226

Summary (SA)

Chapter 226- Dialogue between Śiva and the sages

{{Ref- SS 363-365}}

व्यास उवाच-

श्रुत्वैवं सा जगन्माता भर्तुर् वचनम् आदितः ।
हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः ॥ १ ॥

ये तत्रासन् मुनिवरास् त्रिपुरारेः समीपतः ।
तीर्थयात्राप्रसङ्गेन गतास् तस्मिन् गिरौ द्विजाः ॥ २ ॥

ते ऽपि सम्पूज्य तं देवं शूलपाणिं प्रणम्य च ।
पप्रच्छुः संशयं चैव लोकानां हितकाम्यया ॥ ३ ॥

मुनय ऊचुः-

त्रिलोचन नमस् ते ऽस्तु दक्षक्रतुविनाशन ।
पृच्छामस् त्वां जगन्नाथ संशयं हृदि संस्थितम् ॥ ४ ॥

संसारे ऽस्मिन् महाघोरे भैरवे लोमहर्षणे ।
भ्रमन्ति सुचिरं कालं पुरुषाश् चाल्पमेधसः ॥ ५ ॥

येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् ।
ब्रूहि तच् छ्रोतुम् इच्छामः परं कौतूहलं हि नः ॥ ६ ॥

महेश्वर उवाच-

कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् ।
नान्योपायं प्रपश्यामि वासुदेवात् परं द्विजाः ॥ ७ ॥

ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् ।
वाङ्मनःकर्मभिः सम्यक् ते यान्ति परमां गतिम् ॥ ८ ॥

किं तेषां जीवितेनेह पशुवच् चेष्टितेन च ।
येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥ ९ ॥

ऋषय ऊचुः-

पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत ।
माहात्म्यं वासुदेवस्य श्रोतुम् इच्छाम शङ्कर ॥ १० ॥

महेश्वर उवाच-

पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः ।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ ११ ॥

दशबाहुर् महातेजा देवतारिनिषूदनः ।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः ॥ १२ ॥

ब्रह्मा तस्योदरभवस् तस्याहं च शिरोभवः ।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश् च सुरासुराः ॥ १३ ॥

ऋषयो देहसम्भूतास् तस्य लोकाश् च शाश्वताः ।
पितामहगृहं साक्षात् सर्वदेवगृहं च सः ॥ १४ ॥

सो ऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः ।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ १५ ॥

स हि देवदेवः साक्षाद् देवनाथः परन्तपः ।
सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः ॥ १६ ॥

न तस्मात् परमं भूतं त्रिषु लोकेषु किञ्चन ।
सनातनो महाभागो गोविन्द इति विश्रुतः ॥ १७ ॥

स सर्वान् पार्थिवान् सङ्ख्ये घातयिष्यति मानदः ।
सुरकार्यार्थम् उत्पन्नो मानुष्यं वपुर् आस्थितः ॥ १८ ॥

नहि देवगणाः शक्तास् त्रिविक्रमविनाकृताः ।
भुवने देवकार्याणि कर्तुं नायकवर्जितः ॥ १९ ॥

नायकः सर्वभूतानां सर्वभूतनमस्कृतः ।
एतस्य देवनाथस्य कार्यस्य च परस्य च ॥ २० ॥

ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ।
ब्रह्मा वसति नाभिस्थः शरीरे ऽहं च संस्थितः ॥ २१ ॥

सर्वाः सुखं संस्थिताश् च शरीरे तस्य देवताः ।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ २२ ॥

शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः ।
उत्तमेन सुशीलेन शौचेन च दमेन च ॥ २३ ॥

पराक्रमेण वीर्येण वपुषा दर्शनेन च ।
आरोहणप्रमाणेन वीर्येणार्जवसम्पदा ॥ २४ ॥

आनृशंस्येन रूपेण बलेन च समन्वितः ।
अस्त्रैः समुदितः सर्वैर् दिव्यैर् अद्भुतदर्शनैः ॥ २५ ॥

योगमायासहस्राक्षो विरूपाक्षो महामनाः ।
वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ २६ ॥

क्षमावांश् चानहंवादी स देवो ब्रह्मदायकः ।
भयहर्ता भयार्तानां मित्रानन्दविवर्धनः ॥ २७ ॥

शरण्यः सर्वभूतानां दीनानां पालने रतः ।
श्रुतवान् अथ सम्पन्नः सर्वभूतनमस्कृतः ॥ २८ ॥

समाश्रितानाम् उपकृच् छत्रूणां भयकृत् तथा ।
नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ २९ ॥

भवार्थम् एव देवानां बुद्ध्या परमया युतः ।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ ३० ॥

समुत्पत्स्यति गोविन्दो मनोर् वंशे महात्मनः ।
अंशो नाम मनोः पुत्रो ह्य् अन्तर्धामा ततः परम् ॥ ३१ ॥

अन्तर्धाम्नो हविर्धामा प्रजापतिर् अनिन्दितः ।
प्राचीनबर्हिर् भविता हविर्धाम्नः सुतो द्विजाः ॥ ३२ ॥

तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः ।
प्राचेतसस् तथा दक्षो भवितेह प्रजापतिः ॥ ३३ ॥

दाक्षायण्यस् तथादित्यो मनुर् आदित्यतस् ततः ।
मनोश् च वंशज इला सुद्युम्नश् च भविष्यति ॥ ३४ ॥

बुधात् पुरूरवाश् चापि तस्माद् आयुर् भविष्यति ।
नहुषो भविता तस्माद् ययातिस् तस्य चात्मजः ॥ ३५ ॥

यदुस् तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति ।
क्रोष्टुश् चैव महान् पुत्रो वृजिनीवान् भविष्यति ॥ ३६ ॥

वृजिनीवतश् च भविता उषङ्गुर् अपराजितः ।
उषङ्गोर् भविता पुत्रः शूरश् चित्ररथस् तथा ॥ ३७ ॥

तस्य त्व् अवरजः पुत्रः शूरो नाम भविष्यति ।
तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् ॥ ३८ ॥

यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः ।
स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः ॥ ३९ ॥

स्ववंशविस्तारकरं जनयिष्यति मानदम् ।
वसुदेवम् इति ख्यातं पुत्रम् आनकदुन्दुभिम् ॥ ४० ॥

तस्य पुत्रश् चतुर्बाहुर् वासुदेवो भविष्यति ।
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः ॥ ४१ ॥

राज्ञो बद्धान् स सर्वान् वै मोक्षयिष्यति यादवः ।
जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे ॥ ४२ ॥

सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् ।
पृथिव्याम् अप्रतिहतो वीर्येणापि भविष्यति ॥ ४३ ॥

विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः ।
शूरः संहननो भूतो द्वारकायां वसन् प्रभुः ॥ ४४ ॥

पालयिष्यति गां देवीं विनिर्जित्य दुराशयान् ।
तं भवन्तः समासाद्य ब्राह्मणैर् अर्हणैर् वरैः ॥ ४५ ॥

अर्चयन्तु यथान्यायं ब्रह्माणम् इव शाश्वतम् ।
यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं च पितामहम् ॥ ४६ ॥

द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् ।
दृष्टे तस्मिन्न् अहं दृष्टो न मे ऽत्रास्ति विचारणा ॥ ४७ ॥

पितामहो वासुदेव इति वित्त तपोधनाः ।
स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति ॥ ४८ ॥

तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति ।
यस् तु तं मानवो लोके संश्रयिष्यति केशवम् ॥ ४९ ॥

तस्य कीर्तिर् यशश् चैव स्वर्गश् चैव भविष्यति ।
धर्माणां देशिकः साक्षाद् भविष्यति स धर्मवान् ॥ ५० ॥

धर्मविद्भिः स देवेशो नमस्कार्यः सदाच्युतः ।
धर्म एव सदा हि स्याद् अस्मिन्न् अभ्यर्चिते विभौ ॥ ५१ ॥

स हि देवो महातेजाः प्रजाहितचिकीर्षया ।
धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज च ॥ ५२ ॥

ताः सृष्टास् तेन विधिना पर्वते गन्धमादने ।
सनत्कुमारप्रमुखास् तिष्ठन्ति तपसान्विताः ॥ ५३ ॥

तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः ।
वन्दितो हि स वन्देत मानितो मानयीत च ॥ ५४ ॥

दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् ।
अर्चितश् चार्चयेन् नित्यं स देवो द्विजसत्तमाः ॥ ५५ ॥

एवं तस्यानवद्यस्य विष्णोर् वै परमं तपः ।
आदिदेवस्य महतः सज्जनाचरितं सदा ॥ ५६ ॥

भुवने ऽभ्यर्चितो नित्यं देवैर् अपि सनातनः ।
अभयेनानुरूपेण प्रपद्य तम् अनुव्रताः ॥ ५७ ॥

कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा ।
यत्नवद्भिर् उपस्थाय द्रष्टव्यो देवकीसुतः ॥ ५८ ॥

एष वै विहितो मार्गो मया वै मुनिसत्तमाः ।
तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः ॥ ५९ ॥

महावराहं तं देवं सर्वलोकपितामहम् ।
अहं चैव नमस्यामि नित्यम् एव जगत्पतिम् ॥ ६० ॥

तत्र च त्रितयं दृष्टं भविष्यति न संशयः ।
समस्ता हि वयं देवास् तस्य देहे वसामहे ॥ ६१ ॥

तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः ।
हली बल इति ख्यातो भविष्यति धराधरः ॥ ६२ ॥

त्रिशिरास् तस्य देवस्य दृष्टो ऽनन्त इति प्रभोः ।
सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली ॥ ६३ ॥

अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः ।
स च शेषो विचरते परया वै मुदा युतः ॥ ६४ ॥

अन्तर्वसति भोगेन परिरभ्य वसुन्धराम् ।
य एष विष्णुः सो ऽनन्तो भगवान् वसुधाधरः ॥ ६५ ॥

यो रामः स हृषीकेशो ऽच्युतः सर्वधराधरः ।
ताव् उभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ ॥ ६६ ॥

द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ ।
एष वो ऽनुग्रहः प्रोक्तो मया पुण्यस् तपोधनाः ।
तद् भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥ ६७ ॥