238

Summary (SA)

Chapter 238- On liberation by knowledge

{{Ref- SS 387-388}}

व्यास उवाच-

सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस् त्व् अधितिष्ठति ।
गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः ॥ १ ॥

स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् ।
ऊर्णनाभिर् यथा सूत्रं सृजते तद् गुणांस् तथा ॥ २ ॥

प्रवृत्ता न निवर्तन्ते प्रवृत्तिर् नोपलभ्यते ।
एवम् एके व्यवस्यन्ति निवृत्तिम् इति चापरे ॥ ३ ॥

उभयं सम्प्रधार्यैतद् अध्यवस्येद् यथामति ।
अनेनैव विधानेन भवेद् वै संशयो महान् ॥ ४ ॥

अनादिनिधनो ह्य् आत्मा तं बुद्ध्वा विहरेन् नरः ।
अक्रुध्यन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः ॥ ५ ॥

इत्य् एवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् ।
अनित्यं सुखम् आसीनम् अशोच्यं छिन्नसंशयः ॥ ६ ॥

तरयेत् प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः ।
अवगाह्य च विद्वांसो विप्रा लोलम् इमं तथा ॥ ७ ॥

न तु तप्यति वै विद्वान् स्थले चरति तत्त्ववित् ।
एवं विचिन्त्य चात्मानं केवलं ज्ञानम् आत्मनः ॥ ८ ॥

तां तु बुद्ध्वा नरः सर्गं भूतानाम् आगतिं गतिम् ।
समचेष्टश् च वै सम्यग् लभते शमम् उत्तमम् ॥ ९ ॥

एतद् द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः ।
आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम् ॥ १० ॥

तत्त्वं बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् ।
विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः ॥ ११ ॥

न भवति विदुषां महद् भयं ।
यद् अविदुषां सुमहद् भयं परत्र ।
नहि गतिर् अधिकास्ति कस्यचिद् ।
भवति हि या विदुषः सनातनी ॥ १२ ॥

लोके मातरम् असूयते नरस् ।
तत्र देवम् अनिरीक्ष्य शोचते ।
तत्र चेत् कुशलो न शोचते ।
ये विदुस् तद् उभयं कृताकृतम् ॥ १३ ॥

यत् करोत्य् अनभिसन्धिपूर्वकं ।
तच् च निन्दयति यत् पुरा कृतम् ।
यत् प्रियं तद् उभयं न वाप्रियं ।
तस्य तज् जनयतीह कुर्वतः ॥ १४ ॥

मुनय ऊचुः-

यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन ।
यो विशिष्टश् च भूतेभ्यस् तद् भवान् प्रब्रवीतु नः ॥ १५ ॥

व्यास उवाच-

धर्मं च सम्प्रवक्ष्यामि पुराणम् ऋषिभिः स्तुतम् ।
विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः ॥ १६ ॥

इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः ।
सर्वतः प्रसृतानीह पिता बालान् इवात्मजान् ॥ १७ ॥

मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं परमं तपः ।
विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ १८ ॥

तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया ।
आत्मतृप्तः स एवासीद् बहुचिन्त्यम् अचिन्तयन् ॥ १९ ॥

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।
तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २० ॥

सर्वात्मानं महात्मानं विधूमम् इव पावकम् ।
प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २१ ॥

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २२ ॥

एवम् आत्मा न जानीते क्व गमिष्ये कुतो ऽन्व् अहम् ।
अन्यो ह्य् अस्यान्तरात्मास्ति यः सर्वम् अनुपश्यति ॥ २३ ॥

ज्ञानदीपेन दीप्तेन पश्यत्य् आत्मानम् आत्मना ।
दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः ॥ २४ ॥

विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः ।
परां बुद्धिम् अवाप्येहाप्य् अचिन्ता विगतज्वराः ॥ २५ ॥

सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् ।
पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम् ॥ २६ ॥

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २७ ॥

अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् ।
प्रतरध्वं नदीं बुद्ध्या दुस्तराम् अकृतात्मभिः ॥ २८ ॥

संसारसागरगमां योनिपातालदुस्तराम् ।
आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २९ ॥

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।
तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ् शुचिः ॥ ३० ॥

उत्तमां बुद्धिम् आस्थाय ब्रह्मभूयाय कल्पते ।
उत्तीर्णः सर्वसङ्क्लेशान् प्रसन्नात्मा विकल्मषः ॥ ३१ ॥

भूयिष्ठानीव भूतानि सर्वस्थानान् निरीक्ष्य च ।
अक्रुध्यन्न् अप्रसीदंश् च ननृशंसमतिस् तथा ॥ ३२ ॥

ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययम् ।
एतद् धि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ ३३ ॥

धर्मं धर्मभृतां श्रेष्ठा मुनयः सत्यदर्शिनः ।
आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ ३४ ॥

प्रयताय प्रवक्तव्यं हितायानुगताय च ।
आत्मज्ञानम् इदं गुह्यं सर्वगुह्यतमं महत् ॥ ३५ ॥

अब्रवं यद् अहं विप्रा आत्मसाक्षिकम् अञ्जसा ।
नैव स्त्री न पुमान् एवं न चैवेदं नपुंसकम् ॥ ३६ ॥

अदुःखम् असुखं ब्रह्म भूतभव्यभवात्मकम् ।
नैतज् ज्ञात्वा पुमान् स्त्री वा पुनर्भवम् अवाप्नुयात् ॥ ३७ ॥

यथा मतानि सर्वाणि तथैतानि यथा तथा ।
कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ ३८ ॥

तत्प्रीतियुक्तेन गुणान्वितेन ।
पुत्रेण सत्पुत्रदयान्वितेन ।
दृष्ट्वा हितं प्रीतमना यदर्थं ।
ब्रूयात् सुतस्येह यद् उक्तम् एतत् ॥ ३९ ॥

मुनय ऊचुः-

मोक्षः पितामहेनोक्त उपायान् नानुपायतः ।
तम् उपायं यथान्यायं श्रोतुम् इच्छामहे मुने ॥ ४० ॥

व्यास उवाच-

अस्मासु तन् महाप्राज्ञा युक्तं निपुणदर्शनम् ।
यदुपायेन सर्वार्थान् मृगयध्वं सदानघाः ॥ ४१ ॥

घटोपकरणे बुद्धिर् घटोत्पत्तौ न सा मता ।
एवं धर्माद्युपायार्थे नान्यधर्मेषु कारणम् ॥ ४२ ॥

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ।
एकः पन्था हि मोक्षस्य तच् छृणुध्वं ममानघाः ॥ ४३ ॥

क्षमया क्रोधम् उच्छिन्द्यात् कामं सङ्कल्पवर्जनात् ।
सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति ॥ ४४ ॥

अप्रमादाद् भयं रक्षेद् रक्षेत् क्षेत्रं च संविदम् ।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ ४५ ॥

निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ।
उपद्रवांस् तथा योगी हितजीर्णमिताशनात् ॥ ४६ ॥

लोभं मोहं च सन्तोषाद् विषयांस् तत्त्वदर्शनात् ।
अनुक्रोशाद् अधर्मं च जयेद् धर्मम् उपेक्षया ॥ ४७ ॥

आयत्या च जयेद् आशां सामर्थ्यं सङ्गवर्जनात् ।
अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ ४८ ॥

कारुण्येनात्मनात्मानं तृष्णां च परितोषतः ।
उत्थानेन जयेत् तन्द्रां वितर्कं निश्चयाज् जयेत् ॥ ४९ ॥

मौनेन बहुभाषां च शौर्येण च भयं जयेत् ।
यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज् ज्ञानचक्षुषा ॥ ५० ॥

ज्ञानम् आत्मा महान् यच्छेत् तं यच्छेच् छान्तिर् आत्मनः ।
तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ ५१ ॥

योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः ।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ ५२ ॥

परित्यज्य निषेवेत यथावद् योगसाधनात् ।
ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा ॥ ५३ ॥

शौचम् आचारतः शुद्धिर् इन्द्रियाणां च संयमः ।
एतैर् विवर्धते तेजः पाप्मानम् उपहन्ति च ॥ ५४ ॥

सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते ।
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ ५५ ॥

कामक्रोधौ वशे कृत्वा निर्विशेद् ब्रह्मणः पदम् ।
अमूढत्वम् असङ्गित्वं कामक्रोधविवर्जनम् ॥ ५६ ॥

अदैन्यम् अनुदीर्णत्वम् अनुद्वेगो ह्य् अवस्थितिः ।
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ।
तथा वाक्कायमनसां नियमाः कामतो ऽव्ययाः ॥ ५७ ॥