Summary (SA)
Chapter 222- Rules for the conduct according to caste and stage of life
{{Ref- SS 356-358}}
मुनय ऊचुः-
श्रोतुम् इच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः ।
चतुराश्रमधर्मांश् च द्विजवर्य ब्रवीहि तान् ॥ १ ॥
व्यास उवाच-
ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् ।
शृणुध्वं संयता भूत्वा वर्णधर्मान् मयोदितान् ॥ २ ॥
दानदयातपोदेवयज्ञस्वाध्यायतत्परः ।
नित्योदकी भवेद् विप्रः कुर्याच् चाग्निपरिग्रहम् ॥ ३ ॥
वृत्त्यर्थं याजयेत् त्व् अन्यान् द्विजान् अध्यापयेत् तथा ।
कुर्यात् प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥ ४ ॥
सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजाः ।
मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ ५ ॥
गवि रत्ने च पारक्ये समबुद्धिर् भवेद् द्विजाः ।
ऋताव् अभिगमः पत्न्यां शस्यते वास्य भो द्विजाः ॥ ६ ॥
दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियो ऽपि हि ।
यजेच् च विविधैर् यज्ञैर् अधीयीत च भो द्विजाः ॥ ७ ॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥ ८ ॥
धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥ ९ ॥
दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् ।
प्राप्नोत्य् अभिमतांल् लोकान् वर्णसंस्थापको नृपः ॥ १० ॥
पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ११ ॥
तस्याप्य् अध्ययनं यज्ञो दानं धर्मश् च शस्यते ।
नित्यनैमित्तिकादीनाम् अनुष्ठानं च कर्मणाम् ॥ १२ ॥
द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् ।
क्रयविक्रयजैर् वापि धनैः कारुभवैस् तु वा ॥ १३ ॥
दानं दद्याच् च शूद्रो ऽपि पाकयज्ञैर् यजेत च ।
पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥ १४ ॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः ।
ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥ १५ ॥
दया समस्तभूतेषु तितिक्षा नाभिमानिता ।
सत्यं शौचम् अनायासो मङ्गलं प्रियवादिता ॥ १६ ॥
मैत्री चैवास्पृहा तद्वद् अकार्पण्यं द्विजोत्तमाः ।
अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ १७ ॥
आश्रमाणां च सर्वेषाम् एते सामान्यलक्षणाः ।
गुणास् तथोपधर्माश् च विप्रादीनाम् इमे द्विजाः ॥ १८ ॥
क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि ।
राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥ १९ ॥
ससामर्थ्ये सति त्याज्यम् उभाभ्याम् अपि च द्विजाः ।
तद् एवापदि कर्तव्यं न कुर्यात् कर्मसङ्करम् ॥ २० ॥
इत्य् एते कथिता विप्रा वर्णधर्मा मयाद्य वै ।
धर्मम् आश्रमिणां सम्यग् ब्रुवतो ऽपि निबोधत ॥ २१ ॥
बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरोर् गेहे वसन् विप्रा ब्रह्मचारी समाहितः ॥ २२ ॥
शौचाचाररतस् तत्र कार्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना ॥ २३ ॥
उभे सन्ध्ये रविं विप्रास् तथैवाग्निं समाहितः ।
उपतिष्ठेत् तथा कुर्याद् गुरोर् अप्य् अभिवादनम् ॥ २४ ॥
स्थिते तिष्ठेद् व्रजेद् याति नीचैर् आसीत चासिते ।
शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च सन्त्यजेत् ॥ २५ ॥
तेनैवोक्तं पठेद् वेदं नान्यचित्तः पुरस्थितः ।
अनुज्ञातं च भिक्षान्नम् अश्नीयाद् गुरुणा ततः ॥ २६ ॥
अवगाहेद् अपः पूर्वम् आचार्येणावगाहिताः ।
समिज्जलादिकं चास्य कल्यकल्यम् उपानयेत् ॥ २७ ॥
गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य वै ।
गार्हस्थ्यम् आवसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ २८ ॥
विधिनावाप्तदारस् तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्यम् अखिलं कुर्याद् विप्राः स्वशक्तितः ॥ २९ ॥
निर्वापेण पितॄन् अर्च्य यज्ञैर् देवांस् तथातिथीन् ।
अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम् ॥ ३० ॥
बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् ।
प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान् ॥ ३१ ॥
भिक्षाभुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः ।
ते ऽप्य् अत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥ ३२ ॥
वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः ।
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ ३३ ॥
अनिकेता ह्य् अनाहारा ये तु सायङ्गृहास् तु ते ।
तेषां गृहस्थः सततं प्रतिष्ठा योनिर् उच्यते ॥ ३४ ॥
तेषां स्वागतदानानि वक्तव्यं मधुरं सदा ।
गृहागतानां दद्याच् च शयनासनभोजनम् ॥ ३५ ॥
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥ ३६ ॥
अवज्ञानम् अहङ्कारो दम्भश् चापि गृहे सतः ।
परिवादोपघातौ च पारुष्यं च न शस्यते ॥ ३७ ॥
यश् च सम्यक् करोत्य् एवं गृहस्थः परमं विधिम् ।
सर्वबन्धविनिर्मुक्तो लोकान् आप्नोति चोत्तमान् ॥ ३८ ॥
वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ ३९ ॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् द्विजाः ॥ ४० ॥
चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके ।
तद्वत् त्रिषवणं स्नानं शस्तम् अस्य द्विजोत्तमाः ॥ ४१ ॥
देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् ।
भिक्षा बलिप्रदानं तु शस्तम् अस्य प्रशस्यते ॥ ४२ ॥
वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चापि शस्यते ।
तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥ ४३ ॥
यस् त्व् एता नियतश् चर्या वानप्रस्थश् चरेन् मुनिः ।
स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान् ॥ ४४ ॥
चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः ॥ ४५ ॥
पुत्रद्रव्यकलत्रेषु त्यजेत् स्नेहं द्विजोत्तमाः ।
चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः ॥ ४६ ॥
त्रैवर्णिकांस् त्यजेत् सर्वान् आरम्भान् द्विजसत्तमाः ।
मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु ॥ ४७ ॥
जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् ।
युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत् ॥ ४८ ॥
एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे ।
तथा प्रीतिर् न तिर्यक्षु द्वेषो वा नास्य जायते ॥ ४९ ॥
प्राणयात्रानिमित्तं च व्यङ्गारे ऽभुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद् गृहान् ॥ ५० ॥
अलाभे न विषादी स्याल् लाभे नैव च हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ ५१ ॥
अतिपूजितलाभांस् तु जुगुप्सं चैव सर्वतः ।
अतिपूजितलाभैस् तु यतिर् मुक्तो ऽपि बध्यते ॥ ५२ ॥
कामः क्रोधस् तथा दर्पो लोभमोहादयश् च ये ।
तांस् तु दोषान् परित्यज्य परिव्राण् निर्ममो भवेत् ॥ ५३ ॥
अभयं सर्वसत्त्वेभ्यो दत्त्वा यश् चरते महीम् ।
तस्य देहाद् विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥ ५४ ॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थं ।
शारीरम् अग्निं स्वमुखे जुहोति ।
विप्रस् तु भिक्षोपगतैर् हविर्भिश् ।
चिताग्निना स व्रजति स्म लोकान् ॥ ५५ ॥
मोक्षाश्रमं यश् चरते यथोक्तं ।
शुचिश् च सङ्कल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिर् इव प्रशान्तं ।
स ब्रह्मलोकं व्रजति द्विजातिः ॥ ५६ ॥