Summary (SA)
Chapter 230- On the conditions during Kali-Yuga
{{Ref- SS 371-374}}
मुनय ऊचुः-
अस्माभिस् तु श्रुतं व्यास यत् त्वया समुदाहृतम् ।
प्रादुर्भावाश्रितं पुण्यं माया विष्णोश् च दुर्विदा ॥ १ ॥
श्रोतुम् इच्छामहे त्वत्तो यथावद् उपसंहृतिम् ।
महाप्रलयसञ्ज्ञां च कल्पान्ते च महामुने ॥ २ ॥
व्यास उवाच-
श्रूयतां भो मुनिश्रेष्ठा यथावद् अनुसंहृतिः ।
कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥ ३ ॥
अहोरात्रं पितॄणां तु मासो ऽब्दं त्रिदिवौकसाम् ।
चतुर्युगसहस्रे तु ब्रह्मणो ऽहर् द्विजोत्तमाः ॥ ४ ॥
कृतं त्रेता द्वापरं च कलिश् चेति चतुर्युगम् ।
दैवैर् वर्षसहस्रैस् तु तद् द्वादशाभिर् उच्यते ॥ ५ ॥
चतुर्युगाण्य् अशेषाणि सदृशानि स्वरूपतः ।
आद्यं कृतयुगं प्रोक्तं मुनयो ऽन्त्यं तथा कलिम् ॥ ६ ॥
आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः ।
क्रियते चोपसंहारस् तथान्ते ऽपि कलौ युगे ॥ ७ ॥
मुनय ऊचुः-
कलेः स्वरूपं भगवन् विस्तराद् वक्तुम् अर्हसि ।
धर्मश् चतुष्पाद् भगवान् यस्मिन् वैकल्यम् ऋच्छति ॥ ८ ॥
व्यास उवाच-
कलिस्वरूपं भो विप्रा यत् पृच्छध्वं ममानघाः ।
निबोधध्वं समासेन वर्तते यन् महत्तरम् ॥ ९ ॥
वर्णाश्रमाचारवती प्रवृत्तिर् न कलौ नृणाम् ।
न साम+ऋग्यजुर्वेदविनिष्पादनहैतुकी ॥ १० ॥
विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः ।
न पुत्रा धार्मिकाश् चैव न च वह्निक्रियाक्रमः ॥ ११ ॥
यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ ।
सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः ॥ १२ ॥
येन तेनैव योगेन द्विजातिर् दीक्षितः कलौ ।
यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥ १३ ॥
सर्वम् एव कलौ शास्त्रं यस्य यद् वचनं द्विजाः ।
देवताश् च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥ १४ ॥
उपवासस् तथायासो वित्तोत्सर्गस् तथा कलौ ।
धर्मो यथाभिरुचितैर् अनुष्ठानैर् अनुष्ठितः ॥ १५ ॥
वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ ।
स्त्रीणां रूपमदश् चैव केशैर् एव भविष्यति ॥ १६ ॥
सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते ।
कलौ स्त्रियो भविष्यन्ति तदा केशैर् अलङ्कृताः ॥ १७ ॥
परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।
भर्ता भविष्यति कलौ वित्तवान् एव योषिताम् ॥ १८ ॥
यो यो ददाति बहुलं स स स्वामी तदा नृणाम् ।
स्वामित्वहेतुसम्बन्धो भविताभिजनस् तदा ॥ १९ ॥
गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः ।
अर्थाश् चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥ २० ॥
स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।
अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥ २१ ॥
अभ्यर्थितो ऽपि सुहृदा स्वार्थहानिं तु मानवः ।
पणस्यार्धार्धमात्रे ऽपि करिष्यति तदा द्विजाः ॥ २२ ॥
सदा सपौरुषं चेतो भावि विप्र तदा कलौ ।
क्षीरप्रदानसम्बन्धि भाति गोषु च गौरवम् ॥ २३ ॥
अनावृष्टिभयात् प्रायः प्रजाः क्षुद्भयकातराः ।
भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥ २४ ॥
मूलपर्णफलाहारास् तापसा इव मानवाः ।
आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः ॥ २५ ॥
दुर्भिक्षम् एव सततं सदा क्लेशम् अनीश्वराः ।
प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ ॥ २६ ॥
अस्नातभोजिनो नाग्निदेवतातिथिपूजनम् ।
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २७ ॥
लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः ।
बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः ॥ २८ ॥
उभाभ्याम् अथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।
कुर्वत्यो गुरुभर्तॄणाम् आज्ञां भेत्स्यन्त्य् अनावृताः ॥ २९ ॥
स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः ।
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ ३० ॥
दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् ।
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ३१ ॥
वेदादानं करिष्यन्ति वडवाश् च तथाव्रताः ।
गृहस्थाश् च न होष्यन्ति न दास्यन्त्य् उचितान्य् अपि ॥ ३२ ॥
भवेयुर् वनवासा वै ग्राम्याहारपरिग्रहाः ।
भिक्षवश् चापि पुत्रा हि स्नेहसम्बन्धयन्त्रकाः ॥ ३३ ॥
अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः ।
हारिणो जनवित्तानां सम्प्राप्ते च कलौ युगे ॥ ३४ ॥
यो यो ऽश्वरथनागाढ्यः स स राजा भविष्यति ।
यश् च यश् चाबलः सर्वः स स भृत्यः कलौ युगे ॥ ३५ ॥
वैश्याः कृषिवणिज्यादि सन्त्यज्य निजकर्म यत् ।
शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः ॥ ३६ ॥
भैक्ष्यव्रतास् तथा शूद्राः प्रव्रज्यालिङ्गिनो ऽधमाः ।
पाखण्डसंश्रयां वृत्तिम् आश्रयिष्यन्त्य् असंस्कृताः ॥ ३७ ॥
दुर्भिक्षकरपीडाभिर् अतीवोपद्रुता जनाः ।
गोधूमान्नयवान्नाद्यान् देशान् यास्यन्ति दुःखिताः ॥ ३८ ॥
वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने ।
अधर्मवृद्ध्या लोकानाम् अल्पम् आयुर् भविष्यति ॥ ३९ ॥
अशास्त्रविहितं घोरं तप्यमानेषु वै तपः ।
नरेषु नृपदोषेण बालमृत्युर् भविष्यति ॥ ४० ॥
भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी ।
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ ४१ ॥
पलितोद्गमश् च भविता तदा द्वादशवार्षिकः ।
न जीविष्यति वै कश्चित् कलौ वर्षाणि विंशतिम् ॥ ४२ ॥
अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ ।
यतस् ततो विनश्यन्ति कालेनाल्पेन मानवाः ॥ ४३ ॥
यदा यदा हि पाखण्डवृत्तिर् अत्रोपलक्ष्यते ।
तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः ॥ ४४ ॥
यदा यदा सतां हानिर् वेदमार्गानुसारिणाम् ।
तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः ॥ ४५ ॥
प्रारम्भाश् चावसीदन्ति यदा धर्मकृतां नृणाम् ।
तदानुमेयं प्राधान्यं कलेर् विप्रा विचक्षणैः ॥ ४६ ॥
यदा यदा न यज्ञानाम् ईश्वरः पुरुषोत्तमः ।
इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम् ॥ ४७ ॥
न प्रीतिर् वेदवादेषु पाखण्डेषु यदा रतिः ।
कलेर् वृद्धिस् तदा प्राज्ञैर् अनुमेया द्विजोत्तमाः ॥ ४८ ॥
कलौ जगत्पतिं विष्णुं सर्वस्रष्टारम् ईश्वरम् ।
नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः ॥ ४९ ॥
किं देवैः किं द्विजैर् वेदैः किं शौचेनाम्बुजल्पना ।
इत्य् एवं प्रलपिष्यन्ति पाखण्डोपहता नराः ॥ ५० ॥
अल्पवृष्टिश् च पर्जन्यः स्वल्पं सस्यफलं तथा ।
फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे ॥ ५१ ॥
जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।
शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे ॥ ५२ ॥
अणुप्रायाणि धान्यानि आजप्रायं तथा पयः ।
भविष्यति कलौ प्राप्त औशीरं चानुलेपनम् ॥ ५३ ॥
श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ ।
शालाद्याहारिभार्याश् च सुहृदो मुनिसत्तमाः ॥ ५४ ॥
कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् ।
इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ ५५ ॥
वाङ्मनःकायजैर् दोषैर् अभिभूताः पुनः पुनः ।
नराः पापान्य् अनुदिनं करिष्यन्त्य् अल्पमेधसः ॥ ५६ ॥
निःसत्यानाम् अशौचानां निर्ह्रीकाणां तथा द्विजाः ।
यद् यद् दुःखाय तत् सर्वं कलिकाले भविष्यति ॥ ५७ ॥
निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते ।
तदा प्रविरलो विप्रः कश्चिल् लोके भविष्यति ॥ ५८ ॥
तत्राल्पेनैव कालेन पुण्यस्कन्धम् अनुत्तमम् ।
करोति यः कृतयुगे क्रियते तपसा हि यः ॥ ५९ ॥
मुनय ऊचुः-
कस्मिन् काले ऽल्पको धर्मो ददाति सुमहाफलम् ।
वक्तुम् अर्हस्य् अशेषेण श्रोतुं वाञ्छा प्रवर्तते ॥ ६० ॥
व्यास उवाच-
धन्ये कलौ भवेद् विप्रास् त्व् अल्पक्लेशैर् महत् फलम् ।
तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन् निबोधत ॥ ६१ ॥
यत् कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत् ।
द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ ॥ ६२ ॥
तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजाः ।
प्राप्नोति पुरुषस् तेन कलौ साध्व् इति भाषितुम् ॥ ६३ ॥
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे ऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ ६४ ॥
धर्मोत्कर्षम् अतीवात्र प्राप्नोति पुरुषः कलौ ।
स्वल्पायासेन धर्मज्ञास् तेन तुष्टो ऽस्म्य् अहं कलौ ॥ ६५ ॥
व्रतचर्यापरैर् ग्राह्या वेदाः पूर्वं द्विजातिभिः ।
ततस् तु धर्मसम्प्राप्तैर् यष्टव्यं विधिवद् धनैः ॥ ६६ ॥
वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् ।
पतनाय तथा भाव्यं तैस् तु संयतिभिः सह ॥ ६७ ॥
असम्यक्करणे दोषास् तेषां सर्वेषु वस्तुषु ।
भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ ६८ ॥
पारतन्त्र्यात् समस्तेषु तेषां कार्येषु वै ततः ।
लोकान् क्लेशेन महता यजन्ति विनयान्विताः ॥ ६९ ॥
द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् ।
निजं जयति वै लोकं शूद्रो धन्यतरस् ततः ॥ ७० ॥
भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः ।
नियमो मुनिशार्दूलास् तेनासौ साध्व् इतीरितम् ॥ ७१ ॥
स्वधर्मस्याविरोधेन नरैर् लभ्यं धनं सदा ।
प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ ७२ ॥
तस्यार्जने महान् क्लेशः पालनेन द्विजोत्तमाः ।
तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥ ७३ ॥
एभिर् अन्यैस् तथा क्लेशैः पुरुषा द्विजसत्तमाः ।
निजाञ् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात् ॥ ७४ ॥
योषिच् छुश्रूषणाद् भर्तुः कर्मणा मनसा गिरा ।
एतद् विषयम् आप्नोति तत्सालोक्यं यतो द्विजाः ॥ ७५ ॥
नातिक्लेशेन महता तान् एव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्व् इति योषितः ॥ ७६ ॥
एतद् वः कथितं विप्रा यन्निमित्तम् इहागताः ।
तत् पृच्छध्वं यथाकामम् अहं वक्ष्यामि वः स्फुटम् ॥ ७७ ॥
अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ ।
नरैर् आत्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥ ७८ ॥
शूद्रैश् च द्विजशुश्रूषातत्परैर् मुनिसत्तमाः ।
तथा स्त्रीभिर् अनायासात् पतिशुश्रूषयैव हि ॥ ७९ ॥
ततस् त्रितयम् अप्य् एतन् मम धन्यतमं मतम् ।
धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु ॥ ८० ॥
तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः ॥ ८१ ॥
भवद्भिर् यद् अभिप्रेतं तद् एतत् कथितं मया ।
अपृष्टेनापि धर्मज्ञाः किम् अन्यत् क्रियतां द्विजाः ॥ ८२ ॥