237

Summary (SA)

Chapter 237- On the opposition of action and knowledge

{{Ref- SS 384-387}}

मुनय ऊचुः-

यद्य् एवं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ १ ॥

एतद् वै श्रोतुम् इच्छामस् तद् भवान् प्रब्रवीतु नः ।
एतद् अन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २ ॥

व्यास उवाच-

शृणुध्वं मुनिशार्दूला यत् पृच्छध्वं समासतः ।
कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ ॥ ३ ॥

यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा ।
शृणुध्वं साम्प्रतं विप्रा गहनं ह्य् एतद् उत्तरम् ॥ ४ ॥

अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् ।
यक्षस्य सादृश्यम् इदं यक्षस्येदं भवेद् अथ ॥ ५ ॥

द्वाव् इमाव् अथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ ६ ॥

कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ७ ॥

कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः ।
विद्यया जायते नित्यम् अव्यक्तं ह्य् अक्षरात्मकम् ॥ ८ ॥

कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धिरता नराः ।
तेन ते देहजालेन रमयन्त उपासते ॥ ९ ॥

ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव ॥ १० ॥

कर्मणां फलम् आप्नोति सुखदुःखे भवाभवौ ।
विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति ॥ ११ ॥

न म्रियते यत्र गत्वा यत्र गत्वा न जायते ।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ १२ ॥

यत्र तद् ब्रह्म परमम् अव्यक्तम् अचलं ध्रुवम् ।
अव्याकृतम् अनायामम् अमृतं चाधियोगवित् ॥ १३ ॥

द्वन्द्वैर् न यत्र बाध्यन्ते मानसेन च कर्मणा ।
समाः सर्वत्र मैत्राश् च सर्वभूतहिते रताः ॥ १४ ॥

विद्यामयो ऽन्यः पुरुषो द्विजाः कर्ममयो ऽपरः ।
विप्राश् चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ १५ ॥

तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुगीयते ।
न वक्तुं शक्यते द्रष्टुं चक्रतन्तुम् इवाम्बरे ॥ १६ ॥

एकादशविकारात्मा कलासम्भारसम्भृतः ।
मूर्तिमान् इति तं विद्याद् विप्राः कर्मगुणात्मकम् ॥ १७ ॥

देवो यः संश्रितस् तस्मिन् बुद्धीन्दुर् इव पुष्करे ।
क्षेत्रज्ञं तं विजानीयान् नित्यं योगजितात्मकम् ॥ १८ ॥

तमो रजश् च सत्त्वं च ज्ञेयं जीवगुणात्मकम् ।
जीवम् आत्मगुणं विद्याद् आत्मानं परमात्मनः ॥ १९ ॥

सचेतनं जीवगुणं वदन्ति ।
स चेष्टते जीवगुणं च सर्वम् ।
ततः परं क्षेत्रविदो वदन्ति ।
प्रकल्पयन्तो भुवनानि सप्त ॥ २० ॥

व्यास उवाच-

प्रकृत्यास् तु विकारा ये क्षेत्रज्ञास् ते परिश्रुताः ।
ते चैनं न प्रजानन्ति न जानाति स तान् अपि ॥ २१ ॥

तैश् चैव कुरुते कार्यं मनःषष्ठैर् इहेन्द्रियैः ।
सुदान्तैर् इव संयन्ता दृढः परमवाजिभिः ॥ २२ ॥

इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ २३ ॥

महतः परम् अव्यक्तम् अव्यक्तात् परतो ऽमृतम् ।
अमृतान् न परं किञ्चित् सा काष्ठा परमा गतिः ॥ २४ ॥

एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २५ ॥

अन्तरात्मनि संलीय मनःषष्ठानि मेधया ।
इन्द्रियैर् इन्द्रियार्थांश् च बहुचित्तम् अचिन्तयन् ॥ २६ ॥

ध्याने ऽपि परमं कृत्वा विद्यासम्पादितं मनः ।
अनीश्वरः प्रशान्तात्मा ततो गच्छेत् परं पदम् ॥ २७ ॥

इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः ।
आत्मनः सम्प्रदानेन मर्त्यो मृत्युम् उपाश्नुते ॥ २८ ॥

विहत्य सर्वसङ्कल्पान् सत्त्वे चित्तं निवेशयेत् ।
सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥ २९ ॥

चित्तप्रसादेन यतिर् जहातीह शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखम् अत्यन्तम् अश्नुते ॥ ३० ॥

लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् ।
निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ ३१ ॥

एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानम् आत्मना ।
लघ्वाहारो विशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि ॥ ३२ ॥

रहस्यं सर्ववेदानाम् अनैतिह्यम् अनागमम् ।
आत्मप्रत्यायकं शास्त्रम् इदं पुत्रानुशासनम् ॥ ३३ ॥

धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु ।
दशवर्षसहस्राणि निर्मथ्यामृतम् उद्धृतम् ॥ ३४ ॥

नवनीतं यथा दध्नः काष्ठाद् अग्निर् यथैव च ।
तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ ३५ ॥

स्नातकानाम् इदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
तद् इदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ ३६ ॥

नावेदविदुषे वाच्यं तथा नानुगताय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ ३७ ॥

न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ ३८ ॥

इदं प्रियाय पुत्राय शिष्यायानुगताय तु ।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन ॥ ३९ ॥

यद् अप्य् अस्य महीं दद्याद् रत्नपूर्णाम् इमां नरः ।
इदम् एव ततः श्रेय इति मन्येत तत्त्ववित् ॥ ४० ॥

अतो गुह्यतरार्थं तद् अध्यात्मम् अतिमानुषम् ।
यत् तन् महर्षिभिर् दृष्टं वेदान्तेषु च गीयते ॥ ४१ ॥

तद् युष्मभ्यं प्रयच्छामि यन् मां पृच्छत सत्तमाः ।
यन् मे मनसि वर्तेत यस् तु वो हृदि संशयः ।
श्रुतं भवद्भिस् तत् सर्वं किम् अन्यत् कथयामि वः ॥ ४२ ॥

मुनय ऊचुः-

अध्यात्मं विस्तरेणेह पुनर् एव वदस्व नः ।
यद् अध्यात्मं यथा विद्मो भगवन्न् ऋषिसत्तम ॥ ४३ ॥

व्यास उवाच-

अध्यात्मं यद् इदं विप्राः पुरुषस्येह पठ्यते ।
युष्मभ्यं कथयिष्यामि तस्य व्याख्यावधार्यताम् ॥ ४४ ॥

भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च ।
महाभूतानि यश् चैव सर्वभूतेषु भूतकृत् ॥ ४५ ॥

मुनय ऊचुः-

आकारं तु भवेद् यस्य यस्मिन् देहं न पश्यति ।
आकाशाद्यं शरीरेषु कथं तद् उपवर्णयेत् ।
इन्द्रियाणां गुणाः केचित् कथं तान् उपलक्षयेत् ॥ ४६ ॥

व्यास उवाच-

एतद् वो वर्णयिष्यामि यथावद् अनुदर्शनम् ।
शृणुध्वं तद् इहैकाग्र्या यथातत्त्वं यथा च तत् ॥ ४७ ॥

शब्दः श्रोत्रं तथा खानि त्रयम् आकाशलक्षणम् ।
प्राणश् चेष्टा तथा स्पर्श एते वायुगुणास् त्रयः ॥ ४८ ॥

रूपं चक्षुर् विपाकश् च त्रिधा ज्योतिर् विधीयते ।
रसो ऽथ रसनं स्वेदो गुणास् त्व् एते त्रयो ऽम्भसाम् ॥ ४९ ॥

घ्रेयं घ्राणं शरीरं च भूमेर् एते गुणास् त्रयः ।
एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ ५० ॥

वायोः स्पर्शो रसो ऽद्भ्यश् च ज्योतिषो रूपम् उच्यते ।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ ५१ ॥

मनो बुद्धिः स्वभावश् च गुणा एते स्वयोनिजाः ।
ते गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः ॥ ५२ ॥

यथा कूर्म इवाङ्गानि प्रसार्य सन्नियच्छति ।
एवम् एवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ ५३ ॥

यद् ऊर्ध्वं पादतलयोर् अवार्कोर्ध्वं च पश्यति ।
एतस्मिन्न् एव कृत्ये सा वर्तते बुद्धिर् उत्तमा ॥ ५४ ॥

गुणैस् तु नीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि ।
मनःषष्ठानि सर्वाणि बुद्ध्या भावात् कुतो गुणाः ॥ ५५ ॥

इन्द्रियाणि नरैः पञ्च षष्ठं तन् मन उच्यते ।
सप्तमीं बुद्धिम् एवाहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ ५६ ॥

चक्षुर् आलोकनायैव संशयं कुरुते मनः ।
बुद्धिर् अध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ ५७ ॥

रजस् तमश् च सत्त्वं च त्रय एते स्वयोनिजाः ।
समाः सर्वेषु भूतेषु तान् गुणान् उपलक्षयेत् ॥ ५८ ॥

तत्र यत् प्रीतिसंयुक्तं किञ्चिद् आत्मनि लक्षयेत् ।
प्रशान्तम् इव संयुक्तं सत्त्वं तद् उपधारयेत् ॥ ५९ ॥

यत् तु सन्तापसंयुक्तं काये मनसि वा भवेत् ।
प्रवृत्तं रज इत्य् एवं तत्र चाप्य् उपलक्षयेत् ॥ ६० ॥

यत् तु सम्मोहसंयुक्तम् अव्यक्तं विषमं भवेत् ।
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥ ६१ ॥

प्रहर्षः प्रीतिर् आनन्दं स्वाम्यं स्वस्थात्मचित्तता ।
अकस्माद् यदि वा कस्माद् वदन्ति सात्त्विकान् गुणान् ॥ ६२ ॥

अभिमानो मृषावादो लोभो मोहस् तथाक्षमा ।
लिङ्गानि रजसस् तानि वर्तन्ते हेतुतत्त्वतः ॥ ६३ ॥

तथा मोहः प्रमादश् च तन्द्री निद्राप्रबोधिता ।
कथञ्चिद् अभिवर्तन्ते विज्ञेयास् तामसा गुणाः ॥ ६४ ॥

मनः प्रसृजते भावं बुद्धिर् अध्यवसायिनी ।
हृदयं प्रियम् एवेह त्रिविधा कर्मचोदना ॥ ६५ ॥

इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा परः स्मृतः ॥ ६६ ॥

बुद्धिर् आत्मा मनुष्यस्य बुद्धिर् एवात्मनायिका ।
यदा विकुरुते भावं तदा भवति सा मनः ॥ ६७ ॥

इन्द्रियाणां पृथग्भावाद् बुद्धिर् विकुरुते ह्य् अनु ।
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ ६८ ॥

पश्यन्ती च भवेद् दृष्टी रसन्ती रसना भवेत् ।
जिघ्रन्ती भवति घ्राणं बुद्धिर् विकुरुते पृथक् ॥ ६९ ॥

इन्द्रियाणि तु तान्य् आहुस् तेषां वृत्त्या वितिष्ठति ।
तिष्ठति पुरुषे बुद्धिर् बुद्धिभावव्यवस्थिता ॥ ७० ॥

कदाचिल् लभते प्रीतिं कदाचिद् अपि शोचति ।
न सुखेन च दुःखेन कदाचिद् इह मुह्यते ॥ ७१ ॥

स्वयं भावात्मिका भावांस् त्रीन् एतान् अतिवर्तते ।
सरितां सागरो भर्ता महावेलाम् इवोर्मिमान् ॥ ७२ ॥

यदा प्रार्थयते किञ्चित् तदा भवति सा मनः ।
अधिष्ठाने च वै बुद्ध्या पृथग् एतानि संस्मरेत् ॥ ७३ ॥

इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः ।
सर्वाण्य् एवानुपूर्वेण यद् यदा च विधीयते ॥ ७४ ॥

अविभागमना बुद्धिर् भावो मनसि वर्तते ।
प्रवर्तमानस् तु रजः सत्त्वम् अप्य् अतिवर्तते ॥ ७५ ॥

ये वै भावेन वर्तन्ते सर्वेष्व् एतेषु ते त्रिषु ।
अन्व् अर्थान् सम्प्रवर्तन्ते रथनेमिम् अरा इव ॥ ७६ ॥

प्रदीपार्थं मनः कुर्याद् इन्द्रियैर् बुद्धिसत्तमैः ।
निश्चरद्भिर् यथायोगम् उदासीनैर् यदृच्छया ॥ ७७ ॥

एवंस्वभावम् एवेदम् इति बुद्ध्वा न मुह्यति ।
अशोचन् सम्प्रहृष्यंश् च नित्यं विगतमत्सरः ॥ ७८ ॥

न ह्य् आत्मा शक्यते द्रष्टुम् इन्द्रियैः कामगोचरैः ।
प्रवर्तमानैर् अनेकैर् दुर्धरैर् अकृतात्मभिः ॥ ७९ ॥

तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति ।
तदा प्रकाशते ऽस्यात्मा दीपदीप्ता यथाकृतिः ॥ ८० ॥

सर्वेषाम् एव भूतानां तमस्य् उपगते यथा ।
प्रकाशं भवते सर्वं तथैवम् उपधार्यताम् ॥ ८१ ॥

यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर् न लिप्यते ॥ ८२ ॥

एवम् एव कृतप्रज्ञो न दोषैर् विषयांश् चरन् ।
असज्जमानः सर्वेषु न कथञ्चित् प्रलिप्यते ॥ ८३ ॥

त्यक्त्वा पूर्वकृतं कर्म रतिर् यस्य सदात्मनि ।
सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ ८४ ॥

स्वयम् आत्मा प्रसवति गुणेष्व् अपि कदाचन ।
न गुणा विदुर् आत्मानं गुणान् वेद स सर्वदा ॥ ८५ ॥

परिदध्याद् गुणानां स द्रष्टा चैव यथातथम् ।
सत्त्वक्षेत्रज्ञयोर् एवम् अन्तरं लक्षयेन् नरः ॥ ८६ ॥

सृजते तु गुणान् एक एको न सृजते गुणान् ।
पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ ८७ ॥

यथाश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ ।
मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सह ॥ ८८ ॥

इषिका वा यथा मुञ्जे पृथक् च सह चैव ह ।
तथैव सहिताव् एतौ अन्योन्यस्मिन् प्रतिष्ठितौ ॥ ८९ ॥