242

Summary (SA)

Chapter 242- On the worldly bondage and destiny of the soul

{{Ref- SS 394-395}}

वसिष्ठ उवाच-

एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते ।
देहाद् देहसहस्राणि तथा च न स भिद्यते ॥ १ ॥

तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्व् अपि ।
उत्पद्यति तपोयोगाद् गुणैः सह गुणक्षयात् ॥ २ ॥

मनुष्यत्वाद् दिवं याति देवो मानुष्यम् एति च ।
मानुष्यान् निरयस्थानम् आलयं प्रतिपद्यते ॥ ३ ॥

कोषकारो यथात्मानं कीटः समभिरुन्धति ।
सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः ॥ ४ ॥

द्वन्द्वम् एति च निर्द्वन्द्वस् तासु तास्व् इह योनिषु ।
शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे ॥ ५ ॥

जलोदरे ऽतिसारे च गण्डमालाविचर्चिके ।
श्वित्रकुष्ठे ऽग्निदग्धे च सिध्मापस्मारयोर् अपि ॥ ६ ॥

यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिणाम् ।
उत्पद्यन्ते विचित्राणि तान्य् एवात्माभिमन्यते ॥ ७ ॥

अभिमानातिमानानां तथैव सुकृतान्य् अपि ।
एकवासाश् चतुर्वासाः शायी नित्यम् अधस् तथा ॥ ८ ॥

मण्डूकशायी च तथा वीरासनगतस् तथा ।
वीरम् आसनम् आकाशे तथा शयनम् एव च ॥ ९ ॥

इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा ।
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ १० ॥

वीरस्थानाम्बुपाके च शयनं फलकेषु च ।
विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ ११ ॥

उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः ।
मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ १२ ॥

सिंहचर्मपरीधानः पट्टवासास् तथैव च ।
फलकं परिधानश् च तथा कटकवस्त्रधृक् ॥ १३ ॥

कटैकवसनश् चैव चीरवासास् तथैव च ।
वस्त्राणि चान्यानि बहून्य् अभिमत्य च बुद्धिमान् ॥ १४ ॥

भोजनानि विचित्राणि रत्नानि विविधानि च ।
एकरात्रान्तराशित्वम् एककालिकभोजनम् ॥ १५ ॥

चतुर्थाष्टमकालं च षष्ठकालिकम् एव च ।
षड्रात्रभोजनश् चैव तथा चाष्टाहभोजनः ॥ १६ ॥

मासोपवासी मूलाशी फलाहारस् तथैव च ।
वायुभक्षश् च पिण्याकदधिगोमयभोजनः ॥ १७ ॥

गोमूत्रभोजनश् चैव काशपुष्पाशनस् तथा ।
शैवालभोजनश् चैव तथा चान्येन वर्तयन् ॥ १८ ॥

वर्तयञ् शीर्णपर्णैश् च प्रकीर्णफलभोजनः ।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ १९ ॥

चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च ।
चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्य् अपि ॥ २० ॥

उपाश्रयान् अप्य् अपरान् पाखण्डान् विविधान् अपि ।
विविक्ताश् च शिलाछायास् तथा प्रस्रवणानि च ॥ २१ ॥

पुलिनानि विविक्तानि विविधानि वनानि च ।
काननेषु विविक्ताश् च शैलानां महतीर् गुहाः ॥ २२ ॥

नियमान् विविधांश् चापि विविधानि तपांसि च ।
यज्ञांश् च विविधाकारान् विद्याश् च विविधास् तथा ॥ २३ ॥

वणिक्पथं द्विजक्षत्रवैश्यशूद्रांस् तथैव च ।
दानं च विविधाकारं दीनान्धकृपणादिषु ॥ २४ ॥

अभिमन्येत सन्धातुं तथैव विविधान् गुणान् ।
सत्त्वं रजस् तमश् चैव धर्मार्थौ काम एव च ॥ २५ ॥

प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्य् उत ।
स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये ॥ २६ ॥

यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथान्यद् अपि किञ्चन ॥ २७ ॥

जन्ममृत्युविधानेन तथा विशसनेन च ।
शुभाशुभभयं सर्वम् एतद् आहुः सनातनम् ॥ २८ ॥

प्रकृतिः कुरुते देवी भयं प्रलयम् एव च ।
दिवसान्ते गुणान् एतान् अतीत्यैको ऽवतिष्ठते ॥ २९ ॥

रश्मिजालम् इवादित्यस् तत्कालं सन्नियच्छति ।
एवम् एवैष तत् सर्वं क्रीडार्थम् अभिमन्यते ॥ ३० ॥

आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान् ।
एवम् एतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ ३१ ॥

क्रियां क्रियापथे रक्तस् त्रिगुणस् त्रिगुणाधिपः ।
क्रियाक्रियापथोपेतस् तथा तद् इति मन्यते ॥ ३२ ॥

प्रकृत्या सर्वम् एवेदं जगद् अन्धीकृतं विभो ।
रजसा तमसा चैव व्याप्तं सर्वम् अनेकधा ॥ ३३ ॥

एवं द्वन्द्वान्य् अतीतानि मम वर्तन्ति नित्यशः ।
मत्त एतानि जायन्ते प्रलये यान्ति माम् अपि ॥ ३४ ॥

निस्तर्तव्याण्य् अथैतानि सर्वाणीति नराधिप ।
मन्यते पक्षबुद्धित्वात् तथैव सुकृतान्य् अपि ॥ ३५ ॥

भोक्तव्यानि ममैतानि देवलोकगतेन वै ।
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ ३६ ॥

सुखम् एवं तु कर्तव्यं सकृत् कृत्वा सुखं मम ।
यावद् एव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ ३७ ॥

भविष्यति न मे दुःखं कृतेनेहाप्य् अनन्तकम् ।
सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ ३८ ॥

निरयाच् चापि मानुष्यं कालेनैष्याम्य् अहं पुनः ।
मनुष्यत्वाच् च देवत्वं देवत्वात् पौरुषं पुनः ॥ ३९ ॥

मनुष्यत्वाच् च निरयं पर्यायेणोपगच्छति ।
एष एवं द्विजातीनाम् आत्मा वै स गुणैर् वृतः ॥ ४० ॥

तेन देवमनुष्येषु निरयं चोपपद्यते ।
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥ ४१ ॥

सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ।
य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥ ४२ ॥

स एवं फलम् आप्नोति त्रिषु लोकेषु मूर्तिमान् ।
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ॥ ४३ ॥

प्रकृतिश् च तथाप्नोति त्रिषु लोकेषु कामगा ।
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ॥ ४४ ॥

त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह ।
अलिङ्गप्रकृतित्वाच् च लिङ्गैर् अप्य् अनुमीयते ॥ ४५ ॥

तथैव पौरुषं लिङ्गम् अनुमानाद् धि मन्यते ।
स लिङ्गान्तरम् आसाद्य प्राकृतं लिङ्गम् अव्रणम् ॥ ४६ ॥

व्रणद्वाराण्य् अधिष्ठाय कर्माण्य् आत्मनि मन्यते ।
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्य् अथ ॥ ४७ ॥

रागादीनि प्रवर्तन्ते गुणेष्व् इह गुणैः सह ।
अहम् एतानि वै कुर्वन् ममैतानीन्द्रियाणि ह ॥ ४८ ॥

निरिन्द्रियो हि मन्येत व्रणवान् अस्मि निर्व्रणः ।
अलिङ्गो लिङ्गम् आत्मानम् अकालं कालम् आत्मनः ॥ ४९ ॥

असत्त्वं सत्त्वम् आत्मानम् अमृतं मृतम् आत्मनः ।
अमृत्युं मृत्युम् आत्मानम् अचरं चरम् आत्मनः ॥ ५० ॥

अक्षेत्रं क्षेत्रम् आत्मानम् असङ्गं सङ्गम् आत्मनः ।
अतत्त्वं तत्त्वम् आत्मानम् अभवं भवम् आत्मनः ॥ ५१ ॥

अक्षरं क्षरम् आत्मानम् अबुद्धत्वाद् धि मन्यते ।
एवम् अप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥ ५२ ॥

सर्गकोटिसहस्राणि पतनान्तानि गच्छति ।
जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ ५३ ॥

तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ।
चन्द्रमा इव कोशानां पुनस् तत्र सहस्रशः ॥ ५४ ॥

नीयते ऽप्रतिबुद्धत्वाद् एवम् एव कुबुद्धिमान् ।
कला पञ्चदशी योनिस् तद् धाम इति पठ्यते ॥ ५५ ॥

नित्यम् एव विजानीहि सोमं वै षोडशांशकैः ।
कलया जायते ऽजस्रं पुनः पुनर् अबुद्धिमान् ॥ ५६ ॥

धीमांश् चायं न भवति नृप एवं हि जायते ।
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ ५७ ॥

न तूपयुज्यते देवैर् देवान् अपि युनक्ति सः ।
ममत्वं क्षपयित्वा तु जायते नृपसत्तम ।
प्रकृतेस् त्रिगुणायास् तु स एव त्रिगुणो भवेत् ॥ ५८ ॥