244

Summary (SA)

Chapter 244- Dialogue between Karālajanaka and Vasiṣṭha (cont.)

{{Ref- SS 398-399}}

वसिष्ठ उवाच-

साङ्ख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम ।
विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः ॥ १ ॥

अभेद्यम् आहुर् अव्यक्तं सर्गप्रलयधर्मिणः ।
सर्गप्रलय इत्य् उक्तं विद्याविद्ये च विंशकः ॥ २ ॥

परस्परस्य विद्या वै तन् निबोधानुपूर्वशः ।
यथोक्तम् ऋषिभिस् तात साङ्ख्यस्यातिनिदर्शनम् ॥ ३ ॥

कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ ४ ॥

विषयाणां मनस् तेषां विद्याम् आहुर् मनीषिणः ।
मनसः पञ्च भूतानि विद्या इत्य् अभिचक्षते ॥ ५ ॥

अहङ्कारस् तु भूतानां पञ्चानां नात्र संशयः ।
अहङ्कारस् तथा विद्या बुद्धिर् विद्या नरेश्वर ॥ ६ ॥

बुद्ध्या प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरः ।
विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः ॥ ७ ॥

अव्यक्तम् अपरं प्राहुर् विद्या वै पञ्चविंशकः ।
सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयज्ञानस्य पारगः ॥ ८ ॥

ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम् ।
तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः ॥ ९ ॥

विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः ।
अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे ॥ १० ॥

उभाव् एतौ क्षराव् उक्तौ उभाव् एताव् अनक्षरौ ।
कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ ११ ॥

अनादिनिधनाव् एतौ उभाव् एवेश्वरौ मतौ ।
तत्त्वसञ्ज्ञाव् उभाव् एव प्रोच्येते ज्ञानचिन्तकैः ॥ १२ ॥

सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुर् अव्ययम् ।
तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ १३ ॥

गुणानां महदादीनाम् उत्पद्यति परस्परम् ।
अधिष्ठानं क्षेत्रम् आहुर् एतद् वै पञ्चविंशकम् ॥ १४ ॥

यद् अन्तर्गुणजालं तु तद् व्यक्तात्मनि सङ्क्षिपेत् ।
तद् अहं तद् गुणैस् तैस् तु पञ्चविंशे विलीयते ॥ १५ ॥

गुणा गुणेषु लीयन्ते तद् एका प्रकृतिर् भवेत् ।
क्षेत्रज्ञो ऽपि तदा तावत् क्षेत्रज्ञः सम्प्रणीयते ॥ १६ ॥

यदाक्षरं प्रकृतिर् यं गच्छते गुणसञ्ज्ञिता ।
निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ १७ ॥

एवम् एव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस् त्व् एष इत्य् एवम् अनुशुश्रुम ॥ १८ ॥

क्षरो भवत्य् एष यदा गुणवती गुणेष्व् अथ ।
प्रकृतिं त्व् अथ जानाति निर्गुणत्वं तथात्मनः ॥ १९ ॥

तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।
अन्यो ऽहम् अन्येयम् इति यदा बुध्यति बुद्धिमान् ॥ २० ॥

तदैषो ऽव्यथताम् एति न च मिश्रत्वम् आव्रजेत् ।
प्रकृत्या चैष राजेन्द्र मिश्रो ऽन्यो ऽन्यस्य दृश्यते ॥ २१ ॥

यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते ।
पश्यते च परं पश्यंस् तदा पश्यन् नु संसृजेत् ॥ २२ ॥

किं मया कृतम् एतावद् यो ऽहं कालनिमज्जनः ।
यथा मत्स्यो ह्य् अभिज्ञानाद् अनुवर्तितवाञ् जलम् ॥ २३ ॥

अहम् एव हि सम्मोहाद् अन्यम् अन्यं जनाज् जनम् ।
मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह ॥ २४ ॥

मत्स्यो ऽन्यत्वम् अथाज्ञानाद् उदकान् नाभिमन्यते ।
आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्य् अहम् ॥ २५ ॥

ममास्तु धिक् कुबुद्धस्य यो ऽहं मग्न इमं पुनः ।
अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम् ॥ २६ ॥

अयम् अनुभवेद् बन्धुर् अनेन सह मे क्षयम् ।
साम्यम् एकत्वतां यातो यादृशस् तादृशस् त्व् अहम् ॥ २७ ॥

तुल्यताम् इह पश्यामि सदृशो ऽहम् अनेन वै ।
अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तदा ॥ २८ ॥

यो ऽहम् अज्ञानसम्मोहाद् अज्ञया सम्प्रवृत्तवान् ।
संसर्गाद् अतिसंसर्गात् स्थितः कालम् इमं त्व् अहम् ॥ २९ ॥

सो ऽहम् एवं वशीभूतः कालम् एतं न बुद्धवान् ।
उत्तमाधममध्यानां ताम् अहं कथम् आवसे ॥ ३० ॥

समानमायया चेह सहवासम् अहं कथम् ।
गच्छाम्य् अबुद्धभावत्वाद् इहेदानीं स्थिरो भव ॥ ३१ ॥

सहवासं न यास्यामि कालम् एतं विवञ्चनात् ।
वञ्चितो ह्य् अनया यद् धि निर्विकारो विकारया ॥ ३२ ॥

न तत् तदपराद्धं स्याद् अपराधो ह्य् अयं मम ।
यो ऽहम् अत्राभवं सक्तः पराङ्मुखम् उपस्थितः ॥ ३३ ॥

ततो ऽस्मिन् बहुरूपो ऽथ स्थितो मूर्तिर् अमूर्तिमान् ।
अमूर्तिश् चाप्य् अमूर्तात्मा ममत्वेन प्रधर्षितः ॥ ३४ ॥

प्रकृत्या च तया तेन तासु तास्व् इह योनिषु ।
निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ ३५ ॥

योनिषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा ।
समता न मया काचिद् अहङ्कारे कृता मया ॥ ३६ ॥

आत्मानं बहुधा कृत्वा सो ऽयं भूयो युनक्ति माम् ।
इदानीम् अवबुद्धो ऽस्मि निर्ममो निरहङ्कृतः ॥ ३७ ॥

ममत्वं मनसा नित्यम् अहङ्कारकृतात्मकम् ।
अपलग्नाम् इमां हित्वा संश्रयिष्ये निरामयम् ॥ ३८ ॥

अनेन साम्यं यास्यामि नानयाहम् अचेतसा ।
क्षेमं मम सहानेन नैवैकम् अनया सह ॥ ३९ ॥

एवं परमसम्बोधात् पञ्चविंशो ऽनुबुद्धवान् ।
अक्षरत्वं निगच्छति त्यक्त्वा क्षरम् अनामयम् ॥ ४० ॥

अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ।
निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल ॥ ४१ ॥

अक्षरक्षरयोर् एतद् उक्तं तव निदर्शनम् ।
मयेह ज्ञानसम्पन्नं यथा श्रुतिनिदर्शनात् ॥ ४२ ॥

निःसन्दिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा ।
प्रवक्ष्यामि तु ते भूयस् तन् निबोध यथाश्रुतम् ॥ ४३ ॥

साङ्ख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् ।
यद् एव साङ्ख्यशास्त्रोक्तं योगदर्शनम् एव तत् ॥ ४४ ॥

प्रबोधनपरं ज्ञानं साङ्ख्यानाम् अवनीपते ।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ ४५ ॥

बृहच् चैवम् इदं शास्त्रम् इत्य् आहुर् विदुषो जनाः ।
अस्मिंश् च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ ४६ ॥

पञ्चविंशात् परं तत्त्वं पठ्यते च नराधिप ।
साङ्ख्यानां तु परं तत्त्वं यथावद् अनुवर्णितम् ॥ ४७ ॥

बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धत्वं प्राहुर् योगनिदर्शनम् ॥ ४८ ॥