Summary (SA)
Chapter 241- Dialogue between Karālajanaka and Vasiṣṭha
{{Ref- SS 393-394}}
मुनय ऊचुः-
किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः ।
किंस्वित् तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः ॥ १ ॥
अक्षराक्षरयोर् व्यक्तिं पृच्छामस् त्वां महामुने ।
उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुङ्गव ॥ २ ॥
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ।
ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः ॥ ३ ॥
तद् एतच् छ्रोतुम् इच्छामस् त्वत्तः सर्वं महामते ।
न तृप्तिम् अधिगच्छामः शृण्वन्तो ऽमृतम् उत्तमम् ॥ ४ ॥
व्यास उवाच-
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥ ५ ॥
वसिष्ठं श्रेष्ठम् आसीनम् ऋषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ ६ ॥
परमात्मनि कुशलम् अध्यात्मगतिनिश्चयम् ।
मैत्रावरुणिम् आसीनम् अभिवाद्य कृताञ्जलिः ॥ ७ ॥
स्वच्छन्दं सुकृतं चैव मधुरं चाप्य् अनुल्बणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ ८ ॥
करालजनक उवाच-
भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम् ।
यस्मिन् न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ ९ ॥
यच् च तत् क्षरम् इत्य् उक्तं यत्रेदं क्षरते जगत् ।
यच् चाक्षरम् इति प्रोक्तं शिवं क्षेमम् अनामयम् ॥ १० ॥
वसिष्ठ उवाच-
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यत्र क्षरति पूर्वेण यावत्कालेन चाप्य् अथ ॥ ११ ॥
युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावर्तम् अहस् तद् ब्राह्मम् उच्यते ॥ १२ ॥
रात्रिश् चैतावती राजन् यस्यान्ते प्रतिबुध्यते ।
सृजत्य् अनन्तकर्माणि महान्तं भूतम् अग्रजम् ॥ १३ ॥
मूर्तिमन्तम् अमूर्तात्मा विश्वं शम्भुः स्वयम्भुवः ।
यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ १४ ॥
अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम् ।
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ॥ १५ ॥
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ।
हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतिः ॥ १६ ॥
महान् इति च योगेषु विरिञ्चिर् इति चाप्य् अथ ।
साङ्ख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः ॥ १७ ॥
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ।
धृतम् एकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना ॥ १८ ॥
तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः ।
एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना ॥ १९ ॥
प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम् ।
अहङ्कारं महातेजाः प्रजापतिनमस्कृतम् ॥ २० ॥
अव्यक्ताद् व्यक्तिम् आपन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्य् अहङ्कारम् अविद्यासर्ग एव च ॥ २१ ॥
अचरश् च चरश् चैव समुत्पन्नौ तथैकतः ।
विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २२ ॥
भूतसर्गम् अहङ्कारात् तृतीयं विद्धि पार्थिव ।
अहङ्कारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २३ ॥
वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा ।
शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च ॥ २४ ॥
एवं युगपद् उत्पन्नं दशवर्गम् असंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थकृत् ॥ २५ ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् ।
वाग् हस्तौ चैव पादौ च पायुर् मेढ्रं तथैव च ॥ २६ ॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
सम्भूतानीह युगपन् मनसा सह पार्थिव ॥ २७ ॥
एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास् तत्त्वदर्शिनः ॥ २८ ॥
एवम् एतत् समुत्पन्नं त्रैलोक्यम् इदम् उत्तमम् ।
वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २९ ॥
सयक्षभूतगन्धर्वे सकिन्नरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ ३० ॥
सदंशकीटमशके सपूतिकृमिमूषके ।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ ३१ ॥
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
या च मूर्तिश् च यत् किञ्चित् सर्वत्रैतन् निदर्शनम् ॥ ३२ ॥
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः ।
स्थानं देहवताम् आसीद् इत्य् एवम् अनुशुश्रुम ॥ ३३ ॥
कृत्स्नम् एतावतस् तात क्षरते व्यक्तसञ्ज्ञकः ।
अहन्य् अहनि भूतात्मा यच् चाक्षर इति स्मृतम् ॥ ३४ ॥
ततस् तत् क्षरम् इत्य् उक्तं क्षरतीदं यथा जगत् ।
जगन् मोहात्मकं चाहुर् अव्यक्ताद् व्यक्तसञ्ज्ञकम् ॥ ३५ ॥
महांश् चैवाक्षरो नित्यम् एतत् क्षरविवर्जनम् ।
कथितं ते महाराज यस्मान् नावर्तते पुनः ॥ ३६ ॥
पञ्चविंशतिको ऽमूर्तः स नित्यस् तत्त्वसञ्ज्ञकः ।
सत्त्वसंश्रयणात् तत्त्वं सत्त्वम् आहुर् मनीषिणः ॥ ३७ ॥
यद् अमूर्तिः सृजद् व्यक्तं तन् मूर्तिम् अधितिष्ठति ।
चतुर्विंशतिमो व्यक्तो ह्य् अमूर्तिः पञ्चविंशकः ॥ ३८ ॥
स एव हृदि सर्वासु मूर्तिष्व् आतिष्ठतात्मवान् ।
चेतयंश् चेतनो नित्यं सर्वमूर्तिर् अमूर्तिमान् ॥ ३९ ॥
सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः ।
गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञितः ॥ ४० ॥
एवम् एष महात्मा च सर्गप्रलयकोटिशः ।
विकुर्वाणः प्रकृतिमान् नाभिमन्येत बुद्धिमान् ॥ ४१ ॥
तमःसत्त्वरजोयुक्तस् तासु तास्व् इह योनिषु ।
लीयते प्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥ ४२ ॥
सहवासनिवासत्वाद् बालो ऽहम् इति मन्यते ।
यो ऽहं न सो ऽहम् इत्य् उक्तो गुणान् एवानुवर्तते ॥ ४३ ॥
तमसा तामसान् भावान् विविधान् प्रतिपद्यते ।
रजसा राजसांश् चैव सात्त्विकान् सत्त्वसंश्रयात् ॥ ४४ ॥
शुक्ललोहितकृष्णानि रूपाण्य् एतानि त्रीणि तु ।
सर्वाण्य् एतानि रूपाणि जानीहि प्राकृतानि तु ॥ ४५ ॥
तामसा निरयं यान्ति राजसा मानुषान् अथ ।
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ ४६ ॥
निष्केवलेन पापेन तिर्यग्योनिम् अवाप्नुयात् ।
पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ ४७ ॥
एवम् अव्यक्तविषयं मोक्षम् आहुर् मनीषिणः ।
पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते ॥ ४८ ॥