228

Summary (SA)

Chapter 228- Praise of singing while keeping vigil

{{Ref- SS 366-369}}

व्यास उवाच-

एकादश्याम् उभे पक्षे निराहारः समाहितः ।
स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ॥ १ ॥

सम्पूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः ।
पुष्पैर् गन्धैस् तथा दीपैर् धूपैर् नैवेद्यकैस् तथा ॥ २ ॥

उपहारैर् बहुविधैर् जप्यैर् होमप्रदक्षिणैः ।
स्तोत्रैर् नानाविधैर् दिव्यैर् गीतवाद्यैर् मनोहरैः ॥ ३ ॥

दण्डवत्प्रणिपातैश् च जयशब्दैस् तथोत्तमैः ।
एवं सम्पूज्य विधिवद् रात्रौ कृत्वा प्रजागरम् ॥ ४ ॥

कथां वा गीतिकां विष्णोर् गायन् विष्णुपरायणः ।
याति विष्णोः परं स्थानं नरो नास्त्य् अत्र संशयः ॥ ५ ॥

मुनय ऊचुः-

प्रजागरे गीतिकायाः फलं विष्णोर् महामुने ।
ब्रूहि तच् छ्रोतुम् इच्छामः परं कौतूहलं हि नः ॥ ६ ॥

व्यास उवाच-

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः ।
गीतिकायाः फलं विष्णोर् जागरे यद् उदाहृतम् ॥ ७ ॥

अवन्ती नाम नगरी बभूव भुवि विश्रुता ।
तत्रास्ते भगवान् विष्णुः शङ्खचक्रगदाधरः ॥ ८ ॥

तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः ।
सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥ ९ ॥

विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः ।
एकादश्यां समागम्य सोपवासो ऽथ गायति ॥ १० ॥

गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः ।
गान्धारषड्जनैषादस्वरपञ्चमधैवतैः ॥ ११ ॥

रात्रिजागरणे विष्णुं गाथाभिर् उपगायति ।
प्रभाते च प्रणम्येशं द्वादश्यां गृहम् एत्य च ॥ १२ ॥

जामातृभागिनेयांश् च भोजयित्वा सकन्यकाः ।
ततः सपरिवारस् तु पश्चाद् भुङ्क्ते द्विजोत्तमाः ॥ १३ ॥

एवं तस्यासतस् तत्र कुर्वतो विष्णुप्रीणनम् ।
गीतिकाभिर् विचित्राभिर् वयः प्रतिगतं बहु ॥ १४ ॥

एकदा चैत्रमासे तु कृष्णैकादशिगोचरे ।
विष्णुशुश्रूषणार्थाय ययौ वनम् अनुत्तमम् ॥ १५ ॥

वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः ।
क्षिप्रातटे महारण्ये विभीतकतरोर् अधः ॥ १६ ॥

दृष्टः स राक्षसेनाथ गृहीतश् चापि भक्षितुम् ।
चाण्डालस् तम् अथोवाच नाद्य भक्ष्यस् त्वया ह्य् अहम् ॥ १७ ॥

प्रातर् भोक्ष्यसि कल्याण सत्यम् एष्याम्य् अहं पुनः ।
अद्य कार्यं मम महत् तस्मान् मुञ्चस्व राक्षस ॥ १८ ॥

श्वः सत्येन समेष्यामि ततः खादसि माम् इति ।
विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया ।
कार्यं न व्रतविघ्नं मे कर्तुम् अर्हसि राक्षस ॥ १९ ॥

व्यास उवाच-

तं राक्षसः प्रत्युवाच दशरात्रम् अभोजनम् ।
ममाभूद् अद्य च भवान् मया लब्धो मतङ्गज ॥ २० ॥

न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् ।
निशाचरवचः श्रुत्वा मातङ्गस् तम् उवाच ह ।
सान्त्वयञ् श्लक्ष्णया वाचा स सत्यवचनैर् दृढैः ॥ २१ ॥

मातङ्ग उवाच-

सत्यमूलं जगत् सर्वं ब्रह्मराक्षस तच् छृणु ।
सत्येनाहं शपिष्यामि पुनरागमनाय च ॥ २२ ॥

आदित्यश् चन्द्रमा वह्निर् वायुर् भूर् द्यौर् जलं मनः ।
अहोरात्रं यमः सन्ध्ये द्वे विदुर् नरचेष्टितम् ॥ २३ ॥

परदारेषु यत् पापं यत् परद्रव्यहारिषु ।
यच् च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥ २४ ॥

वन्ध्यापतेश् च यत् पापं यत् पापं वृषलीपतेः ।
यच् च देवलके पापं मत्स्यमांसाशिनश् च यत् ॥ २५ ॥

क्रोडमांसाशिनो यच् च कूर्ममांसाशिनश् च यत् ।
वृथा मांसाशिनो यच् च पृष्ठमांसाशिनश् च यत् ॥ २६ ॥

कृतघ्ने मित्रघातके यत् पापं दिधिषूपतौ ।
सूतकस्य च यत् पापं यत् पापं क्रूरकर्मणः ॥ २७ ॥

कृपणस्य च यत् पापं यच् च वन्ध्यातिथेर् अपि ।
अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥ २८ ॥

तासु यद् गमनात् पापं यद् विप्रो व्रजति स्त्रियम् ।
रजस्वलां तथा पश्चाच् छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥ २९ ॥

सर्वस्वस्नातभोज्यानां यत् पापं मलभोजने ।
मित्रभार्यां गच्छतां च यत् पापं पिशुनस्य च ॥ ३० ॥

दम्भमायानुरक्ते च यत् पापं मधुघातिनः ।
ब्राह्मणस्य प्रतिश्रुत्य यत् पापं तदयच्छतः ॥ ३१ ॥

यच् च कन्यानृते पापं यच् च गोश्वतरानृते ।
स्त्रीबालहन्तुर् यत् पापं यच् च मिथ्याभिभाषिणः ॥ ३२ ॥

देववेदद्विजनृपपुत्रमित्रसतीस्त्रियः ।
यच् च निन्दयतां पापं गुरुमिथ्यापचारतः ॥ ३३ ॥

अग्नित्यागिषु यत् पापम् अग्निदायिषु यद् वने ।
गृहेष्ट्या पातके यच् च यद् गोघ्ने यद् द्विजाधमे ॥ ३४ ॥

यत् पापं परिवित्ते च यत् पापं परिवेदिनः ।
तयोर् दातृग्रहीत्रोश् च यत् पापं भ्रूणघातिनः ॥ ३५ ॥

किं चात्र बहुभिः प्रोक्तैः शपथैस् तव राक्षस ।
श्रूयतां शपथं भीमं दुर्वाच्यम् अपि कथ्यते ॥ ३६ ॥

स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः ।
अयाज्ययाजके षण्ढे यत् पापं श्रवणे ऽधमे ॥ ३७ ॥

प्रव्रज्यावसिते यच् च ब्रह्मचारिणि कामुके ।
एतैस् तु पापैर् लिप्ये ऽहं यदि नैष्यामि ते ऽन्तिकम् ॥ ३८ ॥

व्यास उवाच-

मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः ।
प्राह गच्छस्व सत्येन समयं चैव पालय ॥ ३९ ॥

इत्य् उक्तः कुणपाशेन श्वपाकः कुसुमानि तु ।
समादायागमच् चैव विष्णोः स निलयं गतः ॥ ४० ॥

तानि प्रादाद् ब्राह्मणाय सो ऽपि प्रक्षाल्य चाम्भसा ।
विष्णुम् अभ्यर्च्य निलयं जगाम स तपोधनाः ॥ ४१ ॥

सो ऽपि मातङ्गदायादः सोपवासस् तु तां निशाम् ।
गायन् हि बाह्यभूमिष्ठः प्रजागरम् उपाकरोत् ॥ ४२ ॥

प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च ।
सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः ॥ ४३ ॥

तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि ।
स तथाकथयत् सर्वं सो ऽप्य् एनं पुनर् अब्रवीत् ॥ ४४ ॥

धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।
महता तु प्रयत्नेन शरीरं पालयेद् बुधः ॥ ४५ ॥

जीवधर्मार्थसुखं ।
नरस् तथाप्नोति मोक्षगतिम् अग्र्याम् ।
जीवन् कीर्तिम् उपैति च ।
भवति मृतस्य का कथा लोके ॥ ४६ ॥

मातङ्गस् तद् वचः श्रुत्वा प्रत्युवाचाथ हेतुमत् ॥ ४७ ॥

मातङ्ग उवाच-

भद्र सत्यं पुरस्कृत्य गच्छामि शपथाः कृताः ॥ ४८ ॥

व्यास उवाच-

तं भूयः प्रत्युवाचाथ किम् एवं मूढधीर् भवान् ।
किं न श्रुतं त्वया साधो मनुना यद् उदीरितम् ॥ ४९ ॥

गोस्त्रीद्विजानां परिरक्षणार्थं ।
विवाहकाले सुरतप्रसङ्गे ।
प्राणात्यये सर्वधनापहारे ।
पञ्चानृतान्य् आहुर् अपातकानि ॥ ५० ॥

धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ ।
वञ्चने चार्थहानौ च स्वनाशे ऽनृतके तथा ।
एवं तद् वाक्यम् आकर्ण्य मातङ्गः प्रत्युवाच ह ॥ ५१ ॥

मातङ्ग उवाच-

मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते ।
सत्येनावाप्यते सौख्यं यत् किञ्चिज् जगतीगतम् ॥ ५२ ॥

सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः ।
ज्वलत्य् अग्निश् च सत्येन वाति सत्येन मारुतः ॥ ५३ ॥

धर्मार्थकामसम्प्राप्तिर् मोक्षप्राप्तिश् च दुर्लभा ।
सत्येन जायते पुंसां तस्मात् सत्यं न सन्त्यजेत् ॥ ५४ ॥

सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् ।
सत्यं स्वर्गसमायातं तस्मात् सत्यं न सन्त्यजेत् ॥ ५५ ॥

व्यास उवाच-

इत्य् उक्त्वा सो ऽथ मातङ्गस् तं प्रक्षिप्य नरोत्तमम् ।
जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः ॥ ५६ ॥

तम् आगतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः ।
विस्मयोत्फुल्लनयनः शिरःकम्पं तम् अब्रवीत् ॥ ५७ ॥

ब्रह्मराक्षस उवाच-

साधु साधु महाभाग सत्यवाक्यानुपालक ।
न मातङ्गम् अहं मन्ये भवन्तं सत्यलक्षणम् ॥ ५८ ॥

कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिम् अव्ययम् ।
यत् किञ्चित् त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् ।
किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद ॥ ५९ ॥

व्यास उवाच-

तम् अभ्युवाच मातङ्गः शृणु विष्णुगृहे मया ।
यत् कृतं रजनीभागे यथातथ्यं वदामि ते ॥ ६० ॥

विष्णोर् देवकुलस्याधः स्थितेनानम्रमूर्तिना ।
प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम् ॥ ६१ ॥

तं ब्रह्मराक्षसः प्राह कियन्तं कालम् उच्यताम् ।
प्रजागरो विष्णुगृहे कृतं भक्तिमता वद ॥ ६२ ॥

तम् अभ्युवाच प्रहसन् विंशत्य् अब्दानि राक्षस ।
एकादश्यां मासि मासि कृतस् तत्र प्रजागरः ।
मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥ ६३ ॥

ब्रह्मराक्षस उवाच-

यद् अद्य त्वां प्रवक्ष्यामि तद् भवान् वक्तुम् अर्हति ।
एकरात्रिकृतं साधो मम देहि प्रजागरम् ॥ ६४ ॥

एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा ।
त्रिः सत्येन महाभाग इत्य् उक्त्वा विरराम ह ॥ ६५ ॥

व्यास उवाच-

मातङ्गस् तम् उवाचाथ मयात्मा ते निशाचर ।
निवेदितः किम् उक्तेन खादस्व स्वेच्छयापि माम् ॥ ६६ ॥

तम् आह राक्षसो भूयो यामद्वयप्रजागरम् ।
सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वम् अर्हसि ॥ ६७ ॥

मातङ्गो राक्षसं प्राह किम् असम्बद्धम् उच्यते ।
खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् ।
मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः ॥ ६८ ॥

ब्रह्मराक्षस उवाच-

को हि दुष्टमतिर् मन्दो भवन्तं द्रष्टुम् उत्सहेत् ।
धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा ॥ ६९ ॥

दीनस्य पापग्रस्तस्य विषयैर् मोहितस्य च ।
नरकार्तस्य मूढस्य साधवः स्युर् दयान्विताः ॥ ७० ॥

तन् मम त्वं महाभाग कृपां कृत्वा प्रजागरम् ।
यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम् ॥ ७१ ॥

व्यास उवाच-

तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् ।
न चापि तव दास्यामि कथञ्चिद् यामजागरम् ।
तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः ॥ ७२ ॥

ब्रह्मराक्षस उवाच-

रात्र्यवसाने या गीता गीतिका कौतुकाश्रया ।
तस्याः फलं प्रयच्छस्व त्राहि पापात् समुद्धर ॥ ७३ ॥

व्यास उवाच-

एवम् उच्चारिते तेन मातङ्गस् तम् उवाच ह ॥ ७४ ॥

मातङ्ग उवाच-

किं पूर्वं भवता कर्म विकृतं कृतम् अञ्जसा ।
येन त्वं दोषजातेन सम्भूतो ब्रह्मराक्षसः ॥ ७५ ॥

व्यास उवाच-

तस्य तद् वाक्यम् आकर्ण्य मातङ्गं ब्रह्मराक्षसः ।
प्रोवाच दुःखसन्तप्तः संस्मृत्य स्वकृतं कृतम् ॥ ७६ ॥

ब्रह्मराक्षस उवाच-

श्रूयतां यो ऽहम् आसं वै पूर्वं यच् च मया कृतम् ।
यस्मिन् कृते पापयोनिं गतवान् अस्मि राक्षसीम् ॥ ७७ ॥

सोमशर्म इति ख्यातः पूर्वम् आसम् अहं द्विजः ।
पुत्रो ऽध्ययनशीलस्य देवशर्मस्य यज्वनः ॥ ७८ ॥

कस्यचिद् यजमानस्य सूत्रमन्त्रबहिष्कृतः ।
नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः ॥ ७९ ॥

आग्नीध्रं चाकरोद् यज्ञे लोभमोहप्रपीडितः ।
तस्मिन् परिसमाप्ते तु मौर्ख्याद् दम्भम् अनुष्ठितः ॥ ८० ॥

यष्टुम् आरब्धवान् अस्मि द्वादशाहं महाक्रतुम् ।
प्रवर्तमाने तस्मिंस् तु कुक्षिशूलो ऽभवन् मम ॥ ८१ ॥

सम्पूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ ।
विरूपाक्षस्य दीयन्त्याम् आहुत्यां राक्षसे क्षणे ॥ ८२ ॥

मृतो ऽहं तेन दोषेण सम्भूतो ब्रह्मराक्षसः ।
मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम् ॥ ८३ ॥

अजानता यज्ञविद्यां यद् इष्टं याजितं च यत् ।
तेन कर्मविपाकेन सम्भूतो ब्रह्मराक्षसः ॥ ८४ ॥

तन् मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर ।
प्रजागरे गीतिकैकां पश्चिमां दातुम् अर्हसि ॥ ८५ ॥

व्यास उवाच-

तम् उवाचाथ चाण्डालो यदि प्राणिवधाद् भवान् ।
निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम् ॥ ८६ ॥

बाढम् इत्य् अवदत् सो ऽपि मातङ्गो ऽपि ददौ तदा ।
गीतिकाफलम् आमन्त्र्य मुहूर्तार्धप्रजागरम् ॥ ८७ ॥

तस्मिन् गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः ।
प्रणम्य प्रययौ हृष्टस् तीर्थवर्यं पृथूदकम् ॥ ८८ ॥

तत्रानशनसङ्कल्पं कृत्वा प्राणाञ् जहौ द्विजाः ।
राक्षसत्वाद् विनिर्मुक्तो गीतिकाफलबृंहितः ॥ ८९ ॥

पृथूदकप्रभावाच् च ब्रह्मलोकं च दुर्लभम् ।
दश वर्षसहस्राणि निरातङ्को ऽवसत् ततः ॥ ९० ॥

तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान् वशी ।
तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः ॥ ९१ ॥

मातङ्गस्य कथाशेषं शृणुध्वं गदतो मम ।
राक्षसे तु गते धीमान् गृहम् एत्य यतात्मवान् ॥ ९२ ॥

तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिर् अप्य् असौ ।
पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम् ॥ ९३ ॥

कोकामुखात् समारभ्य यावद् वै स्कन्ददर्शनम् ।
दृष्ट्वा स्कन्दं ययौ धाराचक्रे चापि प्रदक्षिणम् ॥ ९४ ॥

ततो ऽद्रिवरम् आगम्य विन्ध्यम् उच्चशिलोच्चयम् ।
पापप्रमोचनं तीर्थम् आससाद स तु द्विजाः ॥ ९५ ॥

स्नानं पापहरं चक्रे स तु चाण्डालवंशजः ।
विमुक्तपापः सस्मार पूर्वजातीर् अनेकशः ॥ ९६ ॥

स पूर्वजन्मन्य् अभवद् भिक्षुः संयतवाङ्मनाः ।
यतकायश् च मतिमान् वेदवेदाङ्गपारगः ॥ ९७ ॥

एकदा गोषु नगराद् ध्रियमाणासु तस्करैः ।
भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा ॥ ९८ ॥

स तेनाधर्मदोषेण चाण्डालीं योनिम् आगतः ।
पापप्रमोचने स्नातः स मृतो नर्मदातटे ॥ ९९ ॥

मूर्खो ऽभूद् ब्राह्मणवरो वाराणस्यां च भो द्विजाः ।
तत्रास्य वसतो ऽब्दैस् तु त्रिंशद्भिः सिद्धपूरुषः ॥ १०० ॥

विरूपरूपी बभ्राम योगमालाबलान्वितः ।
तं दृष्ट्वा सोपहासार्थम् अभिवाद्याभ्युवाच ह ॥ १०१ ॥

कुशलं सिद्धपुरुषं कुतस् त्व् आगम्यते त्वया ॥ १०२ ॥

व्यास उवाच-

एवं सम्भाषितस् तेन ज्ञातो ऽहम् इति चिन्त्य तु ।
प्रत्युवाचाथ वन्द्यस् तं स्वर्गलोकाद् उपागतः ॥ १०३ ॥

तं सिद्धं प्राह मूर्खो ऽसौ किं त्वं वेत्सि त्रिविष्टपे ।
नारायणोरुप्रभवाम् उर्वशीम् अप्सरोवराम् ॥ १०४ ॥

सिद्धस् तम् आह तां वेद्मि शक्रचामरधारिणीम् ।
स्वर्गस्याभरणं मुख्यम् उर्वशीं साधुसम्भवाम् ॥ १०५ ॥

विप्रः सिद्धम् उवाचाथ ऋजुमार्गविवर्जितः ।
तन् मित्र मत्कृते वार्त्ताम् उर्वश्या भवतादरात् ॥ १०६ ॥

कथनीया यच् च सा ते ब्रूयाद् आख्यास्यते भवान् ।
बाढम् इत्य् अब्रवीत् सिद्धः सो ऽपि विप्रो मुदान्वितः ॥ १०७ ॥

बभूव सिद्धो ऽपि ययौ मेरुपृष्ठं सुरालयम् ।
समेत्य चोर्वशीं प्राह यद् उक्तो ऽसौ द्विजेन तु ॥ १०८ ॥

सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् ।
जानामि सत्यम् उक्तं ते न चेतसि मम स्थितम् ॥ १०९ ॥

इत्य् उक्तः प्रययौ सो ऽपि कालेन बहुना पुनः ।
वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः ॥ ११० ॥

दृष्टः पृष्टः किल भूयः किम् आहोरुभवा तव ।
सिद्धो ऽब्रवीन् न जानामि माम् उवाचोर्वशी स्वयम् ॥ १११ ॥

सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसम्पुटः ।
पुनः प्राह कथं वेत्सीत्य् एवं वाच्या त्वयोर्वशी ॥ ११२ ॥

बाढम् एवं करिष्यामीत्य् उक्त्वा सिद्धो दिवं गतः ।
ददर्श शक्रभवनान् निष्क्रामन्तीम् अथोर्वशीम् ॥ ११३ ॥

प्रोवाच तां सिद्धवरः सा च तं सिद्धम् अब्रवीत् ।
नियमं कञ्चिद् अपि हि करोतु द्विजसत्तमः ॥ ११४ ॥

येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा ।
तद् उर्वशीवचो ऽभ्येत्य तस्मै मूर्खद्विजाय तु ॥ ११५ ॥

कथयाम् आस सिद्धस् तु सो ऽपीमं नियमं जगौ ।
तवाग्रे सिद्धपुरुष नियमो ऽयं कृतो मया ॥ ११६ ॥

न भोक्ष्ये ऽद्यप्रभृति वै शकटं सत्यम् ईरितम् ।
इत्य् उक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीम् अथ ॥ ११७ ॥

प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् ।
तं सिद्धम् उर्वशी प्राह ज्ञातो ऽसौ साम्प्रतं मया ॥ ११८ ॥

नियमग्रहणाद् एव मूर्खो माम् उपहासकः ।
इत्य् उक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा ॥ ११९ ॥

सिद्धो ऽपि विचचारासौ कामचारी महीतलम् ।
उर्वश्य् अपि वरारोहा गत्वा वाराणसीं पुरीम् ॥ १२० ॥

मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा ।
अथासाव् अपि मूर्खस् तु नदीं मत्स्योदरीं मुने ॥ १२१ ॥

जगामाथ ददर्शासौ स्नायमानाम् अथोर्वशीम् ।
तां दृष्ट्वा ववृधे ऽथास्य मन्मथः क्षोभकृद् दृढम् ॥ १२२ ॥

चकार मूर्खश् चेष्टाश् च तं विवेदोर्वशी स्वयम् ।
तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितम् आह तम् ॥ १२३ ॥

उर्वश्य् उवाच-

किम् इच्छसि महाभाग मत्तः शीघ्रम् इहोच्यताम् ।
करिष्यामि वचस् तुभ्यं त्वं विश्रब्धं करिष्यसि ॥ १२४ ॥

मूर्खब्राह्मण उवाच-

आत्मप्रदानेन मम प्राणान् रक्ष शुचिस्मिते ॥ १२५ ॥

व्यास उवाच-

तं प्राहाथोर्वशी विप्रं नियमस्थास्मि साम्प्रतम् ।
त्वं तिष्ठस्व क्षणम् अथ प्रतीक्षस्वागतं मम ॥ १२६ ॥

स्थितो ऽस्मीत्य् अब्रवीद् विप्रः सापि स्वर्गं जगाम ह ।
मासमात्रेण सायाता ददर्श तं कृशं द्विजम् ॥ १२७ ॥

स्थितं मासं नदीतीरे निराहारं सुराङ्गना ।
तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस् ततः ॥ १२८ ॥

सा चकार नदीतीरे शकटं शर्करावृतम् ।
घृतेन मधुना चैव नदीं मत्स्योदरीं गता ॥ १२९ ॥

स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः ।
तं ब्राह्मणं समाहूय वाक्यम् आह सुलोचना ॥ १३० ॥

उर्वश्य् उवाच-

मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात् ।
व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज ॥ १३१ ॥

व्यास उवाच-

स प्राह किम् इदं लोके दीयते शर्करावृतम् ।
क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय ॥ १३२ ॥

सा प्राह शकटो विप्र शर्करापिष्टसंयुतः ।
इमं त्वं समुपादाय प्राणं तर्पय मा चिरम् ॥ १३३ ॥

स तच् छ्रुत्वाथ संस्मृत्य क्षुधया पीडितो ऽपि सन् ।
प्राह भद्रे न गृह्णामि नियमो हि कृतो मया ॥ १३४ ॥

पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्व् इति ।
परिज्ञानार्थम् उर्वश्या ददस्वान्यस्य कस्यचित् ॥ १३५ ॥

साब्रवीन् नियमो भद्र कृतः काष्ठमये त्वया ।
नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः ॥ १३६ ॥

तां ब्राह्मणः प्रत्युवाच न मया तद् विशेषणम् ।
कृतं भद्रे ऽथ नियमः सामान्येनैव मे कृतः ॥ १३७ ॥

तं भूयः प्राह सा तन्वी न चेद् भोक्ष्यसि ब्राह्मण ।
गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति ॥ १३८ ॥

स ताम् उवाच सुदति न तावद् यामि मन्दिरम् ।
इहायाता वरारोहा त्रैलोक्ये ऽप्य् अधिका गुणैः ॥ १३९ ॥

सा मया मदनार्तेन प्रार्थिताश्वासितस् तया ।
स्थीयतां क्षणम् इत्य् एवं स्थास्यामीति मयोदितम् ॥ १४० ॥

मासमात्रं गतायास् तु तस्या भद्रे स्थितस्य च ।
मम सत्यानुरक्तस्य सङ्गमाय धृतव्रते ॥ १४१ ॥

तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपम् उत्तमम् ।
विहस्य भावगम्भीरम् उर्वशी प्राह तं द्विजम् ॥ १४२ ॥

उर्वश्य् उवाच-

साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा ।
निष्पादितं हठाद् एव मम दर्शनम् इच्छता ॥ १४३ ॥

अहम् एवोर्वशी विप्र त्वां जिज्ञासार्थम् आगता ।
परीक्षितो निश्चितवान् भवान् सत्यतपा ऋषिः ॥ १४४ ॥

गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम् ।
सिद्धिं यास्यसि विप्रेन्द्र ततस् त्वं माम् अवाप्स्यसि ॥ १४५ ॥

व्यास उवाच-

इत्य् उक्त्वा दिवम् उत्पत्य सा जगामोर्वशी द्विजाः ।
स च सत्यतपा विप्रो रूपतीर्थं जगाम ह ॥ १४६ ॥

तत्र शान्तिपरो भूत्वा नियमव्रतधृक् शुचिः ।
देहोत्सर्गे जगामासौ गान्धर्वं लोकम् उत्तमम् ॥ १४७ ॥

तत्र मन्वन्तरशतं भोगान् भुक्त्वा यथार्थतः ।
बभूव सुकुले राजा प्रजारञ्जनतत्परः ॥ १४८ ॥

स यज्वा विविधैर् यज्ञैः समाप्तवरदक्षिणैः ।
पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः ॥ १४९ ॥

रूपतीर्थे मृतो भूयः शक्रलोकम् उपागतः ।
तत्र मन्वन्तरशतं भोगान् भुक्त्वा ततश् च्युतः ॥ १५० ॥

प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः ।
बभूव तत्र चोर्वश्याः सङ्गमाय तपोधनाः ॥ १५१ ॥

एवं पुरा सत्यतपा द्विजातिस् ।
तीर्थे प्रसिद्धे स हि रूपसञ्ज्ञे ।
आराध्य जन्मन्य् अथ चार्च्य विष्णुम् ।
अवाप्य भोगान् अथ मुक्तिम् एति ॥ १५२ ॥