Summary (SA)
Chapter 225- On rebirth (dialogue between Śiva and Umā, cont.)
{{Ref- SS 362-363}}
उमोवाच-
किंशीलः किंसमाचारः पुरुषः कैश् च कर्मभिः ।
स्वर्गं समभिपद्येत सम्प्रदानेन केन वा ॥ १ ॥
महेश्वर उवाच-
दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु ।
भक्षभोज्यान्नपानानां वाससां च महामतिः ॥ २ ॥
प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस् तथा ।
नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥ ३ ॥
आसनं शयनं यानं गृहं रत्नं धनं तथा ।
सस्यजातानि सर्वाणि सक्षेत्राण्य् अथ योषितः ॥ ४ ॥
सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः ।
एवम्भूतो नरो देवि देवलोके ऽभिजायते ॥ ५ ॥
तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् ।
सहाप्सरोभिर् मुदितो रमित्वा नन्दनादिषु ॥ ६ ॥
तस्माच् च्युतो महेशानि मानुषेषूपजायते ।
महाभागकुले देवि धनधान्यसमाचिते ॥ ७ ॥
तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः ।
महाकार्यो महाभोगो धनी भवति मानवः ॥ ८ ॥
एते देवि महाभागाः प्राणिनो दानशालिनः ।
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ ९ ॥
अपरे मानवा देवि प्रदानकृपणा द्विजाः ।
ये ऽन्नानि न प्रयच्छन्ति विद्यमाने ऽप्य् अबुद्धयः ॥ १० ॥
दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि ।
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ ११ ॥
न धनानि न वासांसि न भोगान् न च काञ्चनम् ।
न गाश् च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ १२ ॥
अप्रलुब्धाश् च ये लुब्धा नास्तिका दानवर्जितः ।
एवम्भूता नरा देवि निरयं यान्त्य् अबुद्धयः ॥ १३ ॥
ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् ।
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ १४ ॥
क्षुत्पिपासापरीताश् च सर्वलोकबहिष्कृताः ।
निराशाः सर्वभोगेभ्यो जीवन्त्य् अधर्मजीविकाः ॥ १५ ॥
अल्पभोगकुले जाता अल्पभोगरता नराः ।
अनेन कर्मणा देवि भवन्त्य् अधनिनो नराः ॥ १६ ॥
अपरे दम्भिनो नित्यं मानिनः परतो रताः ।
आसनार्हस्य ये पीठं न यच्छन्त्य् अल्पचेतसः ॥ १७ ॥
मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्य् अबुद्धयः ।
अर्घार्हान् न च संस्कारैर् अर्चयन्ति यथाविधि ॥ १८ ॥
पाद्यम् आचमनीयं वा प्रयच्छन्त्य् अभिबुद्धयः ।
शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥ १९ ॥
अभिमानप्रवृद्धेन लोभेन समम् आस्थिताः ।
सम्मान्यांश् चावमन्यन्ते वृद्धान् परिभवन्ति च ॥ २० ॥
एवंविधा नरा देवि सर्वे निरयगामिनः ।
ते चेद् यदि नरास् तस्मान् निरयाद् उत्तरन्ति च ॥ २१ ॥
वर्षपूगैस् ततो जन्म लभन्ते कुत्सिते कुले ।
श्वपाकपुल्कसादीनां कुत्सितानाम् अचेतसाम् ॥ २२ ॥
कुलेषु ते ऽभिजायन्ते गुरुवृद्धोपतापिनः ।
न दम्भी न च मानी यो देवतातिथिपूजकः ॥ २३ ॥
लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः ।
सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥ २४ ॥
अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ।
स्वागतेनैव सर्वेषां भूतानाम् अविहिंसकः ॥ २५ ॥
यथार्थं सत्क्रियापूर्वम् अर्चयन्न् अवतिष्ठते ।
मार्गार्हाय ददन् मार्गं गुरुम् अभ्यर्चयन् सदा ॥ २६ ॥
अतिथिप्रग्रहरतस् तथाभ्यागतपूजकः ।
एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥ २७ ॥
ततो मानुष्यम् आसाद्य विशिष्टकुलजो भवेत् ।
तत्रासौ विपुलैर् भोगैः सर्वरत्नसमायुतः ॥ २८ ॥
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ।
सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥ २९ ॥
स्वकर्मफलम् आप्नोति स्वयम् एव नरः सदा ।
एष धर्मो मया प्रोक्तो विधात्रा स्वयम् ईरितः ॥ ३० ॥
यस् तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः ।
हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ ३१ ॥
लोष्टैः स्तम्भैर् उपायैर् वा जन्तून् बाधेत शोभने ।
हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि ॥ ३२ ॥
उपक्रामति जन्तूंश् च उद्वेगजननः सदा ।
एवं शीलसमाचारो निरयं प्रतिपद्यते ॥ ३३ ॥
स चेन् मनुष्यतां गच्छेद् यदि कालस्य पर्ययात् ।
बह्वाबाधापरिक्लिष्टे कुले जयति सो ऽधमे ॥ ३४ ॥
लोकद्विष्टो ऽधमः पुंसां स्वयं कर्मकृतैः फलैः ।
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ ३५ ॥
अपरः सर्वभूतानि दयावान् अनुपश्यति ।
मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ ३६ ॥
नोद्वेजयति भूतानि न च हन्ति दयापरः ।
हस्तपादैश् च नियतैर् विश्वास्यः सर्वजन्तुषु ॥ ३७ ॥
न रज्ज्वा न च दण्डेन न लोष्टैर् नायुधेन च ।
उद्वेजयति भूतानि शुभकर्मा दयापरः ॥ ३८ ॥
एवं शीलसमाचारः स्वर्गे समुपजायते ।
तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ ३९ ॥
स चेत् स्वर्गक्षयान् मर्त्यो मनुष्येषूपजायते ।
अल्पायासो निरातङ्कः स जातः सुखम् एधते ॥ ४० ॥
सुखभागी निरायासो निरुद्वेगः सदा नरः ।
एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ ४१ ॥
उमोवाच-
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ।
ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तो ऽर्थकोविदाः ॥ ४२ ॥
दुष्प्रज्ञाश् चापरे देव ज्ञानविज्ञानवर्जिताः ।
केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत् ॥ ४३ ॥
अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ।
एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर ॥ ४४ ॥
जात्यन्धाश् चापरे देव रोगार्ताश् चापरे तथा ।
नराः क्लीबाश् च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ ४५ ॥
महेश्वर उवाच-
ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस् तथा ।
परिपृच्छन्त्य् अहरहः कुशलाकुशलं सदा ॥ ४६ ॥
वर्जयन्तो ऽशुभं कर्म सेवमानाः शुभं तथा ।
लभन्ते स्वर्गतिं नित्यम् इह लोके यथासुखम् ॥ ४७ ॥
स चेन् मनुष्यतां याति मेधावी तत्र जायते ।
श्रुतं यज्ञानुगं यस्य कल्याणम् उपजायते ॥ ४८ ॥
परदारेषु ये चापि चक्षुर् दुष्टं प्रयुञ्जते ।
तेन दुष्टस्वभावेन जात्यन्धास् ते भवन्ति हि ॥ ४९ ॥
मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् ।
रोगार्तास् ते भवन्तीह नरा दुष्कृतकारिणः ॥ ५० ॥
ये तु मूढा दुराचारा वियोनौ मैथुने रताः ।
पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वम् उपयान्ति ते ॥ ५१ ॥
पशूंश् च ये वै बध्नन्ति ये चैव गुरुतल्पगाः ।
प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः ॥ ५२ ॥
उमोवाच-
अवद्यं किं तु वै कर्म निरवद्यं तथैव च ।
श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम ॥ ५३ ॥
महेश्वर उवाच-
श्रेयांसं मार्गम् अन्विच्छन् सदा यः पृच्छति द्विजान् ।
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ ५४ ॥
यदि मानुष्यतां देवि कदाचित् सन्नियच्छति ।
मेधावी धारणायुक्तः प्राज्ञस् तत्रापि जायते ॥ ५५ ॥
एष देवि सतां धर्मो गन्तव्यो भूतिकारकः ।
नृणां हितार्थाय सदा मया चैवम् उदाहृतः ॥ ५६ ॥
उमोवाच-
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः ।
ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ ५७ ॥
व्रतवन्तो नराः केचिच् छ्रद्धादमपरायणाः ।
अव्रता भ्रष्टनियमास् तथान्ये राक्षसोपमाः ॥ ५८ ॥
यज्वानश् च तथैवान्ये निर्मोहाश् च तथा परे ।
केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ ५९ ॥
महेश्वर उवाच-
आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः ।
प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः ॥ ६० ॥
अधर्मं धर्मम् इत्य् आहुर् ये च मोहवशं गताः ।
अव्रता नष्टमर्यादास् ते नरा ब्रह्मराक्षसाः ॥ ६१ ॥
ये वै कालकृतोद्योगात् सम्भवन्तीह मानवाः ।
निर्होमा निर्वषट्कारास् ते भवन्ति नराधमाः ॥ ६२ ॥
एष देवि मया सर्वसंशयच्छेदनाय ते ।
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥ ६३ ॥