235

Summary (SA)

Chapter 235- Description of the practice of Yoga

{{Ref- SS 380-381}}

मुनय ऊचुः-

इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् ।
यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ १ ॥

श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस् तदा ।
अब्रवीत् परमप्रीतो योगी योगविदां वरः ॥ २ ॥

व्यास उवाच-

योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् ।
यम् अभ्यस्याप्नुयाद् योगी मोक्षं परमदुर्लभम् ॥ ३ ॥

श्रुत्वादौ योगशास्त्राणि गुरुम् आराध्य भक्तितः ।
इतिहासं पुराणं च वेदांश् चैव विचक्षणः ॥ ४ ॥

आहारं योगदोषांश् च देशकालं च बुद्धिमान् ।
ज्ञात्वा समभ्यसेद् योगं निर्द्वन्द्वो निष्परिग्रहः ॥ ५ ॥

भुञ्जन् सक्तुं यवागूं च तक्रमूलफलं पयः ।
यावकं कणपिण्याकम् आहारं योगसाधनम् ॥ ६ ॥

न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा ।
न द्वन्द्वे न च शीते च न चोष्णे नानिलात्मके ॥ ७ ॥

सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे ।
सरीसृपे श्मशाने च न नद्यन्ते ऽग्निसन्निधौ ॥ ८ ॥

न चैत्ये न च वल्मीके सभये कूपसन्निधौ ।
न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ ९ ॥

देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै ।
प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ १० ॥

बाधिर्यं जडता लोपः स्मृतेर् मूकत्वम् अन्धता ।
ज्वरश् च जायते सद्यस् तद्वद् अज्ञानसम्भवः ॥ ११ ॥

तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा ।
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ १२ ॥

आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे ।
शून्यागारे शुचौ रम्ये चैकान्ते देवतालये ॥ १३ ॥

रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः ।
पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ १४ ॥

आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले ।
नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः ॥ १५ ॥

युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः ।
सर्वद्वन्द्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ १६ ॥

नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः ।
संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः ॥ १७ ॥

समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः ।
प्रणवं दीर्घम् उद्यम्य संवृतास्यः सुनिश्चलः ॥ १८ ॥

रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा ।
सञ्छाद्य निर्मले शान्ते स्थितः संवृतलोचनः ॥ १९ ॥

हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् ।
युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम् ॥ २० ॥

करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् ।
क्षेत्रज्ञश् च परे योज्यस् ततो युञ्जति योगवित् ॥ २१ ॥

मनो यस्यान्तम् अभ्येति परमात्मनि चञ्चलम् ।
सन्त्यज्य विषयांस् तस्य योगसिद्धिः प्रकाशिता ॥ २२ ॥

यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते ।
समाधौ योगयुक्तस्य तदाभ्येति परं पदम् ॥ २३ ॥

असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु ।
भवत्य् आनन्दम् आसाद्य तदा निर्वाणम् ऋच्छति ॥ २४ ॥

शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् ।
प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः ॥ २५ ॥

निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः ।
सर्वत्रानित्यबुद्धिस् तु योगी मुच्येत नान्यथा ॥ २६ ॥

इन्द्रियाणि न सेवेत वैराग्येण च योगवित् ।
सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २७ ॥

न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् ।
मनसश् चेन्द्रियाणां च संयोगो योग उच्यते ॥ २८ ॥

एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः ।
संसारमोक्षहेतुश् च किम् अन्यच् छ्रोतुम् इच्छथ ॥ २९ ॥

लोमहर्षण उवाच-

श्रुत्वा ते वचनं तस्य साधु साध्व् इति चाब्रुवन् ।
व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ ३० ॥