233

Summary (SA)

Chapter 233- Description of occasional dissolution (cont.)

{{Ref- SS 377-379}}

व्यास उवाच-

सप्तर्षिस्थानम् आक्रम्य स्थिते ऽम्भसि द्विजोत्तमाः ।
एकार्णवं भवत्य् एतत् त्रैलोक्यम् अखिलं ततः ॥ १ ॥

अथ निःश्वासजो विष्णोर् वायुस् ताञ् जलदांस् ततः ।
नाशं नयति भो विप्रा वर्षाणाम् अधिकं शतम् ॥ २ ॥

सर्वभूतमयो ऽचिन्त्यो भगवान् भूतभावनः ।
अनादिर् आदिर् विश्वस्य पीत्वा वायुम् अशेषतः ॥ ३ ॥

एकार्णवे ततस् तस्मिञ् शेषशय्यास्थितः प्रभुः ।
ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः ॥ ४ ॥

जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः ।
ब्रह्मलोकगतैश् चैव चिन्त्यमानो मुमुक्षुभिः ॥ ५ ॥

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ॥ ६ ॥

एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसञ्चरः ।
निमित्तं तत्र यच् छेते ब्रह्मरूपधरो हरिः ॥ ७ ॥

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।
निमीलत्य् एतद् अखिलं मायाशय्याशये ऽच्युते ॥ ८ ॥

पद्मयोनेर् दिनं यत् तु चतुर्युगसहस्रवत् ।
एकार्णवकृते लोके तावती रात्रिर् उच्यते ॥ ९ ॥

ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्य् अजः ।
ब्रह्मस्वरूपधृग् विष्णुर् यथा वः कथितं पुरा ॥ १० ॥

इत्य् एष कल्पसंहारो अन्तरप्रलयो द्विजाः ।
नैमित्तिको वः कथितः शृणुध्वं प्राकृतं परम् ॥ ११ ॥

अवृष्ट्यग्न्यादिभिः सम्यक् कृते शय्यालये द्विजाः ।
समस्तेष्व् एव लोकेषु पातालेष्व् अखिलेषु च ॥ १२ ॥

महदादेर् विकारस्य विशेषात् तत्र सङ्क्षये ।
कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसञ्चरे ॥ १३ ॥

आपो ग्रसन्ति वै पूर्वं भूमेर् गन्धादिकं गुणम् ।
आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥ १४ ॥

प्रनष्टे गन्धतन्मात्रे भवत्य् उर्वी जलात्मिका ।
आपस् तदा प्रवृत्तास् तु वेगवत्यो महास्वनाः ॥ १५ ॥

सर्वम् आपूरयन्तीदं तिष्ठन्ति विचरन्ति च ।
सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥ १६ ॥

अपाम् अपि गुणो यस् तु ज्योतिषा पीयते तु सः ।
नश्यन्त्य् आपः सुतप्ताश् च रसतन्मात्रसङ्क्षयात् ॥ १७ ॥

ततश् चापो ऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै ।
अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ १८ ॥

स चाग्निः सर्वतो व्याप्य आदत्ते तज् जलं तदा ।
सर्वम् आपूर्यतो चाभिस् तदा जगद् इदं शनैः ॥ १९ ॥

अर्चिभिः सन्तते तस्मिंस् तिर्यग् ऊर्ध्वम् अधस् तथा ।
ज्योतिषो ऽपि परं रूपं वायुर् अत्ति प्रभाकरम् ॥ २० ॥

प्रलीने च ततस् तस्मिन् वायुभूते ऽखिलात्मके ।
प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥ २१ ॥

प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान् ।
निरालोके तदा लोके वायुसंस्थे च तेजसि ॥ २२ ॥

ततः प्रलयम् आसाद्य वायुसम्भवम् आत्मनः ।
ऊर्ध्वं च वायुस् तिर्यक् च दोधवीति दिशो दश ॥ २३ ॥

वायोस् त्व् अपि गुणं स्पर्शम् आकाशं ग्रसते ततः ।
प्रशाम्यति तदा वायुः खं तु तिष्ठत्य् अनावृतम् ॥ २४ ॥

अरूपम् अरसस्पर्शम् अगन्धवद् अमूर्तिमत् ।
सर्वम् आपूरयच् चैव सुमहत् तत् प्रकाशते ॥ २५ ॥

परिमण्डलतस् तत् तु आकाशं शब्दलक्षणम् ।
शब्दमात्रं तथाकाशं सर्वम् आवृत्य तिष्ठति ॥ २६ ॥

ततः शब्दगुणं तस्य भूतादिर् ग्रसते पुनः ।
भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै ॥ २७ ॥

अभिमानात्मको ह्य् एष भूतादिस् तामसः स्मृतः ।
भूतादिं ग्रसते चापि महाबुद्धिर् विचक्षणा ॥ २८ ॥

उर्वी महांश् च जगतः प्रान्ते ऽन्तर् बाह्यतस् तथा ।
एवं सप्त महाबुद्धिः क्रमात् प्रकृतयस् तथा ॥ २९ ॥

प्रत्याहारैस् तु ताः सर्वाः प्रविशन्ति परस्परम् ।
येनेदम् आवृतं सर्वम् अण्डम् अप्सु प्रलीयते ॥ ३० ॥

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।
उदकावरणं ह्य् अत्र ज्योतिषा पीयते तु तत् ॥ ३१ ॥

ज्योतिर् वायौ लयं याति यात्य् आकाशे समीरणः ।
आकाशं चैव भूतादिर् ग्रसते तं तथा महान् ॥ ३२ ॥

महान्तम् एभिः सहितं प्रकृतिर् ग्रसते द्विजाः ।
गुणसाम्यम् अनुद्रिक्तम् अन्यूनं च द्विजोत्तमाः ॥ ३३ ॥

प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम् ।
इत्य् एषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥ ३४ ॥

व्यक्तस्वरूपम् अव्यक्ते तस्यां विप्राः प्रलीयते ।
एकः शुद्धो ऽक्षरो नित्यः सर्वव्यापी तथा पुनः ॥ ३५ ॥

सो ऽप्य् अंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः ।
नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः ॥ ३६ ॥

सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्य् आत्मनः परे ।
स ब्रह्म तत् परं धाम परमात्मा परेश्वरः ॥ ३७ ॥

स विष्णुः सर्वम् एवेदं यतो नावर्तते पुनः ।
प्रकृतिर् या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ॥ ३८ ॥

पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि ।
परमात्मा च सर्वेषाम् आधारः परमेश्वरः ॥ ३९ ॥

विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ ४० ॥

ताभ्याम् उभाभ्यां पुरुषैर् यज्ञमूर्तिः स इज्यते ।
ऋग्यजुःसामभिर् मार्गैः प्रवृत्तैर् इज्यते ह्य् असौ ॥ ४१ ॥

यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ।
ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते ॥ ४२ ॥

निवृत्तैर् योगमार्गैश् च विष्णुर् मुक्तिफलप्रदः ।
ह्रस्वदीर्घप्लुतैर् यत् तु किञ्चिद् वस्त्व् अभिधीयते ॥ ४३ ॥

यच् च वाचाम् अविषयस् तत् सर्वं विष्णुर् अव्ययः ।
व्यक्तः स एवम् अव्यक्तः स एव पुरुषो ऽव्ययः ॥ ४४ ॥

परमात्मा च विश्वात्मा विश्वरूपधरो हरिः ।
व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते ॥ ४५ ॥

पुरुषश् चापि भो विप्रा यस् तद् अव्याकृतात्मनि ।
द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः ॥ ४६ ॥

तद् अहस् तस्य विप्रेन्द्रा विष्णोर् ईशस्य कथ्यते ।
व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ॥ ४७ ॥

तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः ।
नैवाहस् तस्य च निशा नित्यस्य परमात्मनः ॥ ४८ ॥

उपचारात् तथाप्य् एतत् तस्येशस्य तु कथ्यते ।
इत्य् एष मुनिशार्दूलाः कथितः प्राकृतो लयः ॥ ४९ ॥