Summary (SA)
Chapter 236- On Sāṅkhya and Yoga
{{Ref- SS 381-383}}
मुनय ऊचुः-
तव वक्त्राब्धिसम्भूतम् अमृतं वाङ्मयं मुने ।
पिबतां नो द्विजश्रेष्ठ न तृप्तिर् इह दृश्यते ॥ १ ॥
तस्माद् योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् ।
साङ्ख्यं च द्विपदां श्रेष्ठ श्रोतुम् इच्छामहे वयम् ॥ २ ॥
प्रज्ञावाञ् श्रोत्रियो यज्वा ख्यातः प्राज्ञो ऽनसूयकः ।
सत्यधर्ममतिर् ब्रह्मन् कथं ब्रह्माधिगच्छति ॥ ३ ॥
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
साङ्ख्ये वा यदि वा योग एतत् पृष्टो वदस्व नः ॥ ४ ॥
मनसश् चेन्द्रियाणां च यथैकाग्र्यम् अवाप्यते ।
येनोपायेन पुरुषस् तत् त्वं व्याख्यातुम् अर्हसि ॥ ५ ॥
व्यास उवाच-
नान्यत्र ज्ञानतपसोर् नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र सर्वसन्त्यागात् सिद्धिं विन्दति कश्चन ॥ ६ ॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः ।
भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ ७ ॥
भूमेर् देहो जलात् स्नेहो ज्योतिषश् चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुः कोष्ठाआकाशं शरीरिणाम् ॥ ८ ॥
क्रान्तौ विष्णुर् बले शक्रः कोष्ठे ऽग्निर् भोक्तुम् इच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥ ९ ॥
कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्य् आहारसिद्धये ॥ १० ॥
शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् ।
इन्द्रियार्थान् पृथग् विद्याद् इन्द्रियेभ्यस् तु नित्यदा ॥ ११ ॥
इन्द्रियाणि मनो युङ्क्ते अवश्यान् इव राजिनः ।
मनश् चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ १२ ॥
इन्द्रियाणां तथैवैषां सर्वेषाम् ईश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मनसस् तथा ॥ १३ ॥
इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः ।
प्राणापानौ च जीवश् च नित्यं देहेषु देहिनाम् ॥ १४ ॥
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः ।
सत्त्वं हि तेजः सृजति न गुणान् वै कथञ्चन ॥ १५ ॥
एवं सप्तदशं देहं वृतं षोडशभिर् गुणैः ।
मनीषी मनसा विप्राः पश्यत्य् आत्मानम् आत्मनि ॥ १६ ॥
न ह्य् अयं चक्षुषा दृश्यो न च सर्वैर् अपीन्द्रियैः ।
मनसा तु प्रदीप्तेन महान् आत्मा प्रकाशते ॥ १७ ॥
अशब्दस्पर्शरूपं तच् चारसागन्धम् अव्ययम् ।
अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ १८ ॥
अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् ।
यो ऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ १९ ॥
विद्याविनयसम्पन्नब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २० ॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्य् एको महान् आत्मा येन सर्वम् इदं ततम् ॥ २१ ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २२ ॥
यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि ।
य एवं सततं वेद सो ऽमृतत्वाय कल्पते ॥ २३ ॥
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २४ ॥
शकुन्तानाम् इवाकाशे मत्स्यानाम् इव चोदके ।
यथा गतिर् न दृश्येत तथा ज्ञानविदां गतिः ॥ २५ ॥
कालः पचति भूतानि सर्वाण्य् एवात्मनात्मनि ।
यस्मिंस् तु पच्यते कालस् तन् न वेदेह कश्चन ॥ २६ ॥
न तद् ऊर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः ।
न मध्ये प्रतिगृह्णीते नैव किञ्चिन् न कश्चन ॥ २७ ॥
सर्वे तत्स्था इमे लोका बाह्यम् एषां न किञ्चन ।
यद्य् अप्य् अग्रे समागच्छेद् यथा बाणो गुणच्युतः ॥ २८ ॥
नैवान्तं कारणस्येयाद् यद्य् अपि स्यान् मनोजवः ।
तस्मात् सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २९ ॥
सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ ३० ॥
तद् एवाणोर् अणुतरं तन् महद्भ्यो महत्तरम् ।
तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते ॥ ३१ ॥
अक्षरं च क्षरं चैव द्वेधा भावो ऽयम् आत्मनः ।
क्षरः सर्वेषु भूतेषु दिव्यं त्व् अमृतम् अक्षरम् ॥ ३२ ॥
नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ।
ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ ३३ ॥
हानेनाभिविकल्पानां नराणां सञ्चयेन च ।
शरीराणाम् अजस्याहुर् हंसत्वं पारदर्शिनः ॥ ३४ ॥
हंसोक्तं च क्षरं चैव कूटस्थं यत् तद् अक्षरम् ।
तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी ॥ ३५ ॥
व्यास उवाच-
भवतां पृच्छतां विप्रा यथावद् इह तत्त्वतः ।
साङ्ख्यं ज्ञानेन संयुक्तं यद् एतत् कीर्तितं मया ॥ ३६ ॥
योगकृत्यं तु भो विप्राः कीर्तयिष्याम्य् अतः परम् ।
एकत्वं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः ॥ ३७ ॥
आत्मनो व्यापिनो ज्ञानं ज्ञानम् एतद् अनुत्तमम् ।
तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना ॥ ३८ ॥
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः ॥ ३९ ॥
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ।
क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात् ॥ ४० ॥
सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति ।
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा ॥ ४१ ॥
चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ।
अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात् ॥ ४२ ॥
एवम् एतान् योगदोषाञ् जयेन् नित्यम् अतन्द्रितः ।
अग्नींश् च ब्राह्मणांश् चाथ देवताः प्रणमेत् सदा ॥ ४३ ॥
वर्जयेद् उद्धतां वाचं हिंसायुक्तां मनोनुगाम् ।
ब्रह्मतेजोमयं शुक्रं यस्य सर्वम् इदं जगत् ॥ ४४ ॥
एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ।
ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा ॥ ४५ ॥
शौचं चैवात्मनः शुद्धिर् इन्द्रियाणां च निग्रहः ।
एतैर् विवर्धते तेजः पाप्मानं चापकर्षति ॥ ४६ ॥
समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् ।
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ ४७ ॥
कामक्रोधौ वशे कृत्वा निषेवेद् ब्रह्मणः पदम् ।
मनसश् चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ॥ ४८ ॥
पूर्वरात्रे परार्धे च धारयेन् मन आत्मनः ।
जन्तोः पञ्चेन्द्रियस्यास्य यद्य् एकं क्लिन्नम् इन्द्रियम् ॥ ४९ ॥
ततो ऽस्य स्रवति प्रज्ञा गिरेः पादाद् इवोदकम् ।
मनसः पूर्वम् आदद्यात् कूर्माणाम् इव मत्स्यहा ॥ ५० ॥
ततः श्रोत्रं ततश् चक्षुर् जिह्वा घ्राणं च योगवित् ।
तत एतानि संयम्य मनसि स्थापयेद् यदि ॥ ५१ ॥
तथैवापोह्य सङ्कल्पान् मनो ह्य् आत्मनि धारयेत् ।
पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद् यदि ॥ ५२ ॥
यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि ।
प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ ५३ ॥
विधूम इव दीप्तार्चिर् आदित्य इव दीप्तिमान् ।
वैद्युतो ऽग्निर् इवाकाशे पश्यन्त्य् आत्मानम् आत्मनि ॥ ५४ ॥
सर्वं तत्र तु सर्वत्र व्यापकत्वाच् च दृश्यते ।
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ ५५ ॥
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ।
एवं परिमितं कालम् आचरन् संशितव्रतः ॥ ५६ ॥
आसीनो हि रहस्य् एको गच्छेद् अक्षरसाम्यताम् ।
प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ ५७ ॥
अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः ।
प्रतिभान् उपसर्गाश् च प्रतिसङ्गृह्य योगतः ॥ ५८ ॥
तांस् तत्त्वविद् अनादृत्य साम्येनैव निवर्तयेत् ।
कुर्यात् परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ ५९ ॥
गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् ।
सन्नियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ ६० ॥
एकाग्रं चिन्तयेन् नित्यं योगान् नोद्विजते मनः ।
येनोपायेन शक्येत नियन्तुं चञ्चलं मनः ॥ ६१ ॥
तत्र युक्तो निषेवेत न चैव विचलेत् ततः ।
शून्यागाराणि चैकाग्रो निवासार्थम् उपक्रमेत् ॥ ६२ ॥
नातिव्रजेत् परं वाचा कर्मणा मनसापि वा ।
उपेक्षको यताहारो लब्धालब्धसमो भवेत् ॥ ६३ ॥
यश् चैनम् अभिनन्देत यश् चैनम् अभिवादयेत् ।
समस् तयोश् चाप्य् उभयोर् नाभिध्यायेच् छुभाशुभम् ॥ ६४ ॥
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् ।
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ ६५ ॥
एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः ।
षण् मासान् नित्ययुक्तस्य शब्दब्रह्माभिवर्तते ॥ ६६ ॥
वेदनार्तान् परान् दृष्ट्वा समलोष्टाश्मकाञ्चनः ।
एवं तु निरतो मार्गं विरमेन् न विमोहितः ॥ ६७ ॥
अपि वर्णावकृष्टस् तु नारी वा धर्मकाङ्क्षिणी ।
ताव् अप्य् एतेन मार्गेण गच्छेतां परमां गतिम् ॥ ६८ ॥
अजं पुराणम् अजरं सनातनं ।
यम् इन्द्रियातिगम् अगोचरं द्विजाः ।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां ।
प्रयान्त्य् अनावृत्तिगतिं मनीषिणः ॥ ६९ ॥