Summary (SA)
Chapter 240- On Sāṅkhya and Yoga
{{Ref- SS 390-392}}
मुनय ऊचुः-
सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसम्मता ।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ १ ॥
साङ्ख्ये त्व् इदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः ।
त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते ॥ २ ॥
व्यास उवाच-
शृणुध्वं मुनयः सर्वम् आख्यानं विदितात्मनाम् ।
विहितं यतिभिर् वृद्धैः कपिलादिभिर् ईश्वरैः ॥ ३ ॥
यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः ।
गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला ॥ ४ ॥
ज्ञानेन परिसङ्ख्याय सदोषान् विषयान् द्विजाः ।
मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा ॥ ५ ॥
विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस् तथा ।
पितॄणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ ६ ॥
सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा ।
महर्षिविषयांश् चैव राजर्षिविषयांस् तथा ॥ ७ ॥
आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च ।
देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि वै परान् ॥ ८ ॥
विषयांश् च प्रमाणस्य ब्रह्मणो विषयांस् तथा ।
आयुषश् च परं कालं लोकैर् विज्ञाय तत्त्वतः ॥ ९ ॥
सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः ।
प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम् ॥ १० ॥
तिर्यक्त्वे पततां विप्रास् तथैव नरकेषु यत् ।
स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश् च भो द्विजाः ॥ ११ ॥
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ।
ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ १२ ॥
साङ्ख्यज्ञाने च ये दोषांस् तथैव च गुणा द्विजाः ।
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ॥ १३ ॥
तमश् चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ।
षड्गुणं च नभो ज्ञात्वा तमश् च त्रिगुणं महत् ॥ १४ ॥
द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः ।
मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ १५ ॥
ज्ञानविज्ञानसम्पन्नाः कारणैर् भावितात्मभिः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ १६ ॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ १७ ॥
त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् ।
मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम् ॥ १८ ॥
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् ।
अप्सु देवीं समायुक्ताम् आपस् तेजसि संश्रिताः ॥ १९ ॥
तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् ।
नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २० ॥
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि ।
सक्तम् आत्मानम् ईशे च देवे नारायणे तथा ॥ २१ ॥
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ।
ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर् गुणैः ॥ २२ ॥
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् ।
मध्यस्थम् इव चात्मानं पापं यस्मिन् न विद्यते ॥ २३ ॥
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् ।
इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान् ॥ २४ ॥
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २५ ॥
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः ।
सप्तधा तांस् तथा शेषान् सप्तधा विधिवत् पुनः ॥ २६ ॥
प्रजापतीन् ऋषींश् चैव सर्गांश् च सुबहून् वरान् ।
सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परन्तपान् ॥ २७ ॥
सुरर्षीन् मरुतश् चान्यान् ब्रह्मर्षीन् सूर्यसन्निभान् ।
ऐश्वर्याच् च्यावितान् दृष्ट्वा कालेन महता द्विजाः ॥ २८ ॥
महतां भूतसङ्घानां श्रुत्वा नाशं च भो द्विजाः ।
गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २९ ॥
वैतरण्यां च यद् दुःखं पतितानां यमक्षये ।
योनिषु च विचित्रासु सञ्चारान् अशुभांस् तथा ॥ ३० ॥
जठरे चाशुभे वासं शोणितोदकभाजने ।
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ ३१ ॥
शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे ।
शिराशतसमाकीर्णे नवद्वारे पुरे ऽथ वै ॥ ३२ ॥
विज्ञाय हितम् आत्मानं योगांश् च विविधान् द्विजाः ।
तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ ३३ ॥
सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः ।
गर्हितं महताम् अर्थे साङ्ख्यानां विदितात्मनाम् ॥ ३४ ॥
उपप्लवांस् तथा घोराञ् शशिनस् तेजसस् तथा ।
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ ३५ ॥
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः ।
अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम् ॥ ३६ ॥
बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् ।
रागं मोहं च सम्प्राप्तं क्वचित् सत्त्वं समाश्रितम् ॥ ३७ ॥
सहस्रेषु नरः कश्चिन् मोक्षबुद्धिं समाश्रितः ।
दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ ३८ ॥
बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः ।
विषयाणां च दौरात्म्यं विज्ञाय च पुनर् द्विजाः ॥ ३९ ॥
गतासूनां च सत्त्वानां देहान् भित्त्वा तथा शुभान् ।
वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ ४० ॥
सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः ।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ ४१ ॥
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ ४२ ॥
जननीषु च वर्तन्ते येन सम्यग् द्विजोत्तमाः ।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ ४३ ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।
तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ ४४ ॥
वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ ४५ ॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् ।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा ॥ ४६ ॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
क्षयं धनानां दृष्ट्वा च पुनर् वृद्धिं तथैव च ॥ ४७ ॥
संयोगानां तथा दृष्ट्वा युगानां च विशेषतः ।
देहवैक्लव्यतां चैव सम्यग् विज्ञाय तत्त्वतः ॥ ४८ ॥
आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संस्थितान् ।
स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान् ॥ ४९ ॥
मुनय ऊचुः-
कान् उत्पातभवान् दोषान् पश्यसि ब्रह्मवित्तम ।
एतं नः संशयं कृत्स्नं वक्तुम् अर्हस्य् अशेषतः ॥ ५० ॥
व्यास उवाच-
पञ्च दोषान् द्विजा देहे प्रवदन्ति मनीषिणः ।
मार्गज्ञाः कापिलाः साङ्ख्याः शृणुध्वं मुनिसत्तमाः ॥ ५१ ॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ ५२ ॥
छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात् ।
सत्त्वसंसेवनान् निद्राम् अप्रमादाद् भयं तथा ॥ ५३ ॥
छिन्दन्ति पञ्चमं श्वासम् अल्पाहारतया द्विजाः ।
गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि ॥ ५४ ॥
हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः ।
अपां फेनोपमं लोकं विष्णोर् मायाशतैः कृतम् ॥ ५५ ॥
चित्रभित्तिप्रतीकाशं नलसारम् अनर्थकम् ।
तमःसम्भ्रमितं दृष्ट्वा वर्षबुद्बुदसन्निभम् ॥ ५६ ॥
नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् ।
रजस् तमसि सम्मग्नं पङ्के द्विपम् इवावशम् ॥ ५७ ॥
साङ्ख्या विप्रा महाप्राज्ञास् त्यक्त्वा स्नेहं प्रजाकृतम् ।
ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता द्विजाः ॥ ५८ ॥
राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान् ।
पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान् ॥ ५९ ॥
छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः ।
ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ ६० ॥
व्याधिमृत्युमहाघोरं महाभयमहोरगम् ।
तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्य् उत ॥ ६१ ॥
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः ।
कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ ६२ ॥
हर्षसङ्घमहावेगं नानारससमाकुलम् ।
नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ ६३ ॥
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् ।
अस्थिसङ्घातसङ्घट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ ६४ ॥
दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् ।
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम् ॥ ६५ ॥
रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् ।
प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ ६६ ॥
अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् ।
वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ ६७ ॥
मोक्षदुर्लभविषयं वाडवासुखसागरम् ।
तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ ६८ ॥
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ।
ततस् तान् सुकृतीञ् ज्ञात्वा सूर्यो वहति रश्मिभिः ॥ ६९ ॥
पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः ।
तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ ७० ॥
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान् ।
सूक्ष्मः शीतः सुगन्धश् च सुखस्पर्शश् च भो द्विजाः ॥ ७१ ॥
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् ।
स तान् वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ ७२ ॥
नभो वहति लोकेशान् रजसः परमां गतिम् ।
रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम् ॥ ७३ ॥
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् ।
प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना ॥ ७४ ॥
परमात्मानम् आसाद्य तद्भूता यतयो ऽमलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ ७५ ॥
परमा सा गतिर् विप्रा निर्द्वन्द्वानां महात्मनाम् ।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ ७६ ॥
मुनय ऊचुः-
स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ ७७ ॥
यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुम् अर्हसि ।
त्वदृते मानवं नान्यं प्रष्टुम् अर्हाम सत्तम ॥ ७८ ॥
मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् ।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ ७९ ॥
प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज ।
मग्नस्य हि परे ज्ञाने किन्तु दुःखान्तरं भवेत् ॥ ८० ॥
व्यास उवाच-
यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश् च सङ्कटः ।
बुधानाम् अपि सम्मोहः प्रश्ने ऽस्मिन् मुनिसत्तमाः ॥ ८१ ॥
अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम ।
बुद्धिश् च परमा यत्र कपिलानां महात्मनाम् ॥ ८२ ॥
इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनां द्विजाः ।
करणान्य् आत्मनस् तानि सूक्ष्मं पश्यन्ति तैस् तु सः ॥ ८३ ॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
विनश्यन्ति न सन्देहो वेला इव महार्णवे ॥ ८४ ॥
इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः ।
सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः ॥ ८५ ॥
स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः ।
बुध्यमानो यथापूर्वम् अखिलेनेह भो द्विजाः ॥ ८६ ॥
इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
अनीशत्वात् प्रलीयन्ते सर्पा विषहता इव ॥ ८७ ॥
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः ।
आक्रम्य गतयः सूक्ष्मा वरत्य् आत्मा न संशयः ॥ ८८ ॥
सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः ।
गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च सत्तमाः ॥ ८९ ॥
{}
गुणांश् च मनसश् चापि नभसश् च गुणांस् तथा ।
गुणान् वायोश् च सर्वज्ञाः स्नेहजांश् च गुणान् पुनः ॥ ९० ॥
अपां गुणास् तथा विप्राः पार्थिवांश् च गुणान् अपि ।
सर्वान् एव गुणैर् व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ ९१ ॥
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे ।
शिष्या इव महात्मानम् इन्द्रियाणि च तं द्विजाः ॥ ९२ ॥
प्रकृतिं चाप्य् अतिक्रम्य शुद्धं सूक्ष्मं परात् परम् ।
नारायणं महात्मानं निर्विकारं परात् परम् ॥ ९३ ॥
विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्य् अनामयम् ।
परमात्मानम् अगुणं निर्वृतं तं च सत्तमाः ॥ ९४ ॥
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः ।
आगच्छन्ति यथाकालं गुरोः सन्देशकारिणः ॥ ९५ ॥
शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस् तथा ।
एवम् उक्तेन विप्रेन्द्राः साङ्ख्ययोगेन मोक्षिणीम् ॥ ९६ ॥
साङ्ख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् ।
ज्ञानेनानेन विप्रेन्द्रास् तुल्यं ज्ञानं न विद्यते ॥ ९७ ॥
अत्र वः संशयो मा भूज् ज्ञानं साङ्ख्यं परं मतम् ।
अक्षरं ध्रुवम् एवोक्तं पूर्वं ब्रह्म सनातनम् ॥ ९८ ॥
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः ॥ ९९ ॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ १०० ॥
सर्वे विप्राश् च वेदाश् च तथा सामविदो जनाः ।
ब्रह्मण्यं परमं देवम् अनन्तं परमाच्युतम् ॥ १०१ ॥
प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः ।
सम्यग् उक्तास् तथा योगाः साङ्ख्याश् चामितदर्शनाः ॥ १०२ ॥
अमूर्तिस् तस्य विप्रेन्द्राः साङ्ख्यं मूर्तिर् इति श्रुतिः ।
अभिज्ञानानि तस्याहुर् महान्ति मुनिसत्तमाः ॥ १०३ ॥
द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः ।
अगम्यगम्यसञ्ज्ञानि गम्यं तत्र विशिष्यते ॥ १०४ ॥
ज्ञानं महद् वै महतश् च विप्रा ।
वेदेषु साङ्ख्येषु तथैव योगे ।
यच् चापि दृष्टं विधिवत् पुराणे ।
साङ्ख्यागतं तन् निखिलं मुनीन्द्राः ॥ १०५ ॥
यच् चेतिहासेषु महत्सु दृष्टं ।
यथार्थशास्त्रेषु विशिष्टदृष्टम् ।
ज्ञानं च लोके यद् इहास्ति किञ्चित् ।
साङ्ख्यागतं तच् च महामुनीन्द्राः ॥ १०६ ॥
समस्तदृष्टं परमं बलं च ।
ज्ञानं च मोक्षश् च यथावद् उक्तम् ।
{}तपांसि सूक्ष्माणि च यानि चैव ।
साङ्ख्ये यथावद् विहितानि विप्राः ॥ १०७ ॥
विपर्ययं तस्य हितं सदैव ।
गच्छन्ति साङ्ख्याः सततं सुखेन ।
तांश् चापि सन्धार्य ततः कृतार्थाः ।
पतन्ति विप्रायतनेषु भूयः ॥ १०८ ॥
हित्वा च देहं प्रविशन्ति मोक्षं ।
दिवौकसश् चापि च योगसाङ्ख्याः ।
अतो ऽधिकं ते ऽभिरता महार्हे ।
साङ्ख्ये द्विजा भो इह शिष्टजुष्टे ॥ १०९ ॥
तेषां तु तिर्यग्गमनं हि दृष्टं ।
नाधो गतिः पापकृतां निवासः ।
न वा प्रधाना अपि ते द्विजातयो ।
ये ज्ञानम् एतन् मुनयो न सक्ताः ॥ ११० ॥
साङ्ख्यं विशालं परमं पुराणं ।
महार्णवं विमलम् उदारकान्तम् ।
नारायणे धारयताप्रमेयम् ॥ १११ ॥
एतन् मयोक्तं परमं हि तत्त्वं ।
नारायणाद् विश्वम् इदं पुराणम् ।
स सर्गकाले च करोति सर्गं ।
संहारकाले च हरेत भूयः ॥ ११२ ॥