229

Summary (SA)

Chapter 229- Episodes illustrating the manifestations of Viṣṇu’s Māyā

{{Ref- SS 369-371}}

मुनय ऊचुः-

श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे ।
कृष्णस्य येन चाण्डालो गतो ऽसौ परमां गतिम् ॥ १ ॥

यथा विष्णौ भवेद् भक्तिस् तन् नो ब्रूहि महामते ।
तपसा कर्मणा येन श्रोतुम् इच्छाम साम्प्रतम् ॥ २ ॥

व्यास उवाच-

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः ।
यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला ॥ ३ ॥

संसारे ऽस्मिन् महाघोरे सर्वभूतभयावहे ।
महामोहकरे नॄणां नानादुःखशताकुले ॥ ४ ॥

तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः ।
कथञ्चिल् लभते जन्म देही मानुष्यकं द्विजाः ॥ ५ ॥

मानुषत्वे ऽपि विप्रत्वं विप्रत्वे ऽपि विवेकिता ।
विवेकाद् धर्मबुद्धिस् तु बुद्ध्या तु श्रेयसां ग्रहः ॥ ६ ॥

यावत् पापक्षयं पुंसां न भवेज् जन्म सञ्चितम् ।
तावन् न जायते भक्तिर् वासुदेवे जगन्मये ॥ ७ ॥

तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् ।
अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥ ८ ॥

कर्मणा मनसा वाचा तद्गतेनान्तरात्मना ।
तेन तस्य भवेद् भक्तिर् यजने मुनिसत्तमाः ॥ ९ ॥

स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः ।
तुष्टे हुताशने तस्य भक्तिर् भवति भास्करे ॥ १० ॥

पूजां करोति सततम् आदित्यस्य ततो द्विजाः ।
प्रसन्ने भास्करे तस्य भक्तिर् भवति शङ्करे ॥ ११ ॥

पूजां करोति विधिवत् स तु शम्भोः प्रयत्नतः ।
तुष्टे त्रिलोचने तस्य भक्तिर् भवति केशवे ॥ १२ ॥

सम्पूज्य तं जगन्नाथं वासुदेवाख्यम् अव्ययम् ।
ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥ १३ ॥

मुनय ऊचुः-

अवैष्णवा नरा ये तु दृश्यन्ते च महामुने ।
किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥ १४ ॥

व्यास उवाच-

द्वौ भूतसर्गौ विख्यातौ लोके ऽस्मिन् मुनिसत्तमाः ।
आसुरश् च तथा दैवः पुरा सृष्टः स्वयम्भुवा ॥ १५ ॥

दैवीं प्रकृतिम् आसाद्य पूजयन्ति ततो ऽच्युतम् ।
आसुरीं योनिम् आपन्ना दूषयन्ति नरा हरिम् ॥ १६ ॥

मायया हतविज्ञाना विष्णोस् ते तु नराधमाः ।
अप्राप्य तं हरिं विप्रास् ततो यान्त्य् अधमां गतिम् ॥ १७ ॥

तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः ।
महामोहकरी नॄणां दुस्तरा चाकृतात्मभिः ॥ १८ ॥

मुनय ऊचुः-

इच्छामस् तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् ।
वक्तुम् अर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥ १९ ॥

व्यास उवाच-

स्वप्नेन्द्रजालसङ्काशा माया सा लोककर्षणी ।
कः शक्नोति हरेर् मायां ज्ञातुं तां केशवाद् ऋते ॥ २० ॥

या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च ।
विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम ॥ २१ ॥

प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः ।
नगरे कामदमनस् तस्याथ तनयः शुचिः ॥ २२ ॥

धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः ।
प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥ २३ ॥

पितास्य त्व् अकरोद् यत्नं विवाहाय न चैच्छत ।
तं पिता प्राह किम् इति नेच्छसे दारसङ्ग्रहम् ॥ २४ ॥

सर्वम् एतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल ।
सुखमूला हि दाराश् च तस्मात् तं त्वं समाचर ॥ २५ ॥

स पितुर् वचनं श्रुत्वा तूष्णीम् आस्ते च गौरवात् ।
मुहुर् मुहुस् तं च पिता चोदयाम् आस भो द्विजाः ॥ २६ ॥

अथासौ पितरं प्राह तात नामानुरूपता ।
मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥ २७ ॥

तं पिता प्राह सङ्गम्य नैष धर्मो ऽस्ति पुत्रक ।
न विधारयितव्या स्यात् पुरुषेण विपश्चिता ॥ २८ ॥

कुरु मद्वचनं पुत्र प्रभुर् अस्मि पिता तव ।
मा निमज्ज कुलं मह्यं नरके सन्ततिक्षयात् ॥ २९ ॥

स हि तं पितुर् आदेशं श्रुत्वा प्राह सुतो वशी ।
प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥ ३० ॥

पुत्र उवाच-

शृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् ।
नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव ॥ ३१ ॥

मया जन्मसहस्राणि जरामृत्युशतानि च ।
प्राप्तानि दारसंयोगवियोगानि च सर्वशः ॥ ३२ ॥

तृणगुल्मलतावल्लीसरीसृपमृगद्विजाः ।
पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया ॥ ३३ ॥

गणकिन्नरगन्धर्वविद्याधरमहोरगाः ।
यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः ॥ ३४ ॥

नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः ।
सृष्टस् तु बहुशः सृष्टौ संहारे चापि संहृतः ॥ ३५ ॥

दारसंयोगयुक्तस्य तातेदृङ् मे विडम्बना ।
इतस् तृतीये यद् वृत्तं मम जन्मनि तच् छृणु ।
कथयामि समासेन तीर्थमाहात्म्यसम्भवम् ॥ ३६ ॥

अतीत्य जन्मानि बहूनि तात ।
नृदेवगन्धर्वमहोरगाणाम् ।
विद्याधराणां खगकिन्नराणां ।
जातो हि वंशे सुतपा महर्षिः ॥ ३७ ॥

ततो महाभूद् अचला हि भक्तिर् ।
जनार्दने लोकपतौ मधुघ्ने ।
व्रतोपवासैर् विविधैश् च भक्त्या ।
सन्तोषितश् चक्रगदास्त्रधारी ॥ ३८ ॥

तुष्टो ऽभ्यगात् पक्षिपतिं महात्मा ।
विष्णुः समारुह्य वरप्रदो मे ।
प्राहोच्चशब्दं व्रियतां द्विजाते ।
वरो हि यं वाञ्छसि तं प्रदास्ये ॥ ३९ ॥

ततो ऽहम् ऊचे हरिम् ईशितारं ।
तुष्टो ऽसि चेत् केशव तद् वृणोमि ।
या सा त्वदीया परमा हि माया ।
तां वेत्तुम् इच्छामि जनार्दनो ऽहम् ॥ ४० ॥

अथाब्रवीन् मे मधुकैटभारिः ।
किं ते तया ब्रह्मन् मायया वै ।
धर्मार्थकामानि ददानि तुभ्यं ।
पुत्राणि मुख्यानि निरामयत्वम् ॥ ४१ ॥

ततो मुरारिं पुनर् उक्तवान् अहं ।
भूयो ऽर्थधर्मार्थजिगीषितैव यत् ।
माया तवेमाम् इह वेत्तुम् इच्छे ।
ममाद्य तां दर्शय पुष्कराक्ष ॥ ४२ ॥

ततो ऽभ्युवाचाथ नृसिंहमुख्यः ।
श्रीशः प्रभुर् विष्णुर् इदं वचो मे ।

विष्णुर् उवाच-

मायां मदीयां नहि वेत्ति कश्चिन् ।
न चापि वा वेत्स्यति कश्चिद् एव ॥ ४३ ॥

पूर्वं सुरर्षिर् द्विज नारदाख्यो ।
ब्रह्मात्मजो ऽभून् मम भक्तियुक्तः ।
तेनापि पूर्वं भवता यथैव ।
सन्तोषितो भक्तिमता हि तद्वत् ॥ ४४ ॥

वरं च दत्तं गतवान् अहं च ।
स चापि वव्रे वरम् एतद् एव ।
निवारितो माम् अतिमूढभावाद् ।
भवान् यथैवं वृतवान् वरं च ॥ ४५ ॥

ततो मयोक्तो ऽम्भसि नारद त्वं ।
मायां हि मे वेत्स्यसि सन्निमग्नः ।
ततो निमग्नो ऽम्भसि नारदो ऽसौ ।
कन्या बभौ काशिपतेः सुशीला ॥ ४६ ॥

तां यौवनाढ्याम् अथ चारुधर्मिणे ।
विदर्भराज्ञस् तनयाय वै ददौ ।
स्वधर्मणे सो ऽपि तया समेतः ।
सिषेव कामान् अतुलान् महर्षिः ॥ ४७ ॥

स्वर्गे गते ऽसौ पितरि प्रतापवान् ।
राज्यं क्रमायातम् अवाप्य हृष्टः ।
विदर्भराष्ट्रं परिपालयानः ।
पुत्रैः सपौत्रैर् बहुभिर् वृतो ऽभूत् ॥ ४८ ॥

अथाभवद् भूमिपतेः सुधर्मणः ।
काशीश्वरेणाथ समं सुयुद्धम् ।
तत्र क्षयं प्राप्य सपुत्रपौत्रं ।
विदर्भराट् काशिपतिश् च युद्धे ॥ ४९ ॥

ततः सुशीला पितरं सपुत्रं ।
ज्ञात्वा पतिं चापि सपुत्रपौत्रम् ।
पुराद् विनिःसृत्य रणावनिं गता ।
दृष्ट्वा सुशीला कदनं महान्तम् ॥ ५० ॥

भर्तुर् बले तत्र पितुर् बले च ।
दुःखान्विता सा सुचिरं विलप्य ।
जगाम सा मातरम् आर्तरूपा ।
भ्रातॄन् सुतान् भ्रातृसुतान् सपौत्रान् ॥ ५१ ॥

भर्तारम् एषा पितरं च गृह्य ।
महाश्मशाने च महाचितिं सा ।
कृत्वा हुताशं प्रददौ स्वयं च ।
यदा समिद्धो हुतभुग् बभूव ॥ ५२ ॥

तदा सुशीला प्रविवेश वेगाद् ।
धा पुत्र हा पुत्र इति ब्रुवाणा ।
तदा पुनः सा मुनिर् नारदो ऽभूत् ।
स चापि वह्निः स्फटिकामलाभः ॥ ५३ ॥

पूर्णं सरो ऽभूद् अथ चोत्ततार ।
तस्याग्रतो देववरस् तु केशवः ।
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।
प्रहस्य देवर्षिम् उवाच नारदम् ॥ ५४ ॥

कस् ते तु पुत्रो वद मे महर्षे ।
मृतं च कं शोचसि नष्टबुद्धिः ।
व्रीडान्वितो ऽभूद् अथ नारदो ऽसौ ।
ततो ऽहम् एनं पुनर् एव चाह ॥ ५५ ॥

इतीदृशा नारद कष्टरूपा ।
माया मदीया कमलासनाद्यैः ।
शक्या न वेत्तुं समहेन्द्ररुद्रैः ।
कथं भवान् वेत्स्यति दुर्विभाव्याम् ॥ ५६ ॥

स वाक्यम् आकर्ण्य महामहर्षिर् ।
उवाच भक्तिं मम देहि विष्णो ।
प्राप्ते ऽथ काले स्मरणं तथैव ।
सदा च सन्दर्शनम् ईश ते ऽस्तु ॥ ५७ ॥

यत्राहम् आर्तश् चितिम् अद्य रूढस् ।
तत् तीर्थम् अस्त्व् अच्युतपापहन्त्रा ।
अधिष्ठितं केशव नित्यम् एव ।
त्वया सहासं कमलोद्भवेन ॥ ५८ ॥

ततो मयोक्तो द्विज नारदो ऽसौ ।
तीर्थं सितोदे हि चितिस् तवास्तु ।
स्थास्याम्य् अहं चात्र सदैव विष्णुर् ।
महेश्वरः स्थास्यति चोत्तरेण ॥ ५९ ॥

यदा विरञ्चेर् वदनं त्रिनेत्रः ।
स च्छेत्स्यतेयं च ममोग्रवाचम् ।
तदा कपालस्य तु मोचनाय ।
समेष्यते तीर्थम् इदं त्वदीयम् ॥ ६० ॥

स्नातस्य तीर्थे त्रिपुरान्तकस्य ।
पतिष्यते भूमितले कपालम् ।
ततस् तु तीर्थेति कपालमोचनं ।
ख्यातं पृथिव्यां च भविष्यते तत् ॥ ६१ ॥

तदा प्रभृत्य् अम्बुदवाहनो ऽसौ ।
न मोक्ष्यते तीर्थवरं सुपुण्यम् ।
न चैव तस्मिन् द्विज सम्प्रचक्षते ।
तत् क्षेत्रम् उग्रं त्व् अथ ब्रह्मवध्या ॥ ६२ ॥

यदा न मोक्षत्य् अमरारिहन्ता ।
तत् क्षेत्रमुख्यं महद् आप्तपुण्यम् ।
तदा विमुक्तेति सुरै रहस्यं ।
तीर्थं स्तुतं पुण्यदम् अव्ययाख्यम् ॥ ६३ ॥

कृत्वा तु पापानि नरो महान्ति ।
तस्मिन् प्रविष्टः शुचिर् अप्रमादी ।
यदा तु मां चिन्तयते स शुद्धः ।
प्रयाति मोक्षं भगवत्प्रसादात् ॥ ६४ ॥

भूत्वा तस्मिन् रुद्रपिशाचसञ्ज्ञो ।
योन्यन्तरे दुःखम् उपाश्नुते ऽसौ ।
विमुक्तपापो बहुवर्षपूगैर् ।
उत्पत्तिम् आयास्यति विप्रगेहे ॥ ६५ ॥

शुचिर् यतात्मास्य ततो ऽन्तकाले ।
रुद्रो हितं तारकम् अस्य कीर्तयेत् ।
इत्य् एवम् उक्त्वा द्विजवर्य नारदं ।
गतो ऽस्मि दुग्धार्णवम् आत्मगेहम् ॥ ६६ ॥

स चापि विप्रस् त्रिदिवं चचार ।
गन्धर्वराजेन समर्च्यमानः ।
एतत् तवोक्तं ननु बोधनाय ।
माया मदीया नहि शक्यते सा ॥ ६७ ॥

ज्ञातुं भवान् इच्छति चेत् ततो ऽद्य ।
एवं विशस्वाप्सु च वेत्सि येन ।
एवं द्विजातिर् हरिणा प्रबोधितो ।
भाव्यर्थयोगान् निममज्ज तोये ॥ ६८ ॥

कोकामुखे तात ततो हि कन्या ।
चाण्डालवेश्मन्य् अभवद् द्विजः सः ।
रूपान्विता शीलगुणोपपन्ना ।
अवाप सा यौवनम् आससाद ॥ ६९ ॥

चाण्डालपुत्रेण सुबाहुनापि ।
विवाहिता रूपविवर्जितेन ।
पतिर् न तस्या हि मतो बभूव ।
सा तस्य चैवाभिमता बभूव ॥ ७० ॥

पुत्रद्वयं नेत्रहीनं बभूव ।
कन्या च पश्चाद् बधिरा तथान्या ।
पतिर् दरिद्रस् त्व् अथ सापि मुग्धा ।
नदीगता रोदिति तत्र नित्यम् ॥ ७१ ॥

गता कदाचित् कलशं गृहीत्वा ।
सान्तर् जलं स्नातुम् अथ प्रविष्टा ।
यावद् द्विजो ऽसौ पुनर् एव तावज् ।
जातः क्रियायोगरतः सुशीलः ॥ ७२ ॥

तस्याः स भर्ताथ चिरङ्गतेति ।
द्रष्टुं जगामाथ नदीं सुपुण्याम् ।
ददर्श कुम्भं न च तां तटस्थां ।
ततो ऽतिदुःखात् प्ररुरोद नादयन् ॥ ७३ ॥

ततो ऽन्धयुग्मं बधिरा च कन्या ।
दुःखान्वितासौ समुपाजगाम ।
ते वै रुदन्तं पितरं च दृष्ट्वा ।
दुःखान्विता वै रुरुदुर् भृशार्ताः ॥ ७४ ॥

ततः स पप्रच्छ नदीतटस्थान् ।
द्विजान् भवद्भिर् यदि योषिद् एका ।
दृष्टा तु तोयार्थम् उपाद्रवन्ती ।
आख्यात ते प्रोचुर् इमां प्रविष्टा ॥ ७५ ॥

नदीं न भूयस् तु समुत्ततार ।
एतावद् एवेह समीहितं नः ।
स तद्वचो घोरतरं निशम्य ।
रुरोद शोकाश्रुपरिप्लुताक्षः ॥ ७६ ॥

तं वै रुदन्तं ससुतं सकन्यं ।
दृष्ट्वाहम् आर्तः सुतरां बभूव ।
आर्तिश् च मे ऽभूद् अथ संस्मृतिश् च ।
चाण्डालयोषाहम् इति क्षितीश ॥ ७७ ॥

ततो ऽब्रवं तं नृपते मतङ्गं ।
किमर्थम् आर्तेन हि रुद्यते त्वया ।
तस्या न लाभो भवितातिमौर्ख्याद् ।
आक्रन्दितेनेह वृथा हि किं ते ॥ ७८ ॥

स माम् उवाचात्मजयुग्मम् अन्धं ।
कन्या चैका बधिरेयं तथैव ।
कथं द्विजाते अधुनार्तम् एतम् ।
आश्वासयिष्ये ऽप्य् अथ पोषयिष्ये ॥ ७९ ॥

इत्य् एवम् उक्त्वा स सुतैश् च सार्धं ।
फूत्कृत्य फूत्कृत्य च रोदिति स्म ।
यथा यथा रोदिति स श्वपाकस् ।
तथा तथा मे ह्य् अभवत् कृतापि ॥ ८० ॥

ततो ऽहम् आर्तं तु निवार्य तं वै ।
स्ववंशवृत्तान्तम् अथाचचक्षे ।
ततः स दुःखात् सह पुत्रकैः ।
संविवेश कोकामुखम् आर्तरूपः ॥ ८१ ॥

प्रविष्टमात्रे सलिले मतङ्गस् ।
तीर्थप्रभावाच् च विमुक्तपापः ।
विमानम् आरुह्य शशिप्रकाशं ।
ययौ दिवं तात ममोपपश्यतः ॥ ८२ ॥

तस्मिन् प्रविष्टे सलिले मृते च ।
ममार्तिर् आसीद् अतिमोहकर्त्री ।
जले प्रविष्टस् त्रिदिवं गतश् च ॥ ८३ ॥

भूयो ऽभवं वैश्यकुले व्यथार्तो ।
जातिस्मरस् तीर्थवरप्रसादात् ।
ततो ऽतिनिर्विण्णमना गतो ऽहं ।
कोकामुखं संयतवाक्यचित्तः ॥ ८४ ॥

व्रतं समास्थाय कलेवरं स्वं ।
संशोषयित्वा दिवम् आरुरोह ।
तस्माच् च्युतस् त्वद्भवने च जातो ।
जातिस्मरस् तात हरिप्रसादात् ॥ ८५ ॥

सो ऽहं समाराध्य मुरारिदेवं ।
कोकामुखे त्यक्तशुभाशुभेच्छः ।
इत्य् एवम् उक्त्वा पितरं प्रणम्य ।
गत्वा च कोकामुखम् अग्रतीर्थम् ।
विष्णुं समाराध्य वराहरूपम् ।
अवाप सिद्धिं मनुजर्षभो ऽसौ ॥ ८६ ॥

इत्थं स कामदमनः सहपुत्रपौत्रः ।
कोकामुखे तीर्थवरे सुपुण्ये ।
त्यक्त्वा तनुं दोषमयीं ततस् तु ।
गतो दिवं सूर्यसमैर् विमानैः ॥ ८७ ॥

एवं मयोक्ता परमेश्वरस्य ।
माया सुराणाम् अपि दुर्विचिन्त्या ।
स्वप्नेन्द्रजालप्रतिमा मुरारेर् ।
यया जगन् मोहम् उपैति विप्राः ॥ ८८ ॥