234

Summary (SA)

Chapter 234- On suffering and final release from existence (absolute dissolution)

{{Ref- SS 379-380}}

व्यास उवाच-

आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्य् आत्यन्तिकं लयम् ॥ १ ॥

आध्यात्मिको ऽपि द्विविधः शारीरो मानसस् तथा ।
शारीरो बहुभिर् भेदैर् भिद्यते श्रूयतां च सः ॥ २ ॥

शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिर् अनेकधा ॥ ३ ॥

तथाक्षिरोगातीसारकुष्ठाङ्गामयसञ्ज्ञकैः ।
भिद्यते देहजस् तापो मानसं श्रोतुम् अर्हथ ॥ ४ ॥

कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्याभिभवस् तथा ॥ ५ ॥

मानसो ऽपि द्विजश्रेष्ठास् तापो भवति नैकधा ।
इत्य् एवमादिभिर् भेदैस् तापो ह्य् आध्यात्मिकः स्मृतः ॥ ६ ॥

मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश् च नृणां जन्यते चाधिभौतिकः ॥ ७ ॥

शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः ॥ ८ ॥

गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तमाः ॥ ९ ॥

सुकुमारतनुर् गर्भे जन्तुर् बहुमलावृते ।
उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः ॥ १० ॥

अत्यम्लकटुतीक्ष्णोष्णलवणैर् मातृभोजनैः ।
अतितापिभिर् अत्यर्थं बाध्यमानो ऽतिवेदनः ॥ ११ ॥

प्रसारणाकुञ्चनादौ नागानां प्रभुर् आत्मनः ।
शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ १२ ॥

निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्य् अथ ।
आस्ते गर्भे ऽतिदुःखेन निजकर्मनिबन्धनः ॥ १३ ॥

जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ १४ ॥

अधोमुखस् तैः क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशैर् निष्क्रान्तिम् आप्नोति जठरान् मातुर् आतुरः ॥ १५ ॥

मूर्छाम् अवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंशम् आप्नोति जातस् तु मुनिसत्तमाः ॥ १६ ॥

कण्टकैर् इव तुन्नाङ्गः क्रकचैर् इव दारितः ।
पूतिव्रणान् निपतितो धरण्यां क्रिमिको यथा ॥ १७ ॥

कण्डूयने ऽपि चाशक्तः परिवर्ते ऽप्य् अनीश्वरः ।
स्तनपानादिकाहारम् अवाप्नोति परेच्छया ॥ १८ ॥

अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस् तथा ।
भक्ष्यमाणो ऽपि नैवैषां समर्थो विनिवारणे ॥ १९ ॥

जन्मदुःखान्य् अनेकानि जन्मनो ऽनन्तराणि च ।
बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २० ॥

अज्ञानतमसा छन्नो मूढान्तःकरणो नरः ।
न जानाति कुतः को ऽहं कुत्र गन्ता किमात्मकः ॥ २१ ॥

केन बन्धेन बद्धो ऽहं कारणं किम् अकारणम् ।
किं कार्यं किम् अकार्यं वा किं वाच्यं किं न चोच्यते ॥ २२ ॥

को धर्मः कश् च वाधर्मः कस्मिन् वर्तेत वै कथम् ।
किं कर्तव्यम् अकर्तव्यं किं वा किं गुणदोषवत् ॥ २३ ॥

एवं पशुसमैर् मूढैर् अज्ञानप्रभवं महत् ।
अवाप्यते नरैर् दुःखं शिश्नोदरपरायणैः ॥ २४ ॥

अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपस् ततो द्विजाः ॥ २५ ॥

नरकं कर्मणां लोपात् फलम् आहुर् महर्षयः ।
तस्माद् अज्ञानिनां दुःखम् इह चामुत्र चोत्तमम् ॥ २६ ॥

जराजर्जरदेहश् च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २७ ॥

दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
नासाविवरनिर्यातरोमपुञ्जश् चलद्वपुः ॥ २८ ॥

प्रकटीभूतसर्वास्थिर् नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वाद् अल्पाहारो ऽल्पचेष्टितः ॥ २९ ॥

कृच्छ्रचङ्क्रमणोत्थानशयनासनचेष्टितः ।
मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः ॥ ३० ॥

अनायत्तैः समस्तैश् च करणैर् मरणोन्मुखः ।
तत्क्षणे ऽप्य् अनुभूतानाम् अस्मर्ताखिलवस्तुनाम् ॥ ३१ ॥

सकृद् उच्चारिते वाक्ये समुद्भूतमहाश्रमः ।
श्वासकासामयायाससमुद्भूतप्रजागरः ॥ ३२ ॥

अन्येनोत्थाप्यते ऽन्येन तथा संवेश्यते जरी ।
भृत्यात्मपुत्रदाराणाम् अपमानपराकृतः ॥ ३३ ॥

प्रक्षीणाखिलशौचश् च विहाराहारसंस्पृहः ।
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ ३४ ॥

अनुभूतम् इवान्यस्मिञ् जन्मन्य् आत्मविचेष्टितम् ।
संस्मरन् यौवने दीर्घं निश्वसित्य् अतितापितः ॥ ३५ ॥

एवमादीनि दुःखानि जरायाम् अनुभूय च ।
मरणे यानि दुःखानि प्राप्नोति शृणु तान्य् अपि ॥ ३६ ॥

श्लथग्रीवाङ्घ्रिहस्तो ऽथ प्राप्तो वेपथुना नरः ।
मुहुर् ग्लानिपरश् चासौ मुहुर् ज्ञानबलान्वितः ॥ ३७ ॥

हिरण्यधान्यतनयभार्याभृत्यगृहादिषु ।
एते कथं भविष्यन्तीत्य् अतीव ममताकुलः ॥ ३८ ॥

मर्मविद्भिर् महारोगैः क्रकचैर् इव दारुणैः ।
शरैर् इवान्तकस्योग्रैश् छिद्यमानास्थिबन्धनः ॥ ३९ ॥

परिवर्तमानताराक्षि हस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते ॥ ४० ॥

निरुद्धकण्ठदेशो ऽपि उदानश्वासपीडितः ।
तापेन महता व्याप्तस् तृषा व्याप्तस् तथा क्षुधा ॥ ४१ ॥

क्लेशाद् उत्क्रान्तिम् आप्नोति याम्यकिङ्करपीडितः ।
ततश् च यातनादेहं क्लेशेन प्रतिपद्यते ॥ ४२ ॥

एतान्य् अन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
शृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर् मृतैः ॥ ४३ ॥

याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् ।
यमस्य दर्शनं चोग्रम् उग्रमार्गविलोकनम् ॥ ४४ ॥

करम्भवालुकावह्नियन्त्रशस्त्रादिभीषणे ।
प्रत्येकं यातनायाश् च यातनादि द्विजोत्तमाः ॥ ४५ ॥

क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् ।
कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम् ॥ ४६ ॥

शूलेष्व् आरोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।
गृध्रैः सम्भक्ष्यमाणानां द्वीपिभिश् चोपभुज्यताम् ॥ ४७ ॥

क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
उच्चान् निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ४८ ॥

नरके यानि दुःखानि पापहेतूद्भवानि वै ।
प्राप्यन्ते नारकैर् विप्रास् तेषां सङ्ख्या न विद्यते ॥ ४९ ॥

न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः ।
स्वर्गे ऽपि पातभीतस्य क्षयिष्णोर् नास्ति निर्वृतिः ॥ ५० ॥

पुनश् च गर्भो भवति जायते च पुनर् नरः ।
गर्भे विलीयते भूयो जायमानो ऽस्तम् एति च ॥ ५१ ॥

जातमात्रश् च म्रियते बालभावे च यौवने ।
यद् यत् प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ ५२ ॥

तद् एव दुःखवृक्षस्य बीजत्वम् उपगच्छति ।
कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः ॥ ५३ ॥

क्रियते न तथा भूरि सुखं पुंसां यथासुखम् ।
इति संसारदुःखार्कतापतापितचेतसाम् ॥ ५४ ॥

विमुक्तिपादपच्छायाम् ऋते कुत्र सुखं नृणाम् ।
तद् अस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ ५५ ॥

गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ।
निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ ५६ ॥

भेषजं भगवत्प्राप्तिर् एका चात्यन्तिकी मता ।
तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः ॥ ५७ ॥

तत्प्राप्तिहेतुर् ज्ञानं च कर्म चोक्तं द्विजोत्तमाः ।
आगमोत्थं विवेकाच् च द्विधा ज्ञानं तथोच्यते ॥ ५८ ॥

शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ।
अन्धं तम इवाज्ञानं दीपवच् चेन्द्रियोद्भवम् ॥ ५९ ॥

यथा सूर्यस् तथा ज्ञानं यद् वै विप्रा विवेकजम् ।
मनुर् अप्य् आह वेदार्थं स्मृत्वा यन् मुनिसत्तमाः ॥ ६० ॥

तद् एतच् छ्रूयताम् अत्र सम्बन्धे गदतो मम ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ ६१ ॥

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।
द्वे विद्ये वै वेदितव्ये इति चाथर्वणी श्रुतिः ॥ ६२ ॥

परया ह्य् अक्षरप्राप्तिर् ऋग्वेदादिमयापरा ।
यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अव्ययम् ॥ ६३ ॥

अनिर्देश्यम् अरूपं च पाणिपादाद्यसंयुतम् ।
वित्तं सर्वगतं नित्यं भूतयोनिम् अकारणम् ॥ ६४ ॥

व्याप्यं व्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः ।
तद् ब्रह्म परमं धाम तद् धेयं मोक्षकाङ्क्षिभिः ॥ ६५ ॥

श्रुतिवाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् ।
उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् ॥ ६६ ॥

वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्य् अशेषतः ॥ ६७ ॥

भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः ।
सर्वाणि तत्र भूतानि निवसन्ति परात्मनि ॥ ६८ ॥

भूतेषु च स सर्वात्मा वासुदेवस् ततः स्मृतः ।
उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ ६९ ॥

नामव्याख्याम् अनन्तस्य वासुदेवस्य तत्त्वतः ।
भूतेषु वसते यो ऽन्तर् वसन्त्य् अत्र च तानि यत् ।
धाता विधाता जगतां वासुदेवस् ततः प्रभुः ॥ ७० ॥

स सर्वभूतप्रकृतिर् गुणांश् च ।
दोषांश् च सर्वान् सगुणो ह्य् अतीतः ।
अतीतसर्वावरणो ऽखिलात्मा ।
तेनावृतं यद् भुवनान्तरालम् ॥ ७१ ॥

समस्तकल्याणगुणात्मको हि ।
स्वशक्तिलेशादृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः ।
संसाधिताशेषजगद्धितो ऽसौ ॥ ७२ ॥

तेजोबलैश्वर्यमहावरोधः ।
स्ववीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र ।
क्लेशादयः सन्ति परापरेशे ॥ ७३ ॥

स ईश्वरो व्यष्टिसमष्टिरूपो ।
ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्वेश्वरः सर्वदृक् सर्ववेत्ता ।
समस्तशक्तिः परमेश्वराख्यः ॥ ७४ ॥

सञ्ज्ञायते येन तद् अस्तदोषं ।
शुद्धं परं निर्मलम् एकरूपम् ।
सन्दृश्यते वाप्य् अथ गम्यते वा ।
तज् ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ॥ ७५ ॥