245

Summary (SA)

Chapter 245- Dialogue between Karālajanaka and Vasiṣṭha (cont.)

{{Ref- SS 399-401}}

वसिष्ठ उवाच-

अप्रबुद्धम् अथाव्यक्तम् इमं गुणनिधिं सदा ।
गुणानां धार्यतां तत्त्वं सृजत्य् आक्षिपते तथा ॥ १ ॥

अजो हि क्रीडया भूप विक्रियां प्राप्त इत्य् उत ।
आत्मानं बहुधा कृत्वा नानेव प्रतिचक्षते ॥ २ ॥

एतद् एवं विकुर्वाणो बुध्यमानो न बुध्यते ।
गुणान् आचरते ह्य् एष सृजत्य् आक्षिपते तथा ॥ ३ ॥

अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् अपि ।
न त्व् एवं बुध्यते ऽव्यक्तं सगुणं तात निर्गुणम् ॥ ४ ॥

कदाचित् त्व् एव खल्व् एतत् तद् आहुः प्रतिबुद्धकम् ।
बुध्यते यदि चाव्यक्तम् एतद् वै पञ्चविंशकम् ॥ ५ ॥

बुध्यमानो भवत्य् एष ममात्मक इति श्रुतः ।
अन्योन्यप्रतिबुद्धेन वदन्त्य् अव्यक्तम् अच्युतम् ॥ ६ ॥

अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् उत ।
पञ्चविंशं महात्मानं न चासाव् अपि बुध्यते ॥ ७ ॥

षड्विंशं विमलं बुद्धम् अप्रमेयं सनातनम् ।
सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ ८ ॥

दृश्यादृश्ये ह्य् अनुगततत्स्वभावे महाद्युते ।
अव्यक्तं चैव तद् ब्रह्म बुध्यते तात केवलम् ॥ ९ ॥

पञ्चविंशं चतुर्विंशम् आत्मानम् अनुपश्यति ।
बुध्यमानो यदात्मानम् अन्यो ऽहम् इति मन्यते ॥ १० ॥

तदा प्रकृतिमान् एष भवत्य् अव्यक्तलोचनः ।
बुध्यते च परां बुद्धिं विशुद्धाम् अमलां यथा ॥ ११ ॥

षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् ।
ततस् त्यजति सो ऽव्यक्तं सर्गप्रलयधर्मिणम् ॥ १२ ॥

निर्गुणां प्रकृतिं वेद गुणयुक्ताम् अचेतनाम् ।
ततः केवलधर्मासौ भवत्य् अव्यक्तदर्शनात् ॥ १३ ॥

केवलेन समागम्य विमुक्तात्मानम् आप्नुयात् ।
एतत् तु तत्त्वम् इत्य् आहुर् निस्तत्त्वम् अजरामरम् ॥ १४ ॥

तत्त्वसंश्रवणाद् एव तत्त्वज्ञो जायते नृप ।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ १५ ॥

न चैव तत्त्ववांस् तात संसारेषु निमज्जति ।
एषाम् उपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ १६ ॥

षड्विंशो ऽयम् इति प्राज्ञो गृह्यमाणो ऽजरामरः ।
केवलेन बलेनैव समतां यात्य् असंशयम् ॥ १७ ॥

षड्विंशेन प्रबुद्धेन बुध्यमानो ऽप्य् अबुद्धिमान् ।
एतन् नानात्वम् इत्य् उक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥ १८ ॥

चेतनेन समेतस्य पञ्चविंशतिकस्य ह ।
एकत्वं वै भवेत् तस्य यदा बुद्ध्यानुबुध्यते ॥ १९ ॥

बुध्यमानेन बुद्धेन समतां याति मैथिल ।
सङ्गधर्मा भवत्य् एष निःसङ्गात्मा नराधिप ॥ २० ॥

निःसङ्गात्मानम् आसाद्य षड्विंशं कर्मजं विदुः ।
विभुस् त्यजति चाव्यक्तं यदा त्व् एतद् विबुध्यते ॥ २१ ॥

चतुर्विंशम् अगाधं च षड्विंशस्य प्रबोधनात् ।
एष ह्य् अप्रतिबुद्धश् च बुध्यमानस् तु ते ऽनघ ॥ २२ ॥

उक्तो बुद्धश् च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः ॥ २३ ॥

मत्स्योदके यथा तद्वद् अन्यत्वम् उपलभ्यते ।
एवम् एव च गन्तव्यं नानात्वैकत्वम् एतयोः ॥ २४ ॥

एतावन् मोक्ष इत्य् उक्तो ज्ञानविज्ञानसञ्ज्ञितः ।
पञ्चविंशतिकस्याशु यो ऽयं देहे प्रवर्तते ॥ २५ ॥

एष मोक्षयितव्यैति प्राहुर् अव्यक्तगोचरात् ।
सो ऽयम् एवं विमुच्येत नान्यथेति विनिश्चयः ॥ २६ ॥

परश् च परधर्मा च भवत्य् एव समेत्य वै ।
विशुद्धधर्मा शुद्धेन नाशुद्धेन च बुद्धिमान् ॥ २७ ॥

विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ ।
वियोगधर्मिणा चैव विमुक्तात्मा भवत्य् अथ ॥ २८ ॥

विमोक्षिणा विमोक्षश् च समेत्येह तथा भवेत् ।
शुचिकर्मा शुचिश् चैव भवत्य् अमितबुद्धिमान् ॥ २९ ॥

विमलात्मा च भवति समेत्य विमलात्मना ।
केवलात्मा तथा चैव केवलेन समेत्य वै ।
स्वतन्त्रश् च स्वतन्त्रेण स्वतन्त्रत्वम् अवाप्यते ॥ ३० ॥

एतावद् एतत् कथितं मया ते ।
तथ्यं महाराज यथार्थतत्त्वम् ।
अमत्सरस् त्वं प्रतिगृह्य बुद्ध्या ।
सनातनं ब्रह्म विशुद्धम् आद्यम् ॥ ३१ ॥

तद् वेदनिष्ठस्य जनस्य राजन् ।
प्रदेयम् एतत् परमं त्वया भवेत् ।
विधित्समानाय निबोधकारकं ।
प्रबोधहेतोः प्रणतस्य शासनम् ॥ ३२ ॥

न देयम् एतच् च यथानृतात्मने ।
शठाय क्लीबाय न जिह्मबुद्धये ।
न पण्डितज्ञानपरोपतापिने ।
देयं तथा शिष्यविबोधनाय ॥ ३३ ॥

श्रद्धान्वितायाथ गुणान्विताय ।
परापवादाद् विरताय नित्यम् ।
विशुद्धयोगाय बुधाय चैव ।
कृपावते ऽथ क्षमिणे हिताय ॥ ३४ ॥

विविक्तशीलाय विधिप्रियाय ।
विवादहीनाय बहुश्रुताय ।
विनीतवेशाय नहैतुकात्मने ।
सदैव गुह्यं त्व् इदम् एव देयम् ॥ ३५ ॥

एतैर् गुणैर् हीनतमे न देयम् ।
एतत् परं ब्रह्म विशुद्धम् आहुः ।
{}न श्रेयसे योक्ष्यति तादृशे कृतं ।
धर्मप्रवक्तारम् अपात्रदानात् ॥ ३६ ॥

पृथ्वीम् इमां वा यदि रत्नपूर्णां ।
दद्याद् अदेयं त्व् इदम् अव्रताय ।
जितेन्द्रियाय प्रयताय देयं ।
देयं परं तत्त्वविदे नरेन्द्र ॥ ३७ ॥

कराल मा ते भयम् अस्ति किञ्चिद् ।
एतच् छ्रुतं ब्रह्म परं त्वयाद्य ।
यथावद् उक्तं परमं पवित्रं ।
विशोकम् अत्यन्तम् अनादिमध्यम् ॥ ३८ ॥

अगाधम् एतद् अजरामरं च ।
निरामयं वीतभयं शिवं च ।
समीक्ष्य मोहं परवादसञ्ज्ञम् ।
एतस्य तत्त्वार्थम् इमं विदित्वा ॥ ३९ ॥

अवाप्तम् एतद् धि पुरा सनातनाद् ।
धिरण्यगर्भाद् धि ततो नराधिप ।
प्रसाद्य यत्नेन तम् उग्रतेजसं ।
सनातनं ब्रह्म यथा त्वयैतत् ॥ ४० ॥

पृष्टस् त्वया चास्मि यथा नरेन्द्र ।
तथा मयेदं त्वयि नोक्तम् अन्यत् ।
यथावाप्तं ब्रह्मणो मे नरेन्द्र ।
महाज्ञानं मोक्षविदां परायणम् ॥ ४१ ॥

व्यास उवाच-

एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः ।
पञ्चविंशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ ४२ ॥

पुनरावृत्तिम् आप्नोति परमं ज्ञानम् अव्ययम् ।
नाति बुध्यति तत्त्वेन बुध्यमानो ऽजरामरम् ॥ ४३ ॥

एतन् निःश्रेयसकरं ज्ञानं भोः परमं मया ।
कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ ४४ ॥

हिरण्यगर्भाद् ऋषिणा वसिष्ठेन समाहृतम् ।
वसिष्ठाद् ऋषिशार्दूलो नारदो ऽवाप्तवान् इदम् ॥ ४५ ॥

नारदाद् विदितं मह्यम् एतद् उक्तं सनातनम् ।
मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत् परमं पदम् ॥ ४६ ॥

येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते ।
विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ ४७ ॥

अविज्ञानाच् च मूढात्मा पुनः पुनर् उपद्रवान् ।
प्रेत्य जातिसहस्राणि मरणान्तान्य् उपाश्नुते ॥ ४८ ॥

देवलोकं तथा तिर्यङ् मानुष्यम् अपि चाश्नुते ।
यदि वा मुच्यते वापि तस्माद् अज्ञानसागरात् ॥ ४९ ॥

अज्ञानसागरे घोरे ह्य् अव्यक्तागाध उच्यते ।
अहन्य् अहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ ५० ॥

{} तस्माद् अगाधाद् अव्यक्ताद् उपक्षीणात् सनातनात् ।
तस्माद् यूयं विरजस्का वितमस्काश् च भो द्विजाः ॥ ५१ ॥

एवं मया मुनिश्रेष्ठाः सारात् सारतरं परम् ।
कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ ५२ ॥

न नास्तिकाय दातव्यं नाभक्ताय कदाचन ।
न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ ५३ ॥