Summary (SA)
Chapter 239- On the difference between Sāṅkhya and Yoga; on the practice of Yoga
{{Ref- SS 389-390}}
मुनय ऊचुः-
साङ्ख्यं योगस्य नो विप्र विशेषं वक्तुम् अर्हसि ।
तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ १ ॥
व्यास उवाच-
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगान् योगविदुत्तमाः ।
वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २ ॥
अनीश्वरः कथं मुच्येद् इत्य् एवं मुनिसत्तमाः ।
वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः ॥ ३ ॥
वदन्ति कारणं वेदं साङ्ख्यं सम्यग् द्विजातयः ।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ ४ ॥
ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा ।
एतद् आहुर् महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ॥ ५ ॥
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।
शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसम्मतैः ॥ ६ ॥
प्रत्यक्षं हेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः ।
उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः ॥ ७ ॥
उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसम्मते ।
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ ८ ॥
तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघाः ।
व्रतानां धारणं तुल्यं दर्शनं त्व् असमं तयोः ॥ ९ ॥
मुनय ऊचुः-
यदि तुल्यं व्रतं शौचं दया चात्र महामुने ।
तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम ॥ १० ॥
व्यास उवाच-
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।
योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान् ॥ ११ ॥
यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर् जलम् ।
प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः ॥ १२ ॥
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।
प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ १३ ॥
लोभजानि तथा विप्रा बन्धनानि बलान्वितः ।
छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम् ॥ १४ ॥
अचलास् त्व् आविला विप्रा वागुरासु तथापरे ।
विनश्यन्ति न सन्देहस् तद्वद् योगबलाद् ऋते ॥ १५ ॥
बलहीनाश् च विप्रेन्द्रा यथा जालं गता द्विजाः ।
बन्धं न गच्छन्त्य् अनघा योगास् ते तु सुदुर्लभाः ॥ १६ ॥
यथा च शकुनाः सूक्ष्मं प्राप्य जालम् अरिन्दमाः ।
तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ १७ ॥
कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगपरा द्विजाः ।
अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ १८ ॥
अल्पकश् च यथा विप्रा वह्निः शाम्यति दुर्बलः ।
आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगबलः स्मृतः ॥ १९ ॥
स एव च तदा विप्रा वह्निर् जातबलः पुनः ।
समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीम् इमाम् ॥ २० ॥
तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः ।
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत् ॥ २१ ॥
दुर्बलश् च यथा विप्राः स्रोतसा ह्रियते नरः ।
बलहीनस् तथा योगी विषयैर् ह्रियते च सः ॥ २२ ॥
तद् एव तु यथा स्रोतो विष्कम्भयति वारणः ।
तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर् हृतः ॥ २३ ॥
विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः ।
प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः ॥ २४ ॥
न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः ।
विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः ॥ २५ ॥
आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः ।
योगं कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत् ॥ २६ ॥
प्राप्नुयाद् विषयान् कश्चित् पुनश् चोग्रं तपश् चरेत् ।
सङ्क्षिप्येच् च पुनर् विप्राः सूर्यस् तेजोगुणान् इव ॥ २७ ॥
बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः ।
विमोक्षप्रभवं विष्णुम् उपपन्नम् असंशयम् ॥ २८ ॥
बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः ।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर् द्विजाः ॥ २९ ॥
आत्मनश् च समाधाने धारणां प्रति वा द्विजाः ।
निदर्शनानि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः ॥ ३० ॥
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।
युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम् ॥ ३१ ॥
स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् ।
पुरुषो युक्त आरोहेत् सोपानं युक्तमानसः ॥ ३२ ॥
मुक्तस् तथायम् आत्मानं योगं तद्वत् सुनिश्चलम् ।
करोत्य् अमलम् आत्मानं भास्करोपमदर्शने ॥ ३३ ॥
यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः ।
महार्णवगतां शीघ्रं नयेद् विप्रांस् तु पत्तनम् ॥ ३४ ॥
तद्वद् आत्मसमाधानं युक्तो योगेन योगवित् ।
दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं द्विजाः ॥ ३५ ॥
सारथिश् च यथा युक्तः सदश्वान् सुसमाहितः ।
देशम् इष्टं नयत्य् आशु धन्विनं पुरुषर्षभम् ॥ ३६ ॥
तथैव च द्विजा योगी धारणासु समाहितः ।
प्राप्नोत्य् आशु परं स्थानं लक्ष्यमुक्त इवाशुगः ॥ ३७ ॥
आविश्यात्मनि चात्मानं यो ऽवतिष्ठति सो ऽचलः ।
पाशं हत्वेव मीनानां पदम् आप्नोति सो ऽजरम् ॥ ३८ ॥
नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः ।
दर्शने श्रवणे वापि घ्राणे चामितविक्रमः ॥ ३९ ॥
स्थानेष्व् एतेषु यो योगी महाव्रतसमाहितः ।
आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् द्विजोत्तमाः ॥ ४० ॥
सुशीघ्रम् अचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् ।
उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते ॥ ४१ ॥
मुनय ऊचुः-
आहारान् कीदृशान् कृत्वा कानि जित्वा च सत्तम ।
योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति ॥ ४२ ॥
व्यास उवाच-
कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः ।
स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात् ॥ ४३ ॥
भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः ।
एकाहारी विशुद्धात्मा योगी बलम् अवाप्नुयात् ॥ ४४ ॥
पक्षान् मासान् ऋतूंश् चित्रान् सञ्चरंश् च गुहास् तथा ।
अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात् ॥ ४५ ॥
अखण्डम् अपि वा मासं सततं मुनिसत्तमाः ।
उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात् ॥ ४६ ॥
कामं जित्वा तथा क्रोधं शीतोष्णं वर्षम् एव च ।
भयं शोकं तथा स्वापं पौरुषान् विषयांस् तथा ॥ ४७ ॥
अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः ।
स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ ४८ ॥
दीपयन्ति महात्मानं सूक्ष्मम् आत्मानम् आत्मना ।
वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ ४९ ॥
दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम् ।
यः कश्चिद् व्रजति क्षिप्रं क्षेमेण मुनिपुङ्गवाः ॥ ५० ॥
यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम् ।
श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् ॥ ५१ ॥
अभक्तम् अटवीप्रायं दावदग्धमहीरुहम् ।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत् तथा ॥ ५२ ॥
योगमार्गं समासाद्य यः कश्चिद् व्रजते द्विजः ।
क्षेमेणोपरमेन् मार्गाद् बहुदोषो ऽपि सम्मतः ॥ ५३ ॥
आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः ।
धारणा सा तु योगस्य दुर्गेयम् अकृतात्मभिः ॥ ५४ ॥
विषमा धारणा विप्रा यान्ति वै न शुभां गतिम् ।
नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ ५५ ॥
यस् तु तिष्ठति योगाधौ धारणासु यथाविधि ।
मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ ५६ ॥
नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् ।
परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ ५७ ॥
परं हि तद् ब्रह्ममयं मुनीन्द्रा ।
ब्रह्माणम् ईशं वरदं च विष्णुम् ।
भवं च धर्मं च महानुभावं ।
यद् ब्रह्मपुत्रान् सुमहानुभावान् ॥ ५८ ॥
तमश् च कष्टं सुमहद् रजश् च ।
सत्त्वं च शुद्धं प्रकृतिं परां च ।
सिद्धिं च देवीं वरुणस्य पत्नीं ।
तेजश् च कृत्स्नं सुमहच् च धैर्यम् ॥ ५९ ॥
ताराधिपं खे विमलं सुतारं ।
विश्वांश् च देवान् उरगान् पितॄंश् च ।
शैलांश् च कृत्स्नान् उदधींश् च वाचलान् ।
नदीश् च सर्वाः सनगांश् च नागान् ॥ ६० ॥
साध्यांस् तथा यक्षगणान् दिशश् च ।
गन्धर्वसिद्धान् पुरुषान् स्त्रियश् च ।
परस्परं प्राप्य महान् महात्मा ।
विशेत योगी नचिराद् विमुक्तः ॥ ६१ ॥
कथा च या विप्रवराः प्रसक्ता ।
दैवे महावीर्यमतौ शुभेयम् ।
योगान् स सर्वान् अनुभूय मर्त्या ।
नारायणं तं द्रुतम् आप्नुवन्ति ॥ ६२ ॥