Summary (SA)
Chapter 232- On the dissolution of things
{{Ref- SS 376-377}}
व्यास उवाच-
सर्वेषाम् एव भूतानां त्रिविधः प्रतिसञ्चरः ।
नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको मतः ॥ १ ॥
ब्राह्मो नैमित्तिकस् तेषां कल्पान्ते प्रतिसञ्चरः ।
आत्यन्तिको वै मोक्षश् च प्राकृतो द्विपरार्धिकः ॥ २ ॥
मुनय ऊचुः-
परार्धसङ्ख्यां भगवंस् त्वम् आचक्ष्व यथोदिताम् ।
द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसञ्चरः ॥ ३ ॥
व्यास उवाच-
स्थानात् स्थानं दशगुणम् एकैकं गण्यते द्विजाः ।
ततो ऽष्टादशमे भागे परार्धम् अभिधीयते ॥ ४ ॥
परार्धं द्विगुणं यत् तु प्राकृतः स लयो द्विजाः ।
तदाव्यक्ते ऽखिलं व्यक्तं सहेतौ लयम् एति वै ॥ ५ ॥
निमेषो मानुषो यो ऽयं मात्रामात्रप्रमाणतः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास् तथा कला ॥ ६ ॥
नाडिका तु प्रमाणेन कला च दश पञ्च च ।
उन्मानेनाम्भसः सा तु पलान्य् अर्धत्रयोदश ॥ ७ ॥
हेममाषैः कृतच्छिद्रा चतुर्भिश् चतुरङ्गुलैः ।
मागधेन प्रमाणेन जलप्रस्थस् तु स स्मृतः ॥ ८ ॥
नाडिकाभ्याम् अथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः ।
अहोरात्रं मुहूर्तास् तु त्रिंशन् मासो दिनैस् तथा ॥ ९ ॥
मासैर् द्वादशभिर् वर्षम् अहोरात्रं तु तद् दिवि ।
त्रिभिर् वर्षशतैर् वर्षं षष्ट्या चैवासुरद्विषाम् ॥ १० ॥
तैस् तु द्वादशसाहस्रैश् चतुर्युगम् उदाहृतम् ।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ ११ ॥
स कल्पस् तत्र मनवश् चतुर्दश द्विजोत्तमाः ।
तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥ १२ ॥
तस्य स्वरूपम् अत्युग्रं द्विजेन्द्रा गदतो मम ।
शृणुध्वं प्राकृतं भूयस् ततो वक्ष्याम्य् अहं लयम् ॥ १३ ॥
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
अनावृष्टिर् अतीवोग्रा जायते शतवार्षिकी ॥ १४ ॥
ततो यान्य् अल्पसाराणि तानि सत्त्वान्य् अनेकशः ।
क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्य् अतिपीडनात् ॥ १५ ॥
ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः ।
क्षयाय यतते कर्तुम् आत्मस्थाः सकलाः प्रजाः ॥ १६ ॥
ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु ।
स्थितः पिबत्य् अशेषाणि जलानि मुनिसत्तमाः ॥ १७ ॥
पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै ।
शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥ १८ ॥
समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च ।
पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम् ॥ १९ ॥
ततस् तस्याप्य् अभावेन तोयाहारोपबृंहिताः ।
सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥ २० ॥
अधश् चोर्ध्वं च ते दीप्तास् ततः सप्त दिवाकराः ।
दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥ २१ ॥
दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं दीप्तभास्करैः ।
साद्रिनगार्णवाभोगं निःस्नेहम् अभिजायते ॥ २२ ॥
ततो निर्दग्धवृक्षाम्बु त्रैलोक्यम् अखिलं द्विजाः ।
भवत्य् एषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३ ॥
ततः कालाग्निरुद्रो ऽसौ भूतसर्गहरो हरः ।
शेषाहिश्वाससन्तापात् पातालानि दहत्य् अधः ॥ २४ ॥
पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।
भूमिम् अभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥ २५ ॥
भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः ।
ज्वालामालामहावर्तस् तत्रैव परिवर्तते ॥ २६ ॥
अम्बरीषम् इवाभाति त्रैलोक्यम् अखिलं तदा ।
ज्वालावर्तपरीवारम् उपक्षीणबलास् ततः ॥ २७ ॥
ततस् तापपरीतास् तु लोकद्वयनिवासिनः ।
हृतावकाशा गच्छन्ति महर्लोकं द्विजास् तदा ॥ २८ ॥
तस्माद् अपि महातापतप्ता लोकास् ततः परम् ।
गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥ २९ ॥
ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः ।
मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः ॥ ३० ॥
ततो गजकुलप्रख्यास् तडिद्वन्तो निनादिनः ।
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ ३१ ॥
केचिद् अञ्जनसङ्काशाः केचित् कुमुदसन्निभाः ।
धूमवर्णा घनाः केचित् केचित् पीताः पयोधराः ॥ ३२ ॥
केचिद् धरिद्रावर्णाभा लाक्षारसनिभास् तथा ।
केचिद् वैदूर्यसङ्काशा इन्द्रनीलनिभास् तथा ॥ ३३ ॥
शङ्खकुन्दनिभाश् चान्ये जातीकुन्दनिभास् तथा ।
इन्द्रगोपनिभाः केचिन् मनःशिलानिभास् तथा ॥ ३४ ॥
पद्मपत्त्रनिभाः केचिद् उत्तिष्ठन्ति घनाघनाः ।
केचित् पुरवराकाराः केचित् पर्वतसन्निभाः ॥ ३५ ॥
कूटागारनिभाश् चान्ये केचित् स्थलनिभा घनाः ।
महाकाया महारावा पूरयन्ति नभस्तलम् ॥ ३६ ॥
वर्षन्तस् ते महासारास् तम् अग्निम् अतिभैरवम् ।
शमयन्त्य् अखिलं विप्रास् त्रैलोक्यान्तरविस्तृतम् ॥ ३७ ॥
नष्टे चाग्नौ शतं ते ऽपि वर्षाणाम् अधिकं घनाः ।
प्लावयन्तो जगत् सर्वं वर्षन्ति मुनिसत्तमाः ॥ ३८ ॥
धाराभिर् अक्षमात्राभिः प्लावयित्वाखिलां भुवम् ।
भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः ॥ ३९ ॥
अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे ।
वर्षन्ति ते महामेघा वर्षाणाम् अधिकं शतम् ॥ ४० ॥