221

Summary (SA)

Chapter 221- On the proper conduct

{{Ref- SS 349-356}}

व्यास उवाच-

एवं सम्यग् गृहस्थेन देवताः पितरस् तथा ।
सम्पूज्या हव्यकव्याभ्याम् अन्नेनातिथिबान्धवाः ॥ १ ॥

भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः ।
भिक्षवो याचमानाश् च ये चान्ये पान्थका गृहे ॥ २ ॥

सदाचाररता विप्राः साधुना गृहमेधिना ।
पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥ ३ ॥

मुनय ऊचुः-

कथितं भवता विप्र नित्यनैमित्तिकं च यत् ।
नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥ ४ ॥

सदाचारं मुने श्रोतुम् इच्छामो वदतस् तव ।
यं कुर्वन् सुखम् आप्नोति परत्रेह च मानवः ॥ ५ ॥

व्यास उवाच-

गृहस्थेन सदा कार्यम् आचारपरिरक्षणम् ।
न ह्य् आचारविहीनस्य भद्रम् अत्र परत्र वा ॥ ६ ॥

यज्ञदानतपांसीह पुरुषस्य न भूतये ।
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ ७ ॥

दुराचारो हि पुरुषो नेहायुर् विन्दते महत् ।
कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥ ८ ॥

तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः ।
आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥ ९ ॥

त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ।
तत्संसिद्धौ गृहस्थस्य सिद्धिर् अत्र परत्र च ॥ १० ॥

पादेनाप्य् अस्य पारत्र्यं कुर्याच् छ्रेयः स्वम् आत्मवान् ।
अर्धेन चात्मभरणं नित्यनैमित्तिकानि च ॥ ११ ॥

पादेनैव तथाप्य् अस्य मूलभूतं विवर्धयेत् ।
एवम् आचरतो विप्रा अर्थः साफल्यम् ऋच्छति ॥ १२ ॥

तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता ।
परत्रार्थस् तथैवान्यः कार्यो ऽत्रैव फलप्रदः ॥ १३ ॥

प्रत्यवायभयात् कामस् तथान्यश् चाविरोधवान् ।
द्विधा कामो ऽपि रचितस् त्रिवर्गायाविरोधकृत् ॥ १४ ॥

परस्परानुबन्धांश् च सर्वान् एतान् विचिन्तयेत् ।
विपरीतानुबन्धांश् च बुध्यध्वं तान् द्विजोत्तमाः ॥ १५ ॥

धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः ।
उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः ॥ १६ ॥

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थाव् अनुचिन्तयेत् ।
समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः ॥ १७ ॥

पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ।
उपासीत यथान्यायं नैनां जह्याद् अनापदि ॥ १८ ॥

असत्प्रलापम् अनृतं वाक्पारुष्यं च वर्जयेत् ।
असच्छास्त्रम् असद्वादम् असत्सेवां च वै द्विजाः ॥ १९ ॥

सायम्प्रातस् तथा होमं कुर्वीत नियतात्मवान् ।
नोदयास्तमने चैवम् उदीक्षेत विवस्वतः ॥ २० ॥

केशप्रसाधनादर्शदन्तधावनम् अञ्जनम् ।
पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥ २१ ॥

ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि ।
न विण्मूत्रम् अनुष्ठेयं न च कृष्टे न गोव्रजे ॥ २२ ॥

नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत् ।
उदक्यादर्शनस्पर्शम् एवं सम्भाषणं तथा ॥ २३ ॥

नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।
नाधितिष्ठेच् छकृन्मूत्रे केशभस्मसपालिकाः ॥ २४ ॥

तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च ।
नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि ॥ २५ ॥

पितृदेवमनुष्याणां भूतानां च तथार्चनम् ।
कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुम् अर्हति ॥ २६ ॥

प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः ।
भुञ्जीत चान्नं तच्चित्तो ह्य् अन्तर्जानुः सदा नरः ॥ २७ ॥

उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः ।
प्रत्यक्षलवणं वर्ज्यम् अन्नम् उच्छिष्टम् एव च ॥ २८ ॥

न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गम् आत्मवान् ।
कुर्वीत चैवम् उच्छिष्टं न किञ्चिद् अपि भक्षयेत् ॥ २९ ॥

उच्छिष्टो नालपेत् किञ्चित् स्वाध्यायं च विवर्जयेत् ।
न पश्येच् च रविं चेन्दुं नक्षत्राणि च कामतः ॥ ३० ॥

भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् ।
गुरूणाम् आसनं देयम् अभ्युत्थानादिसत्कृतम् ॥ ३१ ॥

अनुकूलं तथालापम् अभिकुर्वीत बुद्धिमान् ।
तत्रानुगमनं कुर्यात् प्रतिकूलं न सञ्चरेत् ॥ ३२ ॥

नैकवस्त्रश् च भुञ्जीत न कुर्याद् देवतार्चनम् ।
नावाहयेद् द्विजान् अग्नौ होमं कुर्वीत बुद्धिमान् ॥ ३३ ॥

न स्नायीत नरो नग्नो न शयीत कदाचन ।
न पाणिभ्याम् उभाभ्यां तु कण्डूयेत शिरस् तथा ॥ ३४ ॥

न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः ।
शिरःस्नातश् च तैलेन नाङ्गं किञ्चिद् उपस्पृशेत् ॥ ३५ ॥

अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् ।
ब्राह्मणानलगोसूर्यान् नावमन्येत् कदाचन ॥ ३६ ॥

उदङ्मुखो दिवा रात्राव् उत्सर्गं दक्षिणामुखः ।
आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः ॥ ३७ ॥

दुष्कृतं न गुरोर् ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ।
परिवादं न शृणुयाद् अन्येषाम् अपि कुर्वताम् ॥ ३८ ॥

पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च ।
विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः ॥ ३९ ॥

मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च ।
देवालयं चैद्यतरुं तथैव च चतुष्पथम् ॥ ४० ॥

विद्याधिकं गुरुं चैव बुधः कुर्यात् प्रदक्षिणम् ।
उपानद्वस्त्रमाल्यादि धृतम् अन्यैर् न धारयेत् ॥ ४१ ॥

चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु ।
तैलाभ्यङ्गं तथा भोगं योषितश् च विवर्जयेत् ॥ ४२ ॥

नोत्क्षिप्तबाहुजङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन ।
न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत् ॥ ४३ ॥

पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च ।
मर्माभिघातम् आक्रोशं पैशुन्यं च विवर्जयेत् ॥ ४४ ॥

दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः ।
मूर्खोन्मत्तव्यसनिनो विरूपान् अपि वा तथा ॥ ४५ ॥

न्यूनाङ्गांश् चाधनांश् चैव नोपहासेन दूषयेत् ।
परस्य दण्डं नोद्यच्छेच् छिक्षार्थं शिष्यपुत्रयोः ॥ ४६ ॥

तद्वन् नोपविशेत् प्राज्ञः पादेनाकृष्य चासनम् ।
संयावं कृशरं मांसं नात्मार्थम् उपसाधयेत् ॥ ४७ ॥

सायं प्रातश् च भोक्तव्यं कृत्वा चातिथिपूजनम् ।
प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम् ॥ ४८ ॥

कुर्वीत सततं विप्रा वर्जयेद् वर्ज्यवीरुधम् ।
नोदक्शिराः स्वपेज् जातु न च प्रत्यक्शिरा नरः ॥ ४९ ॥

शिरस् त्व् आगस्त्याम् आधाय शयीताथ पुरन्दरीम् ।
न तु गन्धवतीष्व् अप्सु शयीत न तथोषसि ॥ ५० ॥

उपरागे परं स्नानम् ऋते दिनम् उदाहृतम् ।
अपमृज्यान् न वस्त्रान्तैर् गात्राण्य् अम्बरपाणिभिः ॥ ५१ ॥

न चावधूनयेत् केशान् वाससी न च निर्धुनेत् ।
अनुलेपनम् आदद्यान् नास्नातः कर्हिचिद् बुधः ॥ ५२ ॥

न चापि रक्तवासाः स्याच् चित्रासितधरो ऽपि वा ।
न च कुर्याद् विपर्यासं वाससोर् नापि भूषयोः ॥ ५३ ॥

वर्ज्यं च विदशं वस्त्रम् अत्यन्तोपहतं च यत् ।
कीटकेशावपन्नं च तथा श्वभिर् अवेक्षितम् ॥ ५४ ॥

अवलीढं शुना चैव सारोद्धरणदूषितम् ।
पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत् ॥ ५५ ॥

न भक्षयेच् च सततं प्रत्यक्षं लवणं नरः ।
वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत् ॥ ५६ ॥

पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः ।
तथा मांसविकाराश् च नैव वर्ज्याश् चिरोषिताः ॥ ५७ ॥

उदयास्तमने भानोः शयनं च विवर्जयेत् ।
नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥ ५८ ॥

न चैव शयने नोर्व्याम् उपविष्टो न शब्दकृत् ।
प्रेष्याणाम् अप्रदायाथ न भुञ्जीत कदाचन ॥ ५९ ॥

भुञ्जीत पुरुषः स्नातः सायम्प्रातर् यथाविधि ।
परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥ ६० ॥

इष्टापूर्तायुषां हन्त्री परदारगतिर् नृणाम् ।
नहीदृशम् अनायुष्यं लोके किञ्चन विद्यते ॥ ६१ ॥

यादृशं पुरुषस्येह परदाराभिमर्शनम् ।
देवाग्निपितृकार्याणि तथा गुर्वभिवादनम् ॥ ६२ ॥

कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम् ।
अफेनशब्दगन्धाभिर् अद्भिर् अच्छाभिर् आदरात् ॥ ६३ ॥

आचामेच् चैव तद्वच् च प्राङ्मुखोदङ्मुखो ऽपि वा ।
अन्तर्जलाद् आवसथाद् वल्मीकान् मूषिकास्थलात् ॥ ६४ ॥

कृतशौचावशिष्टाश् च वर्जयेत् पञ्च वै मृदः ।
प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥ ६५ ॥

अन्तर्जानुस् तथाचामेत् त्रिश् चतुर् वापि वै नरः ।
परिमृज्य द्विर् आवर्त्य खानि मूर्धानम् एव च ॥ ६६ ॥

सम्यग् आचम्य तोयेन क्रियां कुर्वीत वै शुचिः ।
क्षुते ऽवलीढे वाते च तथा निष्ठीवनादिषु ॥ ६७ ॥

कुर्याद् आचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् ।
कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च ॥ ६८ ॥

यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् ।
न विद्यमाने पूर्वोक्त उत्तरप्राप्तिर् इष्यते ॥ ६९ ॥

न कुर्याद् दन्तसङ्घर्षं नात्मनो देहताडनम् ।
स्वापे ऽध्वनि तथा भुञ्जन् स्वाध्यायं च विवर्जयेत् ॥ ७० ॥

सन्ध्यायां मैथुनं चापि तथा प्रस्थानम् एव च ।
तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम् ॥ ७१ ॥

शिरःस्नानं च कुर्वीत दैवं पित्र्यम् अथापि च ।
प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥ ७२ ॥

व्यङ्गिनीं वर्जयेत् कन्यां कुलजां वाप्य् अरोगिणीम् ।
उद्वहेत् पितृमात्रोश् च सप्तमीं पञ्चमीं तथा ॥ ७३ ॥

रक्षेद् दारांस् त्यजेद् ईर्ष्यां तथाह्नि स्वप्नमैथुने ।
परोपतापकं कर्म जन्तुपीडां च सर्वदा ॥ ७४ ॥

उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् ।
स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत् ॥ ७५ ॥

ततः षष्ठ्यां व्रजेद् रात्र्यां ज्येष्ठयुग्मासु रात्रिषु ।
युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ॥ ७६ ॥

विधर्मिणो वै पर्वादौ सन्ध्याकालेषु षण्ढकाः ।
क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः ॥ ७७ ॥

ब्रुवताम् अविनीतानां न श्रोतव्यं कदाचन ।
न चोत्कृष्टासनं देयम् अनुत्कृष्टस्य चादरात् ॥ ७८ ॥

क्षुरकर्मणि चान्ते च स्त्रीसम्भोगे च भो द्विजाः ।
स्नायीत चैलवान् प्राज्ञः कटभूमिम् उपेत्य च ॥ ७९ ॥

देववेदद्विजातीनां साधुसत्यमहात्मनाम् ।
गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम् ॥ ८० ॥

परिवादं न कुर्वीत परिहासं च भो द्विजाः ।
धवलाम्बरसंवीतः सितपुष्पविभूषितः ॥ ८१ ॥

सदा माङ्गल्यवेषः स्यान् न वामाङ्गल्यवान् भवेत् ।
नोद्धतोन्मत्तमूढैश् च नाविनीतैश् च पण्डितः ॥ ८२ ॥

गच्छेन् मैत्रीम् अशीलेन न वयोजातिदूषितैः ।
न चातिव्ययशीलैश् च पुरुषैर् नैव वैरिभिः ॥ ८३ ॥

कार्याक्षमैर् निन्दितैर् न न चैव विटसङ्गिभिः ।
निस्वैर् न वादैकपरैर् नरैश् चान्यैस् तथाधमैः ॥ ८४ ॥

सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सह ।
उत्तिष्ठेद् विभवाच् चैनान् अर्चयेद् गृहम् आगतान् ॥ ८५ ॥

यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् ।
सम्यग् गृहे ऽर्चनं कृत्वा यथास्थानम् अनुक्रमात् ॥ ८६ ॥

सम्पूजयेत् तथा वह्नौ प्रदद्याच् चाहुतीः क्रमात् ।
प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः ॥ ८७ ॥

तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम् ।
ततो ऽनुमतये दद्याद् दद्याद् बहुबलिं ततः ॥ ८८ ॥

पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया ।
वैश्वदेवं ततः कुर्याद् वदत शृणुत द्विजाः ॥ ८९ ॥

यथास्थानविभागं तु देवान् उद्दिश्य वै पृथक् ।
पर्जन्यापोधरित्रीणां दद्यात् तु मणिके त्रयम् ॥ ९० ॥

वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् ।
ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात् ॥ ९१ ॥

विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च ।
उषसे भूतपतये दद्याद् वोत्तरतः शुचिः ॥ ९२ ॥

स्वधा च नम इत्य् उक्त्वा पितृभ्यश् चैव दक्षिणे ।
कृत्वापसव्यं वायव्यां यक्ष्मैतत् तैति संवदन् ॥ ९३ ॥

अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि ।
देवानां च ततः कुर्याद् ब्राह्मणानां नमस्क्रियाम् ॥ ९४ ॥

अङ्गुष्ठोत्तरतो रेखा पाणेर् या दक्षिणस्य च ।
एतद् ब्राह्मम् इति ख्यातं तीर्थम् आचमनाय वै ॥ ९५ ॥

तर्जन्यङ्गुष्ठयोर् अन्तः पित्र्यं तीर्थम् उदाहृतम् ।
पितॄणां तेन तोयानि दद्यान् नान्दीमुखाद् ऋते ॥ ९६ ॥

अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।
तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः ॥ ९७ ॥

एवम् एभिः सदा तीर्थैर् विधानं पितृभिः सह ।
सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन ॥ ९८ ॥

ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा ।
देवतीर्थेन देवानां प्राजापत्यं जितेन च ॥ ९९ ॥

नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् ।
प्राजापत्येन तीर्थेन यच् च किञ्चित् प्रजापतेः ॥ १०० ॥

युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः ।
गुरुदेवपितॄन् विप्रान् न च पादौ प्रसारयेत् ॥ १०१ ॥

नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ।
शौचकालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः ।
न विलम्बेत मेधावी न मुखेनानलं धमेत् ॥ १०२ ॥

तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणप्रदाता वैद्यश् च श्रोत्रियः सजला नदी ॥ १०३ ॥

जितभृत्यो नृपो यत्र बलवान् धर्मतत्परः ।
तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ॥ १०४ ॥

पौराः सुसंहता यत्र सततं न्यायवर्तिनः ।
शान्तामत्सरिणो लोकास् तत्र वासः सुखोदयः ॥ १०५ ॥

यस्मिन् कृषीवला राष्ट्रे प्रायशो नातिमानिनः ।
यत्रौषधान्य् अशेषाणि वसेत् तत्र विचक्षणः ॥ १०६ ॥

तत्र विप्रा न वस्तव्यं यत्रैतत् त्रितयं सदा ।
जिगीषुः पूर्ववैरश् च जनश् च सततोत्सवः ॥ १०७ ॥

वसेन् नित्यं सुशीलेषु सहचारिषु पण्डितः ।
यत्राप्रधृष्यो नृपतिर् यत्र सस्यप्रदा मही ॥ १०८ ॥

इत्य् एतत् कथितं विप्रा मया वो हितकाम्यया ।
अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम् ॥ १०९ ॥

भोज्यम् अन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ ११० ॥

शशकः कच्छपो गोधा श्वाविन् मत्स्यो ऽथ शल्यकः ।
भक्ष्याश् चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ॥ १११ ॥

पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया ।
प्रोक्षितं चौषधार्थं च खादन् मांसं न दुष्यति ॥ ११२ ॥

शङ्खाश्मस्वर्णरूप्याणां रज्जूनाम् अथ वाससाम् ।
शाकमूलफलानां च तथा विदलचर्मणाम् ॥ ११३ ॥

मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च ।
पात्राणां चमसानां च अम्बुना शौचम् इष्यते ॥ ११४ ॥

तथाश्मकानां तोयेन अश्मसङ्घर्षणेन च ।
सस्नेहानां च पात्राणां शुद्धिर् उष्णेन वारिणा ॥ ११५ ॥

शूर्पाणाम् अजिनानां च मुशलोलूखलस्य च ।
संहतानां च वस्त्राणां प्रोक्षणात् सञ्चयस्य च ॥ ११६ ॥

वल्कलानाम् अशेषाणाम् अम्बुमृच्छौचम् इष्यते ।
आविकानां समस्तानां केशानां चैवम् इष्यते ॥ ११७ ॥

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
शोधनं चैव भवति उपघातवतां सदा ॥ ११८ ॥

तथा कार्पासिकानां च शुद्धिः स्याज् जलभस्मना ।
दारुदन्तास्थिशृङ्गाणां तक्षणाच् छुद्धिर् इष्यते ॥ ११९ ॥

पुनः पाकेन भाण्डानां पार्थिवानाम् अमेध्यता ।
शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा ॥ १२० ॥

रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् ।
प्राक्प्रशस्तं चिरातीतम् अनेकान्तरितं लघु ॥ १२१ ॥

अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् ।
कर्मान्तागारशालाश् च स्तनद्वयं शुचि स्त्रियाः ॥ १२२ ॥

शुचयश् च तथैवापः स्रवन्त्यो गन्धवर्जिताः ।
भूमिर् विशुध्यते कालाद् दाहमार्जनगोकुलैः ॥ १२३ ॥

लेपाद् उल्लेखनात् सेकाद् वेश्म सम्मार्जनादिना ।
केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥ १२४ ॥

मृदम्बु भस्म चाप्य् अन्ने प्रक्षेप्तव्यं विशुद्धये ।
औदुम्बराणाम् अम्लेन वारिणा त्रपुसीसयोः ॥ १२५ ॥

भस्माम्बुभिश् च कांस्यानां शुद्धिः प्लावो द्रवस्य च ।
अमेध्याक्तस्य मृत्तोयैर् गन्धापहरणेन च ॥ १२६ ॥

अन्येषां चैव द्रव्याणां वर्णगन्धांश् च हारयेत् ।
शुचि मांसं तु चाण्डालक्रव्यादैर् विनिपातितम् ॥ १२७ ॥

रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः ।
रजो ऽग्निर् अश्वगोछाया रश्मयः पवनो मही ॥ १२८ ॥

विप्लुषो मक्षिकाद्याश् च दुष्टसङ्गाद् अदोषिणः ।
अजाश्वं मुखतो मेध्यं न गोर् वत्सस्य चाननम् ॥ १२९ ॥

मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने ।
आसनं शयनं यानं तटौ नद्यास् तृणानि च ॥ १३० ॥

सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् ।
रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु ॥ १३१ ॥

आचामेत यथान्यायं वाससः परिधापने ।
स्पृष्टानाम् अथ संस्पर्शैर् द्विरथ्याकर्दमाम्भसि ॥ १३२ ॥

पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् ।
प्रभूतोपहताद् अन्नाद् अग्रम् उद्धृत्य सन्त्यजेत् ॥ १३३ ॥

शेषस्य प्रोक्षणं कुर्याद् आचम्याद्भिस् तथा मृदा ।
उपवासस् त्रिरात्रं तु दुष्टभक्ताशिनो भवेत् ॥ १३४ ॥

अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु ।
उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः ॥ १३५ ॥

स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ।
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ॥ १३६ ॥

आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ।
न लङ्घयेत् तथैवाथ ष्ठीवनोद्वर्तनानि च ॥ १३७ ॥

गृहाद् उच्छिष्टविण्मूत्रं पादाम्भस् तत् क्षिपेद् बहिः ।
पञ्चपिण्डान् अनुद्धृत्य न स्नायात् परवारिणि ॥ १३८ ॥

स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च ।
नोद्यानादौ विकालेषु प्राज्ञस् तिष्ठेत् कदाचन ॥ १३९ ॥

नालपेज् जनविद्विष्टान् वीरहीनास् तथा स्त्रियः ।
देवतापितृसच्छास्त्रयज्विसन्न्यासिनिन्दकैः ॥ १४० ॥

कृत्वा तु स्पर्शनालापं शुध्यत्य् अर्कावलोकनात् ।
अवलोक्य तथोदक्यां सन्न्यस्तं पतितं शवम् ॥ १४१ ॥

विधर्मिसूतिकाषण्ढविवस्त्रान्त्यावसायिनः ।
मृतनिर्यातकांश् चैव परदाररताश् च ये ॥ १४२ ॥

एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः ।
अभोज्यभिक्षुपाखण्डमार्जारखरकुक्कुटान् ॥ १४३ ॥

पतितापविद्धचाण्डालमृताहारांश् च धर्मवित् ।
संस्पृश्य शुध्यते स्नानाद् उदक्याग्रामशूकरौ ॥ १४४ ॥

तद्वच् च सूतिकाशौचदूषितौ पुरुषाव् अपि ।
यस्य चानुदिनं हानिर् गृहे नित्यस्य कर्मणः ॥ १४५ ॥

यश् च ब्राह्मणसन्त्यक्तः किल्बिषाशी नराधमः ।
नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ॥ १४६ ॥

तस्य त्व् अकरणं वक्ष्ये केवलं मृतजन्मसु ।
दशाहं ब्राह्मणस् तिष्ठेद् दानहोमविवर्जितः ॥ १४७ ॥

क्षत्रियो द्वादशाहं च वैश्यो मासार्धम् एव च ।
शूद्रश् च मासम् आसीत निजकर्मविवर्जितः ॥ १४८ ॥

ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् ।
प्रेताय सलिलं देयं बहिर् गत्वा तु गोत्रकैः ॥ १४९ ॥

प्रथमे ऽह्नि चतुर्थे च सप्तमे नवमे तथा ।
तस्यास्थिसञ्चयः कार्यश् चतुर्थे ऽहनि गोत्रकैः ॥ १५० ॥

ऊर्ध्वं सञ्चयनात् तेषाम् अङ्गस्पर्शो विधीयते ।
गोत्रकैस् तु क्रियाः सर्वाः कार्याः सञ्चयनात् परम् ॥ १५१ ॥

स्पर्श एव सपिण्डानां मृताहनि तथोभयोः ।
अन्वर्थम् इच्छया शस्त्ररज्जुबन्धनवह्निषु ॥ १५२ ॥

विषप्रतापादिमृते प्रायानाशकयोर् अपि ।
बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ॥ १५३ ॥

सद्यः शौचं मनुष्याणां त्र्यहम् उक्तम् अशौचकम् ।
सपिण्डानां सपिण्डस् तु मृते ऽन्यस्मिन् मृतो यदि ॥ १५४ ॥

पूर्वशौचं समाख्यातं कार्यास् तत्र दिनक्रियाः ।
एष एव विधिर् दृष्टो जन्मन्य् अपि हि सूतके ॥ १५५ ॥

सपिण्डानां सपिण्डेषु यथावत् सोदकेषु च ।
पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते ॥ १५६ ॥

तत्रापि यदि वान्यस्मिन्न् अनुयातस् ततः परम् ।
तत्रापि शुद्धिर् उदिता पूर्वजन्मवतो दिनैः ॥ १५७ ॥

दशद्वादशमासार्धमाससङ्ख्यैर् दिनैर् गतैः ।
स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ॥ १५८ ॥

प्रेतम् उद्दिश्य कर्तव्यम् एकोद्दिष्टम् अतः परम् ।
दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ॥ १५९ ॥

यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे ।
तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥ १६० ॥

पूर्णैस् तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः ।
दत्तप्रेतोदपिण्डाश् च सर्वे वर्णाः कृतक्रियाः ॥ १६१ ॥

कुर्युः समग्राः शुचिनः परत्रेह च भूतये ।
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥ १६२ ॥

धर्मतो धनम् आहार्यं यष्टव्यं चापि यत्नतः ।
येन प्रकुपितो नात्मा जुगुप्साम् एति भो द्विजाः ॥ १६३ ॥

तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजनैः ।
एवम् आचरतो विप्राः पुरुषस्य गृहे सतः ॥ १६४ ॥

धर्मार्थकामं सम्प्राप्य परत्रेह च शोभनम् ।
इदं रहस्यम् आयुष्यं धन्यं बुद्धिविवर्धनम् ॥ १६५ ॥

सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् ।
यशःकीर्तिप्रदं नॄणां तेजोबलविवर्धनम् ॥ १६६ ॥

अनुष्ठेयं सदा पुम्भिः स्वर्गसाधनम् उत्तमम् ।
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् च मुनिसत्तमाः ॥ १६७ ॥

ज्ञातव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः ।
ज्ञात्वैव यः सदा कालम् अनुष्ठानं करोति वै ॥ १६८ ॥

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ।
सारात् सारतरं चेदम् आख्यातं द्विजसत्तमाः ॥ १६९ ॥

श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् ।
न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः ।
न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने ॥ १७० ॥