Summary (SA)
Chapter 223- Rise and fall within the caste system (dialogue between Śiva and Umā)
{{Ref- SS 358-360}}
मुनय ऊचुः-
सर्वज्ञस् त्वं महाभाग सर्वभूतहिते रतः ।
भूतं भव्यं भविष्यं च न ते ऽस्त्य् अविदितं मुने ॥ १ ॥
कर्मणा केन वर्णानाम् अधमा जायते गतिः ।
उत्तमा च भवेत् केन ब्रूहि तेषां महामते ॥ २ ॥
शूद्रस् तु कर्मणा केन ब्राह्मणत्वं च गच्छति ।
श्रोतुम् इच्छामहे केन ब्राह्मणः शूद्रताम् इयात् ॥ ३ ॥
व्यास उवाच-
हिमवच्छिखरे रम्ये नानाधातुविभूषिते ।
नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते ॥ ४ ॥
तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् ।
शैलराजसुता देवी प्रणिपत्य सुरेश्वरम् ॥ ५ ॥
इमं प्रश्नं पुरा विप्रा अपृच्छच् चारुलोचना ।
तद् अहं सम्प्रवक्ष्यामि शृणुध्वं मम सत्तमाः ॥ ६ ॥
उमोवाच-
भगवन् भगनेत्रघ्न पूष्णो दन्तविनाशन ।
दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम् ॥ ७ ॥
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा ।
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ ८ ॥
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् ।
प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम् ॥ ९ ॥
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते ।
क्षत्रियः शूद्रताम् एति केन वा कर्मणा विभो ॥ १० ॥
एतं मे संशयं देव वद भूतपते ऽनघ ।
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यम् आप्नुयुः ॥ ११ ॥
शिव उवाच-
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे ।
क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः ॥ १२ ॥
कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति स द्विजः ।
श्रेष्ठं वर्णम् अनुप्राप्य तस्माद् आक्षिप्यते पुनः ॥ १३ ॥
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यम् उपजीवति ।
क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥ १४ ॥
यश् च विप्रत्वम् उत्सृज्य क्षत्रधर्मान् निषेवते ।
ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ १५ ॥
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ।
ब्राह्मण्यं दुर्लभं प्राप्य करोत्य् अल्पमतिः सदा ॥ १६ ॥
स द्विजो वैश्यताम् एति वैश्यो वा शूद्रताम् इयात् ।
स्वधर्मात् प्रच्युतो विप्रस् ततः शूद्रत्वम् आप्नुयात् ॥ १७ ॥
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ।
ब्रह्मलोकात् परिभ्रष्टः शूद्रयोनौ प्रजायते ॥ १८ ॥
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि ।
स्वानि कर्माण्य् अपाकृत्य शूद्रकर्म निषेवते ॥ १९ ॥
स्वस्थानात् स परिभ्रष्टो वर्णसङ्करतां गतः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ २० ॥
यस् तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ् शुचिः ।
धर्मज्ञो धर्मनिरतः स धर्मफलम् अश्नुते ॥ २१ ॥
इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् ।
अध्यात्मं नैष्ठिकी सिद्धिर् धर्मकामैर् निषेव्यते ॥ २२ ॥
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् ।
घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित् ॥ २३ ॥
शूद्रान्नं गर्हितं देवि सदा देवैर् महात्मभिः ।
पितामहमुखोत्सृष्टं प्रमाणम् इति मे मतिः ॥ २४ ॥
शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः ।
आहिताग्निस् तथा यज्वा स शूद्रगतिभाग् भवेत् ॥ २५ ॥
तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः ।
ब्राह्मणः शूद्रताम् एति नास्ति तत्र विचारणा ॥ २६ ॥
यस्यान्नेनावशेषेण जठरे म्रियते द्विजः ।
तां तां योनिं व्रजेद् विप्रो यस्यान्नम् उपजीवति ॥ २७ ॥
ब्राह्मणत्वं सुखं प्राप्य दुर्लभं यो ऽवमन्यते ।
अभोज्यान्नानि वाश्नाति स द्विजत्वात् पतेत वै ॥ २८ ॥
सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतो ऽशुचिः ।
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ २९ ॥
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी ।
विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः ॥ ३० ॥
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश् च यः ।
ब्रह्मद्विड् वापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ ३१ ॥
एभिस् तु कर्मभिर् देवि शुभैर् आचरितैस् तथा ।
शूद्रो ब्राह्मणतां गच्छेद् वैश्यः क्षत्रियतां व्रजेत् ॥ ३२ ॥
शूद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि ।
सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः ॥ ३३ ॥
शुश्रूषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः ।
कुर्याद् अविमनाः श्रेष्ठः सततं सत्पथे स्थितः ॥ ३४ ॥
देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः ।
ऋतुकालाभिगामी च नियतो नियताशनः ॥ ३५ ॥
दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः ।
वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वम् ऋच्छति ॥ ३६ ॥
ऋतवाग् अनहंवादी निर्द्वन्द्वः सामकोविदः ।
यजते नित्ययज्ञैश् च स्वाध्यायपरमः शुचिः ॥ ३७ ॥
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णानसूयकः ।
गृहस्थव्रतम् आतिष्ठन् द्विकालकृतभोजनः ॥ ३८ ॥
शेषाशी विजिताहारो निष्कामो निरहंवदः ।
अग्निहोत्रम् उपासीनो जुह्वानश् च यथाविधि ॥ ३९ ॥
सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः ।
त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः ॥ ४० ॥
स वैश्यः क्षत्रियकुले शुचिर् महति जायते ।
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ॥ ४१ ॥
उपनीतो व्रतपरो द्विजो भवति संस्कृतः ।
ददाति यजते यज्ञैः समृद्धैर् आप्तदक्षिणैः ॥ ४२ ॥
अधीत्य स्वर्गम् अन्विच्छंस् त्रेताग्निशरणः सदा ।
आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ॥ ४३ ॥
सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः ।
धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः ॥ ४४ ॥
यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः ।
ग्राम्यधर्मान् न सेवेत स्वच्छन्देनार्थकोविदः ॥ ४५ ॥
ऋतुकाले तु धर्मात्मा पत्नीम् उपाश्रयेत् सदा ।
सदोपवासी नियतः स्वाध्यायनिरतः शुचिः ॥ ४६ ॥
वहिस्कान्तरिते नित्यं शयानो ऽस्ति सदा गृहे ।
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ॥ ४७ ॥
शूद्राणां चान्नकामानां नित्यं सिद्धम् इति ब्रुवन् ।
स्वार्थाद् वा यदि वा कामान् न किञ्चिद् उपलक्षयेत् ॥ ४८ ॥
पितृदेवातिथिकृते साधनं कुरुते च यत् ।
स्ववेश्मनि यथान्यायम् उपास्ते भैक्ष्यम् एव च ॥ ४९ ॥
द्विकालम् अग्निहोत्रं च जुह्वानो वै यथाविधि ।
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ॥ ५० ॥
त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् ।
ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः ॥ ५१ ॥
वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ।
एतैः कर्मफलैर् देवि न्यूनजातिकुलोद्भवः ॥ ५२ ॥
शूद्रो ऽप्य् आगमसम्पन्नो द्विजो भवति संस्कृतः ।
ब्राह्मणो वाप्य् असद्वृत्तः सर्वसङ्करभोजनः ॥ ५३ ॥
स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः ।
कर्मभिः शुचिभिर् देवी शुद्धात्मा विजितेन्द्रियः ॥ ५४ ॥
शूद्रो ऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम् ।
स्वभावकर्मणा चैव यत्र शूद्रो ऽधितिष्ठति ॥ ५५ ॥
विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः ।
न योनिर् नापि संस्कारो न श्रुतिर् न च सन्ततिः ॥ ५६ ॥
कारणानि द्विजत्वस्य वृत्तम् एव तु कारणम् ।
सर्वो ऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ॥ ५७ ॥
वृत्ते स्थितश् च शूद्रो ऽपि ब्राह्मणत्वं च गच्छति ।
ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः ॥ ५८ ॥
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ।
एते ये विमला देवि स्थानभावनिदर्शकाः ॥ ५९ ॥
स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ।
ब्रह्मणो हि महत् क्षेत्रं लोके चरति पादवत् ॥ ६० ॥
यत् तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी ।
सन्तुष्टेन सदा भाव्यं सत्पथालम्बिना सदा ॥ ६१ ॥
ब्राह्मं हि मार्गम् आक्रम्य वर्तितव्यं बुभूषता ।
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना ॥ ६२ ॥
नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना ।
एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः ॥ ६३ ॥
आहिताग्निर् अधीयानो ब्रह्मभूयाय कल्पते ।
ब्राह्मण्यं देवि सम्प्राप्य रक्षितव्यं यतात्मना ॥ ६४ ॥
योनिप्रतिग्रहादानैः कर्मभिश् च शुचिस्मिते ।
एतत् ते गुह्यम् आख्यातं यथा शूद्रो भवेद् द्विजः ।
ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वम् आप्नुयात् ॥ ६५ ॥