231

Summary (SA)

Chapter 231- The end of a cycle of Yugas and the return of Kṛta-Yuga

{{Ref- SS 374-376}}

मुनय ऊचुः-

आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।
ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥ १ ॥

प्राप्ता वयं हि तत् कालम् अनया धर्मतृष्णया ।
आदद्याम परं धर्मं सुखम् अल्पेन कर्मणा ॥ २ ॥

सन्त्रासोद्वेगजननं युगान्तं समुपस्थितम् ।
प्रनष्टधर्मं धर्मज्ञ निमित्तैर् वक्तुम् अर्हसि ॥ ३ ॥

व्यास उवाच-

अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥ ४ ॥

अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः ।
शूद्राश् च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥ ५ ॥

श्रोत्रियाः काण्डपृष्ठाश् च निष्कर्माणि हवींषि च ।
एकपङ्क्त्याम् अशिष्यन्ति युगान्ते मुनिसत्तमाः ॥ ६ ॥

अशिष्टवन्तो ऽर्थपरा नरा मद्यामिषप्रियाः ।
मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥ ७ ॥

राजवृत्तिस्थिताश् चौरा राजानश् चौरशीलिनः ।
भृत्या ह्य् अनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥ ८ ॥

धनानि श्लाघनीयानि सतां वृत्तम् अपूजितम् ।
अकुत्सना च पतिते भविष्यति युगक्षये ॥ ९ ॥

प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः ।
ऊनषोडशवर्षाश् च प्रसोष्यन्ति तथा स्त्रियः ॥ १० ॥

अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः ।
प्रमदाः केशशूलाश् च भविष्यन्ति युगक्षये ॥ ११ ॥

सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः ।
शूद्राभा वादिनश् चैव ब्राह्मणाश् चान्त्यवासिनः ॥ १२ ॥

शुक्लदन्ता जिताक्षाश् च मुण्डाः काषायवाससः ।
शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥ १३ ॥

श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।
साधूनां परिवृत्तिश् च विद्याद् अन्तगते युगे ॥ १४ ॥

अन्त्या मध्ये निवत्स्यन्ति मध्याश् चान्तनिवासिनः ।
निर्ह्रीकाश् च प्रजाः सर्वा नष्टास् तत्र युगक्षये ॥ १५ ॥

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।
ऋतवो विपरीताश् च भविष्यन्ति युगक्षये ॥ १६ ॥

तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः ।
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥ १७ ॥

सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि ।
यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥ १८ ॥

पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः ।
न च धर्मं चरिष्यन्ति मानवा निर्गते युगे ॥ १९ ॥

ऊषरा बहुला भूमिः पन्थानस् तस्करावृताः ।
सर्वे वाणिकाश् चैव भविष्यन्ति युगक्षये ॥ २० ॥

पितृदायाददत्तानि विभजन्ति तथा सुताः ।
हरणे यत्नवन्तो ऽपि लोभादिभिर् विरोधिनः ॥ २१ ॥

सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।
भविष्यन्ति युगस्यान्ते नार्यः केशैर् अलङ्कृताः ॥ २२ ॥

निर्वीर्यस्य रतिस् तत्र गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥ २३ ॥

कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः ।
पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥ २४ ॥

बहुयाचनको लोको न दास्यति परस्परम् ।
राजचौराग्निदण्डादिक्षीणः क्षयम् उपैष्यति ॥ २५ ॥

अफलानि च सस्यानि तरुणा वृद्धशीलिनः ।
अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥ २६ ॥

वर्षासु परुषा वाता नीचाः शर्करवर्षिणः ।
सन्दिग्धः परलोकश् च भविष्यति युगक्षये ॥ २७ ॥

वैश्या इव च राजन्या धनधान्योपजीविनः ।
युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥ २८ ॥

अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास् तथा ।
ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥ २९ ॥

भविष्यत्य् अफलो हर्षः क्रोधश् च सफलो नृणाम् ।
अजाश् चापि निरोत्स्यन्ति पयसो ऽर्थे युगक्षये ॥ ३० ॥

अशास्त्रविहितो यज्ञ एवम् एव भविष्यति ।
अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः ॥ ३१ ॥

शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः ।
सर्वः सर्वं विजानाति वृद्धान् अनुपसेव्य वै ॥ ३२ ॥

न कश्चिद् अकविर् नाम युगान्ते समुपस्थिते ।
नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः ॥ ३३ ॥

चौरप्रायाश् च राजानो युगान्ते समुपस्थिते ।
कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ॥ ३४ ॥

अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः ।
याजयिष्यन्त्य् अयाज्यांस् तु तथाभक्ष्यस्य भक्षिणः ॥ ३५ ॥

ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ।
भोःशब्दम् अभिधास्यन्ति न च कश्चित् पठिष्यति ॥ ३६ ॥

एकशङ्खास् तथा नार्यो गवेधुकपिनद्धकाः ।
नक्षत्राणि विवर्णानि विपरिता दिशो दश ॥ ३७ ॥

सन्ध्यारागो विदग्धाङ्गो भविष्यति युगक्षये ।
प्रेषयन्ति पितॄन् पुत्रा वधूः श्वश्रूः स्वकर्मसु ॥ ३८ ॥

युगेष्व् एवं निवत्स्यन्ति प्रमदाश् च नरास् तथा ।
अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश् चैवाहुताग्नयः ॥ ३९ ॥

भिक्षां बलिम् अदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् ।
वञ्चयित्वा पतीन् सुप्तान् गमिष्यन्ति स्त्रियो ऽन्यतः ॥ ४० ॥

न व्याधितान् नाप्य् अरूपान् नोद्यतान् नाप्य् असूयकान् ।
कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति ॥ ४१ ॥

मुनय ऊचुः-

एवं विलम्बिते धर्मे मानुषाः करपीडिताः ।
कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः ॥ ४२ ॥

किङ्कर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः ।
कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥ ४३ ॥

व्यास उवाच-

अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास् तथा ।
शीलव्यसनम् आसाद्य प्राप्स्यन्ति ह्रासम् आयुषः ॥ ४४ ॥

आयुर्हान्या बलग्नानिर् बलग्नान्या विवर्णता ।
वैवर्ण्याद् व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥ ४५ ॥

निर्वेदाद् आत्मसम्बोधः सम्बोधाद् धर्मशीलता ।
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥ ४६ ॥

उद्देशतो धर्मशीलाः केचिन् मध्यस्थतां गताः ।
किन्धर्मशीलाः केचित् तु केचिद् अत्र कुतूहलाः ॥ ४७ ॥

प्रत्यक्षम् अनुमानं च प्रमाणम् इति निश्चिताः ।
अप्रमाणं करिष्यन्ति सर्वम् इत्य् अपरे जनाः ॥ ४८ ॥

नास्तिक्यपरताश् चापि केचिद् धर्मविलोपकाः ।
भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः ॥ ४९ ॥

तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः ।
दाम्भिकास् ते भविष्यन्ति नरा ज्ञानविलोपिताः ॥ ५० ॥

तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः ।
शुभान् समाचरिष्यन्ति दानशीलपरायणाः ॥ ५१ ॥

सर्वभक्षाः स्वयङ्गुप्ता निर्घृणा निरपत्रपाः ।
भविष्यन्ति तदा लोके तत् कषायस्य लक्षणम् ॥ ५२ ॥

कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने ।
सिद्धिम् अल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः ॥ ५३ ॥

विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः ।
संश्रयिष्यन्ति भो विप्रास् तत् कषायस्य लक्षणम् ॥ ५४ ॥

महायुद्धं महावर्षं महावातं महातपः ।
भविष्यति युगे क्षीणे तत् कषायस्य लक्षणम् ॥ ५५ ॥

विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः ।
पृथिवीम् उपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥ ५६ ॥

निःस्वाध्यायवषट्काराः कुनेतारो ऽभिमानिनः ।
क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः ॥ ५७ ॥

मूर्खाश् चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः ।
व्यवहारोपवृत्ताश् च च्युता धर्माश् च शाश्वतात् ॥ ५८ ॥

हर्तारः पररत्नानां परदारप्रधर्षकाः ।
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥ ५९ ॥

तेषु प्रभवमाणेषु जनेष्व् अपि च सर्वशः ।
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥ ६० ॥

कलौ युगे समुत्पन्नाः प्रधानपुरुषाश् च ये ।
कथायोगेन तान् सर्वान् पूजयिष्यन्ति मानवाः ॥ ६१ ॥

सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।
भोक्ष्यभोज्यहराश् चैव करण्डानां च हारिणः ॥ ६२ ॥

चौराश् चौरस्य हर्तारो हन्ता हन्तुर् भविष्यति ।
चौरैश् चौरक्षये चापि कृते क्षेमं भविष्यति ॥ ६३ ॥

निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते ।
नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः ॥ ६४ ॥

यज्ञकर्मण्य् उपरते रक्षांसि श्वापदानि च ।
कीटमूषिकसर्पाश् च धर्षयिष्यन्ति मानवान् ॥ ६५ ॥

क्षेमं सुभिक्षम् आरोग्यं सामग्र्यं चैव बन्धुषु ।
उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये ॥ ६६ ॥

स्वयम्पालाः स्वयं चौराः प्लवसम्भारसम्भृताः ।
मण्डलैः सम्भविष्यन्ति देशे देशे पृथक् पृथक् ॥ ६७ ॥

स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।
नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥ ६८ ॥

ततः सर्वे समादाय कुमारान् प्रद्रुता भयात् ।
कौशिकीं सन्तरिष्यन्ति नराः क्षुद्भयपीडिताः ॥ ६९ ॥

अङ्गान् वङ्गान् कलिङ्गांश् च काश्मीरान् अथ कोशलान् ।
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥ ७० ॥

कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः ।
विविधं जीर्णपत्त्रं च वल्कलान्य् अजिनानि च ॥ ७१ ॥

स्वयं कृत्वा निवत्स्यन्ति तस्मिन् भूते युगक्षये ।
अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥ ७२ ॥

नैव शून्या नवारण्या भविष्यति वसुन्धरा ।
अगोप्तारश् च गोप्तारो भविष्यन्ति नराधिपाः ॥ ७३ ॥

मृगैर् मत्स्यैर् विहङ्गैश् च श्वापदैः सर्पकीटकैः ।
मधुशाकफलैर् मूलैर् वर्तयिष्यन्ति मानवाः ॥ ७४ ॥

शीर्णपर्णफलाहारा वल्कलान्य् अजिनानि च ।
स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस् तथा ॥ ७५ ॥

बीजानाम् अकृतस्नेहा आहताः काष्ठशङ्कुभिः ।
अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः ॥ ७६ ॥

नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलम् आश्रिताः ।
पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥ ७७ ॥

तनूरुहैर् यथाजातैः समलान्तरसम्भृतैः ।
बह्वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः ॥ ७८ ॥

एवं भविष्यन्ति तदा नराश् चाधर्मजीविनः ।
हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति ॥ ७९ ॥

आयुस् तत्र च मर्त्यानां परं त्रिंशद् भविष्यति ।
दुर्बला विषयग्लाना जराशोकैर् अभिप्लुताः ॥ ८० ॥

भविष्यन्ति तदा तेषां रोगैर् इन्द्रियसङ्क्षयः ।
आयुःप्रत्ययसंरोधाद् विषयाद् उपरंस्यते ॥ ८१ ॥

शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः ।
सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसङ्क्षयात् ॥ ८२ ॥

भविष्यन्ति च कामानाम् अलाभाद् धर्मशीलिनः ।
करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः ॥ ८३ ॥

एवं शुश्रूषवो दाने सत्ये प्राण्यभिरक्षणे ।
ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते ॥ ८४ ॥

तेषां लब्धानुमानानां गुणेषु परिवर्तताम् ।
स्वादु किं त्व् इति विज्ञाय धर्म एव च दृश्यते ॥ ८५ ॥

यथा हानिक्रमं प्राप्तास् तथा ऋद्धिक्रमं गताः ।
प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम् ॥ ८६ ॥

साधुवृत्तिः कृतयुगे कषाये हानिर् उच्यते ।
एक एव तु कालो ऽयं हीनवर्णो यथा शशी ॥ ८७ ॥

छन्नश् च तमसा सोमो यथा कलियुगं तथा ।
मुक्तश् च तमसा सोम एवं कृतयुगं च तत् ॥ ८८ ॥

अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः ।
अविविक्तम् अविज्ञातं दायाद्यम् इह धार्यते ॥ ८९ ॥

इष्टवादस् तपो नाम तपो हि स्थविरीकृतः ।
गुणैः कर्माभिनिर्वृत्तिर् गुणाः शुध्यन्ति कर्मणा ॥ ९० ॥

आशीस् तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी ।
युगे युगे यथाकालम् ऋषिभिः समुदाहृता ॥ ९१ ॥

धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया ।
आशिषश् च शिवाः पुण्यास् तथैवायुर् युगे युगे ॥ ९२ ॥

तथा युगानां परिवर्तनानि ।
चिरप्रवृत्तानि विधिस्वभावात् ।
क्षणं न सन्तिष्ठति जीवलोकः ।
क्षयोदयाभ्यां परिवर्तमानः ॥ ९३ ॥