243

Summary (SA)

Chapter 243- Dialogue between Karālajanaka and Vasiṣṭha (cont.)

{{Ref- SS 395-398}}

जनक उवाच-

अक्षरक्षरयोर् एष द्वयोः सम्बन्ध इष्यते ।
स्त्रीपुंसयोर् वा सम्बन्धः स वै पुरुष उच्यते ॥ १ ॥

ऋते तु पुरुषं नेह स्त्री गर्भान् धारयत्य् उत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २ ॥

अन्योन्यस्याभिसम्बन्धाद् अन्योन्यगुणसंश्रयात् ।
रूपं निर्वर्तयेद् एतद् एवं सर्वासु योनिषु ॥ ३ ॥

रत्यर्थम् अतिसंयोगाद् अन्योन्यगुणसंश्रयात् ।
ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम् ॥ ४ ॥

ये गुणाः पुरुषस्येह ये च मातुर् गुणास् तथा ।
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ ५ ॥

त्वङ्मांसशोणितं चेति मातृजान्य् अनुशुश्रुम ।
एवम् एतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ ६ ॥

प्रमाणं यच् च वेदोक्तं शास्त्रोक्तं यच् च पठ्यते ।
वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम् ॥ ७ ॥

एवम् एवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ ।
यच् चापि भगवंस् तस्मान् मोक्षधर्मो न विद्यते ॥ ८ ॥

अथवानन्तरकृतं किञ्चिद् एव निदर्शनम् ।
तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्य् असि सर्वदा ॥ ९ ॥

मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् ।
अजेयम् अजरं नित्यम् अतीन्द्रियम् अनीश्वरम् ॥ १० ॥

वसिष्ठ उवाच-

यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् ।
एवम् एतद् यथा वक्ष्ये तत्त्वग्राही यथा भवान् ॥ ११ ॥

धार्यते हि त्वया ग्रन्थ उभयोर् वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ १२ ॥

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।
न च ग्रन्थार्थतत्त्वज्ञस् तस्य तद्धारणं वृथा ॥ १३ ॥

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस् तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ १४ ॥

ग्रन्थस्यार्थं स पृष्टस् तु मादृशो वक्तुम् अर्हति ।
यथातत्त्वाभिगमनाद् अर्थं तस्य स विन्दति ॥ १५ ॥

न यः समुत्सुकः कश्चिद् ग्रन्थार्थं स्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ १६ ॥

अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः ।
लोभाद् वाप्य् अथवा दम्भात् स पापी नरकं व्रजेत् ॥ १७ ॥

निर्णयं चापि च्छिद्रात्मा न तद् वक्ष्यति तत्त्वतः ।
सो ऽपीहास्यार्थतत्त्वज्ञो यस्मान् नैवात्मवान् अपि ॥ १८ ॥

तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते ।
यथा तत्त्वेन साङ्ख्येषु योगेषु च महात्मसु ॥ १९ ॥

यद् एव योगाः पश्यन्ति साङ्ख्यं तद् अनुगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ २० ॥

त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।
एतद् ऐन्द्रियकं तात यद् भवान् इत्थम् आत्थ माम् ॥ २१ ॥

द्रव्याद् द्रव्यस्य निर्वृत्तिर् इन्द्रियाद् इन्द्रियं तथा ।
देहाद् देहम् अवाप्नोति बीजाद् बीजं तथैव च ॥ २२ ॥

निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः ॥ २३ ॥

गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च ।
एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४ ॥

त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।
अष्टौ तान्य् अथ शुक्रेण जानीहि प्राकृतेन वै ॥ २५ ॥

पुमांश् चैवापुमांश् चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् ।
वायुर् एष पुमांश् चैव रस इत्य् अभिधीयते ॥ २६ ॥

अलिङ्गा प्रकृतिर् लिङ्गैर् उपलभ्यति सात्मजैः ।
यथा पुष्पफलैर् नित्यं मूर्तं चामूर्तयस् तथा ॥ २७ ॥

एवम् अप्य् अनुमानेन स लिङ्गम् उपलभ्यते ।
पञ्चविंशतिकस् तात लिङ्गेषु नियतात्मकः ॥ २८ ॥

अनादिनिधनो ऽनन्तः सर्वदर्शनकेवलः ।
केवलं त्व् अभिमानित्वाद् गुणेषु गुण उच्यते ॥ २९ ॥

गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः ॥ ३० ॥

यदा त्व् एष गुणान् एतान् प्राकृतान् अभिमन्यते ।
तदा स गुणवान् एव गुणभेदान् प्रपश्यति ॥ ३१ ॥

यत् तद् बुद्धेः परं प्राहुः साङ्ख्ययोगं च सर्वशः ।
बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ ३२ ॥

अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुर् ईश्वरम् ।
निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च ॥ ३३ ॥

प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः ।
साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ ३४ ॥

यदा प्रबुद्धम् अव्यक्तम् अवस्थातननीरवः ।
बुध्यमानं न बुध्यन्ते ऽवगच्छन्ति समं तदा ॥ ३५ ॥

एतन् निदर्शनं सम्यङ् न सम्यग् अनुदर्शनम् ।
बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथग् अरिन्दम ॥ ३६ ॥

परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् ।
एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते ॥ ३७ ॥

पञ्चविंशतिनिष्ठो ऽयं तदा सम्यक् प्रचक्षते ।
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ ३८ ॥

तत्त्ववित् तत्त्वयोर् एव पृथग् एतन् निदर्शनम् ।
पञ्चविंशतिभिस् तत्त्वं तत्त्वम् आहुर् मनीषिणः ॥ ३९ ॥

निस्तत्त्वं पञ्चविंशस्य परम् आहुर् मनीषिणः ।
वर्ज्यस्य वर्ज्यम् आचारं तत्त्वं तत्त्वात् सनातनम् ॥ ४० ॥

करालजनक उवाच-

नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् द्विजसत्तम ।
पश्यतस् तद् धि सन्दिग्धम् एतयोर् वै निदर्शनम् ॥ ४१ ॥

तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ ।
स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः ॥ ४२ ॥

अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम् ।
तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मे ऽनघ ॥ ४३ ॥

तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम् ।
द्वन्द्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ ४४ ॥

विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च ।
साङ्ख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक् पृथक् ॥ ४५ ॥

वसिष्ठ उवाच-

हन्त ते सम्प्रवक्ष्यामि यद् एतद् अनुपृच्छसि ।
योगकृत्यं महाराज पृथग् एव शृणुष्व मे ॥ ४६ ॥

योगकृत्यं तु योगानां ध्यानम् एव परं बलम् ।
तच् चापि द्विविधं ध्यानम् आहुर् विद्याविदो जनाः ॥ ४७ ॥

एकाग्रता च मनसः प्राणायामस् तथैव च ।
प्राणायामस् तु सगुणो निर्गुणो मानसस् तथा ॥ ४८ ॥

मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप ।
द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः ॥ ४९ ॥

{} इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।
दशद्वादशभिर् वापि चतुर्विंशात् परं यतः ॥ ५० ॥

स चोदनाभिर् मतिमान् नात्मानं चोदयेद् अथ ।
तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः ॥ ५१ ॥

विश्वात्मा सततं ज्ञेय इत्य् एवम् अनुशुश्रुम ।
द्रव्यं ह्य् अहीनमनसो नान्यथेति विनिश्चयः ॥ ५२ ॥

विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः ।
पूर्वरात्रे परार्धे च धारयीत मनो हृदि ॥ ५३ ॥

स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ ५४ ॥

स्थाणुवच् चाप्य् अकम्प्यः स्याद् दारुवच् चापि निश्चलः ।
बुद्ध्या विधिविधानज्ञस् ततो युक्तं प्रचक्षते ॥ ५५ ॥

न शृणोति न चाघ्राति न च पश्यति किञ्चन ।
न च स्पर्शं विजानाति न च सङ्कल्पते मनः ॥ ५६ ॥

न चापि मन्यते किञ्चिन् न च बुध्येत काष्ठवत् ।
तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः ॥ ५७ ॥

न भाति हि यथा दीपो दीप्तिस् तद्वच् च दृश्यते ।
निलिङ्गश् चाधश् चोर्ध्वं च तिर्यग्गतिम् अवाप्नुयात् ॥ ५८ ॥

तदा तदुपपन्नश् च यस्मिन् दृष्टे च कथ्यते ।
हृदयस्थो ऽन्तरात्मेति ज्ञेयो ज्ञस् तात मद्विधैः ॥ ५९ ॥

निर्धूम इव सप्तार्चिर् आदित्य इव रश्मिवान् ।
वैद्युतो ऽग्निर् इवाकाशे पश्यत्य् आत्मानम् आत्मनि ॥ ६० ॥

यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।
ब्राह्मणा ब्रह्मयोनिस्था ह्य् अयोनिम् अमृतात्मकम् ॥ ६१ ॥

तद् एवाहुर् अणुभ्यो ऽणु तन् महद्भ्यो महत्तरम् ।
सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते ॥ ६२ ॥

बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् ।
महतस् तमसस् तात पारे तिष्ठन् न तामसः ॥ ६३ ॥

तमसो दूर इत्य् उक्तस् तत्त्वज्ञैर् वेदपारगैः ।
विमलो विमतश् चैव निर्लिङ्गो ऽलिङ्गसञ्ज्ञकः ॥ ६४ ॥

योग एष हि लोकानां किम् अन्यद् योगलक्षणम् ।
एवं पश्यन् प्रपश्येत आत्मानम् अजरं परम् ॥ ६५ ॥

योगदर्शनम् एतावद् उक्तं ते तत्त्वतो मया ।
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम् ॥ ६६ ॥

अव्यक्तम् आहुः प्रख्यानं परां प्रकृतिम् आत्मनः ।
तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम ॥ ६७ ॥

अहङ्कारस् तु महतस् तृतीय इति नः श्रुतम् ।
पञ्चभूतान्य् अहङ्काराद् आहुः साङ्ख्यात्मदर्शिनः ॥ ६८ ॥

{} एताः प्रकृतयस् त्व् अष्टौ विकाराश् चापि षोडश ।
पञ्च चैव विशेषाश् च तथा पञ्चेन्द्रियाणि च ॥ ६९ ॥

एतावद् एव तत्त्वानां साङ्ख्यम् आहुर् मनीषिणः ।
साङ्ख्ये साङ्ख्यविधानज्ञा नित्यं साङ्ख्यपथे स्थिताः ॥ ७० ॥

यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते ।
लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ ७१ ॥

आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः ।
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ ७२ ॥

सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम ।
एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ ७३ ॥

एवम् एव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः ।
अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम् ॥ ७४ ॥

एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान् ।
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ ७५ ॥

बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् ।
तच् च क्षेत्रं महान् आत्मा पञ्चविंशो ऽधितिष्ठति ॥ ७६ ॥

अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम् ॥ ७७ ॥

क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते ।
अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते ॥ ७८ ॥

अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते ।
क्षेत्रम् अव्यक्त इत्य् उक्तं ज्ञातारं पञ्चविंशकम् ॥ ७९ ॥

अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते ।
ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः ॥ ८० ॥

अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम् ।
अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम् ॥ ८१ ॥

साङ्ख्यदर्शनम् एतावत् परिसङ्ख्या न विद्यते ।
सङ्ख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ ८२ ॥

चत्वारिंशच् चतुर्विंशत् प्रतिसङ्ख्याय तत्त्वतः ।
सङ्ख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ ८३ ॥

पञ्चविंशत् प्रबुद्धात्मा बुध्यमान इति श्रुतः ।
यदा बुध्यति आत्मानं तदा भवति केवलः ॥ ८४ ॥

सम्यग्दर्शनम् एतावद् भाषितं तव तत्त्वतः ।
एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत ॥ ८५ ॥

सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा ।
गुणवत्त्वाद् यथैतानि निर्गुणेभ्यस् तथा भवेत् ॥ ८६ ॥

न त्व् एवं वर्तमानानाम् आवृत्तिर् वर्तते पुनः ।
विद्यते क्षरभावश् च न परस्परम् अव्ययम् ॥ ८७ ॥

पश्यन्त्य् अमतयो ये न सम्यक् तेषु च दर्शनम् ।
ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनर् अरिन्दम ॥ ८८ ॥

{} सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात् ।
व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ ८९ ॥

सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः सर्वं पञ्चविंशकः ।
य एवम् अभिजानन्ति न भयं तेषु विद्यते ॥ ९० ॥