224

Summary (SA)

Chapter 224- On the effects of actions (dialogue between Śiva and Umā, cont.)

{{Ref- SS 360-362}}

उमोवाच-

भगवन् सर्वभूतेश सुरासुरनमस्कृत ।
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ १ ॥

कर्मणा मनसा वाचा त्रिविधैर् देहिनः सदा ।
बध्यन्ते बन्धनैः कैर् वा मुच्यन्ते वा कथं वद ॥ २ ॥

केन शीलेन वै देव कर्मणा कीदृशेन वा ।
समाचारैर् गुणैः कैर् वा स्वर्गं यान्तीह मानवाः ॥ ३ ॥

शिव उवाच-

देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा ।
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ ४ ॥

सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः ।
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ ५ ॥

प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः ।
वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥ ६ ॥

कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन ।
ये न मज्जन्ति कस्मिंश्चित् ते न बध्नन्ति कर्मभिः ॥ ७ ॥

प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः ।
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ ८ ॥

सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ।
त्यक्तहिंस्रसमाचारास् ते नराः स्वर्गगामिनः ॥ ९ ॥

परस्वनिर्ममा नित्यं परदारविवर्जिकाः ।
धर्मलब्धार्थभोक्तारस् ते नराः स्वर्गगामिनः ॥ १० ॥

मातृवत् स्वसृवच् चैव नित्यं दुहितृवच् च ये ।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ ११ ॥

स्वदारनिरता ये च ऋतुकालाभिगामिनः ।
अग्राम्यसुखभोगाश् च ते नराः स्वर्गगामिनः ॥ १२ ॥

स्तैन्यान् निवृत्ताः सततं सन्तुष्टाः स्वधनेन च ।
स्वभाग्यान्य् उपजीवन्ति ते नराः स्वर्गगामिनः ॥ १३ ॥

परदारेषु ये नित्यं चारित्रावृतलोचनाः ।
जितेन्द्रियाः शीलपरास् ते नराः स्वर्गगामिनः ॥ १४ ॥

एष दैवकृतो मार्गः सेवितव्यः सदा नरैः ।
अकषायकृतश् चैव मार्गः सेव्यः सदा बुधैः ॥ १५ ॥

अवृथापकृतश् चैव मार्गः सेव्यः सदा बुधैः ।
दानकर्मतपोयुक्तः शीलशौचदयात्मकः ।
स्वर्गमार्गम् अभीप्सद्भिर् न सेव्यस् त्व् अत उत्तरः ॥ १६ ॥

उमोवाच-

वाचा तु बध्यते येन मुच्यते ह्य् अथवा पुनः ।
तानि कर्माणि मे देव वद भूतपते ऽनघ ॥ १७ ॥

शिव उवाच-

आत्महेतोः परार्थे वा अधर्माश्रितम् एव च ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ १८ ॥

वृत्त्यर्थं धर्महेतोर् वा कामकारात् तथैव च ।
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ १९ ॥

श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् ।
स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ २० ॥

परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा ।
न पैशुन्यरताः सन्तस् ते नराः स्वर्गगामिनः ॥ २१ ॥

पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा ।
परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥ २२ ॥

ये वर्जयन्ति परुषं परद्रोहं च मानवाः ।
सर्वभूतसमा दान्तास् ते नराः स्वर्गगामिनः ॥ २३ ॥

शठप्रलापाद् विरता विरुद्धपरिवर्जकाः ।
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ २४ ॥

न कोपाद् व्याहरन्ते ये वाचं हृदयदारिणीम् ।
शान्तिं विन्दन्ति ये क्रुद्धास् ते नराः स्वर्गगामिनः ॥ २५ ॥

एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः ।
शुभसत्यगुणैर् नित्यं वर्जनीया मृषा बुधैः ॥ २६ ॥

उमोवाच-

मनसा बध्यते येन कर्मणा पुरुषः सदा ।
तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ २७ ॥

महेश्वर उवाच-

मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा ।
स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु ॥ २८ ॥

दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः ।
नरो बध्येत येनेह शृणु वा तं शुभानने ॥ २९ ॥

अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा ।
मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥ ३० ॥

तथैव परदारान् ये कामवृत्ता रहोगताः ।
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ ३१ ॥

शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः ।
भजन्ति मैत्र्यं सङ्गम्य ते नराः स्वर्गगामिनः ॥ ३२ ॥

श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः ।
स्वैर् अर्थैः परिसन्तुष्टास् ते नराः स्वर्गगामिनः ॥ ३३ ॥

अवैरा ये त्व् अनायासा मैत्रचित्तरताः सदा ।
सर्वभूतदयावन्तस् ते नराः स्वर्गगामिनः ॥ ३४ ॥

ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः ।
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ ३५ ॥

शुभानाम् अशुभानां च कर्मणां फलसञ्चये ।
निराकाङ्क्षाश् च ये देवि ते नराः स्वर्गगामिनः ॥ ३६ ॥

पापोपेतान् वर्जयन्ति देवद्विजपराः सदा ।
समुत्थानम् अनुप्राप्तास् ते नराः स्वर्गगामिनः ॥ ३७ ॥

शुभैः कर्मफलैर् देवि मयैते परिकीर्तिताः ।
स्वर्गमार्गपरा भूयः किं त्वं श्रोतुम् इहेच्छसि ॥ ३८ ॥

उमोवाच-

महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर ।
तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुम् अर्हसि ॥ ३९ ॥

केनायुर् लभते दीर्घं कर्मणा पुरुषः प्रभो ।
तपसा वापि देवेश केनायुर् लभते महत् ॥ ४० ॥

क्षीणायुः केन भवति कर्मणा भुवि मानवः ।
विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित ॥ ४१ ॥

अपरे च महाभाग्या मन्दभाग्यास् तथा परे ।
अकुलीनाः कुलीनाश् च सम्भवन्ति तथा परे ॥ ४२ ॥

दुर्दर्शाः केचिद् आभान्ति नराः काष्ठमया इव ।
प्रियदर्शास् तथा चान्ये दर्शनाद् एव मानवाः ॥ ४३ ॥

दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः ।
महाप्रज्ञास् तथा चान्ये ज्ञानविज्ञानभाविनः ॥ ४४ ॥

अल्पवाचास् तथा केचिन् महावाचास् तथा परे ।
दृश्यन्ते पुरुषा देव ततो व्याख्यातुम् अर्हसि ॥ ४५ ॥

शिव उवाच-

हन्त ते ऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् ।
मर्त्यलोके नरः सर्वो येन स्वं फलम् अश्नुते ॥ ४६ ॥

प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा ।
नित्यम् उद्यतशस्त्रश् च हन्ति भूतगणान् नरः ॥ ४७ ॥

निर्दयः सर्वभूतेभ्यो नित्यम् उद्वेगकारकः ।
अपि कीटपतङ्गानाम् अशरण्यः सुनिर्घृणः ॥ ४८ ॥

एवम्भूतो नरो देवि निरयं प्रतिपद्यते ।
विपरीतस् तु धर्मात्मा स्वरूपेणाभिजायते ॥ ४९ ॥

निरयं याति हिंसात्मा याति स्वर्गम् अहिंसकः ।
यातनां निरये रौद्रां सकृच्छ्रां लभते नरः ॥ ५० ॥

यः कश्चिन् निरयात् तस्मात् समुत्तरति कर्हिचित् ।
मानुष्यं लभते वापि हीनायुस् तत्र जायते ॥ ५१ ॥

पापेन कर्मणा देवि युक्तो हिंसादिभिर् यतः ।
अहितः सर्वभूतानां हीनायुर् उपजायते ॥ ५२ ॥

शुभेन कर्मणा देवि प्राणिघातविवर्जितः ।
शुभेन कर्मणा देवि प्राणिघातविवर्जितः ।
निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥ ५३ ॥

न घातयति नो हन्ति घ्नन्तं नैवानुमोदते ।
सर्वभूतेषु सस्नेहो यथात्मनि तथा परे ॥ ५४ ॥

ईदृशः पुरुषो नित्यं देवि देवत्वम् अश्नुते ।
उपपन्नान् सुखान् भोगान् सदाश्नाति मुदा युतः ॥ ५५ ॥

अथ चेन् मानुषे लोके कदाचिद् उपपद्यते ।
एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् ।
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ ५६ ॥