Summary (SA)
Chapter 227- On the destiny of Vaiṣṇavas after death
{{Ref- SS 365-366}}
मुनय ऊचुः-
अहो कृष्णस्य माहात्म्यं श्रुतम् अस्माभिर् अद्भुतम् ।
सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥ १ ॥
सम्पूज्य विधिवद् भक्त्या वासुदेवं महामुने ।
कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥ २ ॥
किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने ।
अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्य् उभयं फलम् ॥ ३ ॥
छेत्तुम् अर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् ।
छेत्ता नान्यो ऽस्ति लोके ऽस्मिंस् त्वदृते मुनिसत्तम ॥ ४ ॥
व्यास उवाच-
साधु साधु मुनिश्रेष्ठा भवद्भिर् यद् उदाहृतम् ।
शृणुध्वम् आनुपूर्व्येण वैष्णवानां सुखावहम् ॥ ५ ॥
दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै ।
किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं द्विजाः ॥ ६ ॥
न तेषां दुर्लभः स्वर्गो मोक्षश् च मुनिसत्तमाः ।
लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान् ॥ ७ ॥
रत्नपर्वतम् आरुह्य नरो रत्नं यथाददेत् ।
स्वेच्छया मुनिशार्दूलास् तथा कृष्णान् मनोरथान् ॥ ८ ॥
कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा ।
गृह्णाति पुरुषो विप्रास् तथा कृष्णान् मनोरथान् ॥ ९ ॥
श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम् ।
धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥ १० ॥
आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना ।
प्राप्नुवन्ति नराः कामान् सुराणाम् अपि दुर्लभान् ॥ ११ ॥
ये ऽर्चयन्ति सदा भक्त्या वासुदेवाख्यम् अव्ययम् ।
न तेषां दुर्लभं किञ्चिद् विद्यते भुवनत्रये ॥ १२ ॥
धन्यास् ते पुरुषा लोके ये ऽर्चयन्ति सदा हरिम् ।
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ १३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ।
सम्पूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥ १४ ॥
तस्माच् छृणुध्वं मुनयो यत् पृच्छत ममानघाः ।
प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥ १५ ॥
त्यक्त्वा मानुष्यकं देहं रोगायतनम् अध्रुवम् ।
जरामरणसंयुक्तं जलबुद्बुदसन्निभम् ॥ १६ ॥
मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर् युतम् ।
अस्थिस्थूणम् अमेध्यं च स्नायुचर्मशिरान्वितम् ॥ १७ ॥
कामगेन विमानेन दिव्यगन्धर्वनादिना ।
तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥ १८ ॥
उपगीयमाना गन्धर्वैर् अप्सरोभिर् अलङ्कृताः ।
व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक् ॥ १९ ॥
मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक् ।
भुवनानि पृथक् तेषां सर्वभोगैर् अलङ्कृताः ॥ २० ॥
ततो ऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् ।
तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः ॥ २१ ॥
तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः ।
विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥ २२ ॥
भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः ।
त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान् ॥ २३ ॥
तस्माद् व्रजन्ति ते विप्राश् चन्द्रलोकं सुखप्रदम् ।
मन्वन्तराणां ते तत्र चत्वारिंशद् गुणान्वितम् ॥ २४ ॥
कालं भुक्त्वा शुभान् भोगाञ् जरामरणवर्जिताः ।
तस्मान् नक्षत्रलोकं तु विमानैः समलङ्कृतम् ॥ २५ ॥
व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैर् अलङ्कृताः ।
मन्वन्तराणां पञ्चाशद् भुक्त्वा भोगान् यथेप्सितान् ॥ २६ ॥
तस्माद् व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् ।
षष्टिमन्वन्तरं यावत् तत्र भुक्त्वा सुदुर्लभान् ॥ २७ ॥
भोगान् नानाविधान् विप्रा ऋग्द्व्यष्टकसमन्वितान् ।
शक्रलोकं पुनस् तस्माद् गच्छन्ति सुरपूजिताः ॥ २८ ॥
मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् ।
भोगान् उच्चावचान् दिव्यान् मनसः प्रीतिवर्धनान् ॥ २९ ॥
तस्माद् व्रजन्ति ते लोकं प्राजापत्यम् अनुत्तमम् ।
भुक्त्वा तत्रेप्सितान् भोगान् सर्वकामगुणान्वितान् ॥ ३० ॥
मन्वन्तरम् अशीतिं च कालं सर्वसुखप्रदम् ।
तस्मात् पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः ॥ ३१ ॥
मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् ।
इहागत्य पुनस् तस्माद् विप्राणां प्रवरे कुले ॥ ३२ ॥
जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः ।
एवं सर्वेषु लोकेषु भुक्त्वा भोगान् यथेप्सितान् ॥ ३३ ॥
इहागत्य पुनर् यान्ति उपर्य् उपरि च क्रमात् ।
सम्भवे सम्भवे ते तु शतवर्षं द्विजोत्तमाः ॥ ३४ ॥
भुक्त्वा यथेप्सितान् भोगान् यान्ति लोकान्तरं ततः ।
दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते ॥ ३५ ॥
तदा लोकं हरेर् दिव्यं ब्रह्मलोकाद् व्रजन्ति ते ।
गत्वा तत्राक्षयान् भोगान् भुक्त्वा सर्वगुणान्वितान् ॥ ३६ ॥
मन्वन्तरशतं यावज् जन्ममृत्युविवर्जिताः ।
गच्छन्ति भुवनं पश्चाद् वाराहस्य द्विजोत्तमाः ॥ ३७ ॥
दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः ।
क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम् ॥ ३८ ॥
दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः ।
तिष्ठन्ति शाश्वते भावे सर्वैर् देवैर् नमस्कृताः ॥ ३९ ॥
ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः ।
क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च ॥ ४० ॥
तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम् ।
क्रीडन्ते तत्र सौख्येन वर्षाणाम् अयुतानि च ॥ ४१ ॥
ब्रह्मलोके पुनर् विप्रा गच्छन्ति साधकोत्तमाः ।
तत्र स्थित्वा चिरं कालं वर्षकोटिशतान् बहून् ॥ ४२ ॥
नारायणपुरं यान्ति ततस् ते साधकेश्वराः ।
भुक्त्वा भोगांश् च विविधान् वर्षकोट्यर्बुदानि च ॥ ४३ ॥
अनिरुद्धपुरं पश्चाद् दिव्यरूपा महाबलाः ।
गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः ॥ ४४ ॥
तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश ।
तिष्ठन्ति वैष्णवास् तत्र जरामरणवर्जिताः ॥ ४५ ॥
प्रद्युम्नस्य पुरं पश्चाद् गच्छन्ति विगतज्वराः ।
तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम् ॥ ४६ ॥
स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः ।
गच्छन्ति योगिनः पश्चाद् यत्र सङ्कर्षणः प्रभुः ॥ ४७ ॥
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान् सहस्रशः ।
विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने ॥ ४८ ॥
विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते ।
तत्र गत्वा विमुक्तास् ते भवेयुर् नात्र संशयः ॥ ४९ ॥
एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः ।
मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः ॥ ५० ॥