक्षं लभते मनुष्यः ॥ ३७ ॥
धर्मो ऽत्र मातापितरौ नरस्य ।
धर्मः सखा चात्र परे च लोके ।
त्राता च धर्मस् त्व् इह मोक्षदश् च ।
धर्माद् ऋते नास्ति तु किञ्चिद् एव ॥ ३८ ॥
इदं रहस्यं श्रेष्ठं च पुराणं वेदसम्मितम् ।
न देयं दुष्टमतये नास्तिकाय विशेषतः ॥ ३९ ॥
इदं मयोक्तं प्रवरं पुराणं ।
पापापहं धर्मविवर्धनं च ।
श्रुतं भवद्भिः परमं रहस्यम् ।
आज्ञापयध्वं मुनयो व्रजामि ॥ ४० ॥