220

Summary (SA)

Chapter 220- Prescriptions for ancestral rites; their effects

{{Ref- SS 341-348}}

मुनय ऊचुः-

भूयः प्रब्रूहि भगवञ् श्राद्धकल्पं सुविस्तरात् ।
कथं क्व च कदा केषु कैस् तद् ब्रूहि तपोधन ॥ १ ॥

व्यास उवाच-

शृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् ।
यथा यत्र यदा येषु यैर् द्रव्यैस् तद् वदाम्य् अहम् ॥ २ ॥

ब्राह्मणैः क्षत्रियैर् वैश्यैः श्राद्धं स्ववरणोदितम् ।
कुलधर्मम् अनुतिष्ठद्भिर् दातव्यं मन्त्रपूर्वकम् ॥ ३ ॥

स्त्रीभिर् वर्णावरैः शूद्रैर् विप्राणाम् अनुशासनात् ।
अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥ ४ ॥

पुष्करादिषु तीर्थेषु पुण्येष्व् आयतनेषु च ।
शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥ ५ ॥

सरित्सु पुण्यतोयासु नदेषु च सरःसु च ।
सङ्गमेषु नदीनां च समुद्रेषु च सप्तसु ॥ ६ ॥

स्वनुलिप्तेषु गेहेषु स्वेष्व् अनुज्ञापितेषु च ।
दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥ ७ ॥

श्राद्धम् एतेषु दातव्यं वर्ज्यम् एतेषु चोच्यते ।
किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्व् अपि ॥ ८ ॥

दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्व् अपि ।
सिन्धोर् उत्तरकूलेषु नर्मदायाश् च दक्षिणे ॥ ९ ॥

पूर्वेषु करतोयाया न देयं श्राद्धम् उच्यते ।
श्राद्धं देयम् उशन्तीह मासि मास्य् उडुपक्षये ॥ १० ॥

पौर्णमासेषु श्राद्धं च कर्तव्यम् ऋक्षगोचरे ।
नित्यश्राद्धम् अदैवं च मनुष्यैः सह गीयते ॥ ११ ॥

नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा ।
काम्यान्य् अन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥ १२ ॥

वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च ।
तत्र युग्मान् द्विजान् आहुर् मन्त्रपूर्वं तु वै द्विजाः ॥ १३ ॥

कन्यां गते सवितरि दिनानि दश पञ्च च ।
पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥ १४ ॥

प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी ॥ १५ ॥

श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन् नरः ।
गणाधिपत्यं सप्तम्याम् अष्टम्यां बुद्धिम् उत्तमाम् ॥ १६ ॥

स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।
वेदांस् तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥ १७ ॥

द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः ।
प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिम् उत्तमाम् ॥ १८ ॥

दीर्घायुर् अथवैश्वर्यं कुर्वाणस् तु त्रयोदशीम् ।
अवाप्नोति न सन्देहः श्राद्धं श्रद्धासमन्वितः ॥ १९ ॥

यथासम्भविनान्नेन श्राद्धं श्रद्धासमन्वितः ।
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ २० ॥

तेन कार्यं चतुर्दश्यां तेषां तृप्तिम् अभीप्सता ।
श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः ॥ २१ ॥

सर्वान् कामान् अवाप्नोति स्वर्गं चानन्तम् अश्नुते ।
अतःपरं मुनिश्रेष्ठाः शृणुध्वं वदतो मम ॥ २२ ॥

पितॄणां प्रीतये यत्र यद् देयं प्रीतिकारिणा ।
मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते ॥ २३ ॥

मासद्वयं मत्स्यमांसैस् तृप्तिं यान्ति पितामहाः ।
त्रीन् मासान् हारिणं मांसं विज्ञेयं पितृतृप्तये ॥ २४ ॥

पुष्णाति चतुरो मासाञ् शशस्य पिशितं पितॄन् ।
शाकुनं पञ्च वै मासान् षण् मासाञ् शूकरामिषम् ॥ २५ ॥

छागलं सप्त वै मासान् ऐणेयं चाष्टमासकान् ।
करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥ २६ ॥

गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् ।
तथैकादश मासांस् तु औरभ्रं पितृतृप्तिदम् ॥ २७ ॥

संवत्सरं तथा गव्यं पयः पायसम् एव च ।
वाध्रीनम् आमिषं लोहं कालशाकं तथा मधु ॥ २८ ॥

रोहितामिषम् अन्नं च दत्तान्य् आत्मकुलोद्भवैः ।
अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस् तथा ॥ २९ ॥

पितॄणां नात्र सन्देहो गयाश्राद्धं च भो द्विजाः ।
यो ददाति गुडोन्मिश्रांस् तिलान् वा श्राद्धकर्मणि ॥ ३० ॥

मधु वा मधुमिश्रं वा अक्षयं सर्वम् एव तत् ।
अपि नः स कुले भूयाद् यो नो दद्याज् जलाञ्जलिम् ॥ ३१ ॥

पायसं मधुसंयुक्तं वर्षासु च मघासु च ।
एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ॥ ३२ ॥

गौरीं वाप्य् उद्वहेत् कन्यां नीलं वा वृषम् उत्सृजेत् ।
कृत्तिकासु पितॄन् अर्च्य स्वर्गम् आप्नोति मानवः ॥ ३३ ॥

अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् ।
शौर्यम् आर्द्रासु चाप्नोति क्षेत्राणि च पुनर्वसौ ॥ ३४ ॥

पुष्ये तु धनम् अक्षय्यम् आश्लेषे चायुर् उत्तमम् ।
मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च ॥ ३५ ॥

प्रधानशीलो भवति सापत्यश् चोत्तरासु च ।
प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः ॥ ३६ ॥

रूपं तेजश् च चित्रासु तथापत्यम् अवाप्नुयात् ।
वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥ ३७ ॥

कुर्वन्तां चानुराधासु ता दद्युश् चक्रवर्तिताम् ।
आधिपत्यं च ज्येष्ठासु मूले चारोग्यम् उत्तमम् ॥ ३८ ॥

आषाढासु यशःप्राप्तिर् उत्तरासु विशोकता ।
श्रवणेन शुभांल् लोकान् धनिष्ठासु धनं महत् ॥ ३९ ॥

वेदवित्त्वम् अभिजिति भिषक्सिद्धिं च वारुणे ।
अजाविकं प्रौष्ठपद्यां विन्देद् गावस् तथोत्तरे ॥ ४० ॥

रेवतीषु तथा कुप्यम् अश्विनीषु तुरङ्गमान् ।
श्राद्धं कुर्वंस् तथाप्नोति भरणीष्व् आयुर् उत्तमम् ॥ ४१ ॥

एवं फलम् अवाप्नोति ऋक्षेष्व् एतेषु तत्त्ववित् ।
तस्मात् काम्यानि श्राद्धानि देयानि विधिवद् द्विजाः ॥ ४२ ॥

कन्याराशिगते सूर्ये फलम् अत्यन्तम् इच्छता ।
यान् यान् कामान् अभिध्यायन् कन्याराशिगते रवौ ॥ ४३ ॥

श्राद्धं कुर्वन्ति मनुजास् तांस् तान् कामांल् लभन्ति ते ।
नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ ॥ ४४ ॥

पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा ।
दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च ॥ ४५ ॥

पिण्डम् इच्छन्ति पितरः कन्याराशिगते रवौ ।
कन्यां गते सवितरि यान्य् अहानि तु षोडश ॥ ४६ ॥

क्रतुभिस् तानि तुल्यानि देवो नारायणो ऽब्रवीत् ।
राजसूयाश्वमेधाभ्यां य इच्छेद् दुर्लभं फलम् ॥ ४७ ॥

अप्य् अम्बुशाकमूलाद्यैः पितॄन् कन्यागते ऽर्चयेत् ।
उत्तराहस्तनक्षत्रगते तीक्ष्णांशुमालिनि ॥ ४८ ॥

यो ऽर्चयेत् स्वपितॄन् भक्त्या तस्य वासस् त्रिविष्टपे ।
हस्तर्क्षगे दिनकरे पितृराजानुशासनात् ॥ ४९ ॥

तावत् पितृपुरी शून्या यावद् वृश्चिकदर्शनम् ।
वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ॥ ५० ॥

निःश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुःसहम् ।
अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै ॥ ५१ ॥

अन्वष्टकासु क्रमशो मातृपूर्वं तद् इष्यते ।
ग्रहणे च व्यतीपाते रविचन्द्रसमागमे ॥ ५२ ॥

जन्मर्क्षे ग्रहपीडायां श्राद्धं पार्वणम् उच्यते ।
अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥ ५३ ॥

सङ्क्रान्तिषु च कर्तव्यं श्राद्धं विधिवद् उत्तमम् ।
एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणाद् ऋते ॥ ५४ ॥

वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च ।
श्राद्धं कार्यं तु शुक्लायां सङ्क्रान्तिविधिना नरैः ॥ ५५ ॥

त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षये ऽहनि ।
श्राद्धं कार्यं पायसेन ।
दक्षिणायनवच् च तत् ॥ ५६ ॥

यदा च श्रोत्रियो ऽभ्येति गेहं वेदविद् अग्निमान् ।
तेनैकेन च कर्तव्यं श्राद्धं विधिवद् उत्तमम् ॥ ५७ ॥

श्राद्धीयद्रव्यसम्प्राप्तिर् यदा स्यात् साधुसम्मता ।
पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः ॥ ५८ ॥

प्रतिसंवत्सरं कार्यं मातापित्रोर् मृते ऽहनि ।
पितृव्यस्याप्य् अपुत्रस्य भ्रातुर् ज्येष्ठस्य चैव हि ॥ ५९ ॥

पार्वणं देवपूर्वं स्याद् एकोद्दिष्टं सुरैर् विना ।
द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा ॥ ६० ॥

मातामहानाम् अप्य् एवं सर्वम् ऊहेन कीर्तितम् ।
प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा ॥ ६१ ॥

सतिलं सकुशं दद्याद् बहिर् जलसमीपतः ।
तृतीये ऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः ॥ ६२ ॥

दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ६३ ॥

सूतकान्ते गृहे श्राद्धम् एकोद्दिष्टं प्रचक्षते ।
द्वादशे ऽहनि मासे च त्रिपक्षे च ततः परम् ॥ ६४ ॥

मासि मासि च कर्तव्यं यावत् संवत्सरं द्विजाः ।
तत परतरं कार्यं सपिण्डीकरणं क्रमात् ॥ ६५ ॥

कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः ।
ततः प्रभृति निर्मुक्ताः प्रेतत्वात् पितृतां गताः ॥ ६६ ॥

अमूर्ता मूर्तिमन्तश् च पितरो द्विविधाः स्मृताः ।
नान्दीमुखास् त्व् अमूर्ताः स्युर् मूर्तिमन्तो ऽथ पार्वणाः ।
एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस् त्रिधा ॥ ६७ ॥

मुनय ऊचुः-

कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम ।
प्रेतीभूतस्य विधिवद् ब्रूहि नो वदतां वर ॥ ६८ ॥

व्यास उवाच-

सपिण्डीकरणं विप्राः शृणुध्वं वदतो मम ।
तच् चापि देवरहितम् एकार्घैकपवित्रकम् ॥ ६९ ॥

नैवाग्नौ करणं तत्र तच् चावाहनवर्जितम् ।
अपसव्यं च तत्रापि भोजयेद् अयुजो द्विजान् ॥ ७० ॥

विशेषस् तत्र चान्यो ऽस्ति प्रतिमासक्रियादिकः ।
तं कथ्यमानम् एकाग्राः शृणुध्वं मे द्विजोत्तमाः ॥ ७१ ॥

तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम् ।
कुर्यात् पितॄणां त्रितयम् एकं प्रेतस्य च द्विजाः ॥ ७२ ॥

पात्रत्रये प्रेतपात्राद् अर्घं चैव प्रसेचयेत् ।
ये समाना इति जपन् पूर्ववच् छेषम् आचरेत् ॥ ७३ ॥

स्त्रीणाम् अप्य् एवम् एव स्याद् एकोद्दिष्टम् उदाहृतम् ।
सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥ ७४ ॥

प्रतिसंवत्सरं कार्यम् एकोद्दिष्टं नरैः स्त्रियाः ।
मृताहनि च तत् कार्यं पितॄणां विधिचोदितम् ॥ ७५ ॥

पुत्राभावे सपिण्डास् तु तदभावे सहोदराः ।
कुर्युर् एतं विधिं सम्यक् पुत्रस्य च सुताः सुताः ॥ ७६ ॥

कुर्यान् मातामहानां तु पुत्रिकातनयस् तथा ।
द्व्यामुष्यायणसञ्ज्ञास् तु मातामहपितामहान् ॥ ७७ ॥

पूजयेयुर् यथान्यायं श्राद्धैर् नैमित्तिकैर् अपि ।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाम् अमन्त्रकम् ॥ ७८ ॥

तदभावे च नृपतिः कारयेत् त्व् अकुटुम्बिनाम् ।
तज्जातीयैर् नरैः सम्यग् वाहाद्याः सकलाः क्रियाः ॥ ७९ ॥

सर्वेषाम् एव वर्णानां बान्धवो नृपतिर् यतः ।
एता वः कथिता विप्रा नित्या नैमित्तिकास् तथा ॥ ८० ॥

वक्ष्ये श्राद्धाश्रयाम् अन्यां नित्यनैमित्तिकां क्रियाम् ।
दर्शस् तत्र निमित्तं तु विद्याद् इन्दुक्षयान्वितः ॥ ८१ ॥

नित्यस् तु नियतः कालस् तस्मिन् कुर्याद् यथोदितम् ।
सपिण्डीकरणाद् ऊर्ध्वं पितुर् यः प्रपितामहः ॥ ८२ ॥

स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः ।
तेषां हि यश् चतुर्थो ऽन्यः स तु लेपभुजो भवेत् ॥ ८३ ॥

सो ऽपि सम्बन्धतो हीनम् उपभोगं प्रपद्यते ।
पिता पितामहश् चैव तथैव प्रपितामहः ॥ ८४ ॥

पिण्डसम्बन्धिनो ह्य् एते विज्ञेयाः पुरुषास् त्रयः ।
लेपसम्बन्धिनश् चान्ये पितामहपितामहात् ॥ ८५ ॥

प्रभृत्युक्तास् त्रयस् तेषां यजमानश् च सप्तमः ।
इत्य् एष मुनिभिः प्रोक्तः सम्बन्धः साप्तपौरुषः ॥ ८६ ॥

यजमानात् प्रभृत्य् ऊर्ध्वम् अनुलेपभुजस् तथा ।
ततो ऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ॥ ८७ ॥

ये ऽपि तिर्यक्त्वम् आपन्ना ये च भूतादिसंस्थिताः ।
तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि ॥ ८८ ॥

स समाप्यायते विप्रा येन येन वदामि तत् ।
अन्नप्रकिरणं यत् तु मनुष्यैः क्रियते भुवि ॥ ८९ ॥

तेन तृप्तिम् उपायान्ति ये पिशाचत्वम् आगताः ।
यद् अम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः ॥ ९० ॥

तेन ये तरुतां प्राप्तास् तेषां तृप्तिः प्रजायते ।
यास् तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ॥ ९१ ॥

ताभिर् आप्यायनं तेषां देवत्वं ये कुले गताः ।
उद्धृतेष्व् अथ पिण्डेषु याश् चाम्बुकणिका भुवि ॥ ९२ ॥

ताभिर् आप्यायनं तेषां ये तिर्यक्त्वं कुले गताः ।
ये चादन्ताः कुले बालाः क्रियायोगाद् बहिष्कृताः ॥ ९३ ॥

विपन्नास् त्व् अनधिकाराः सम्मार्जितजलाशिनः ।
भुक्त्वा चाचामतां यच् च यज् जलं चाङ्घ्रिशौचजम् ॥ ९४ ॥

ब्राह्मणानां तथैवान्यत् तेन तृप्तिं प्रयान्ति वै ।
एवं यो यजमानस्य यश् च तेषां द्विजन्मनाम् ॥ ९५ ॥

कश्चिज् जलान्नविक्षेपः शुचिर् उच्छिष्ट एव वा ।
तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः ॥ ९६ ॥

प्रयान्त्य् आप्यायनं विप्राः सम्यक् श्राद्धक्रियावताम् ।
अन्यायोपार्जितैर् अर्थैर् यच् छ्राद्धं क्रियते नरैः ॥ ९७ ॥

तृप्यन्ते ते न चाण्डालपुल्कसाद्यासु योनिषु ।
एवम् आप्यायनं विप्रा बहूनाम् एव बान्धवैः ॥ ९८ ॥

श्राद्धं कुर्वद्भिर् अत्राम्बुविक्षेपैः सम्प्रजायते ।
तस्माच् छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि ॥ ९९ ॥

कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन् न सीदति ।
श्राद्धं देयं तु विप्रेषु संयतेष्व् अग्निहोत्रिषु ॥ १०० ॥

अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः ।
त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः षडङ्गवित् ॥ १०१ ॥

मातापितृपरश् चैव स्वस्रीयः सामवेदवित् ।
ऋत्विक्पुरोहिताचार्यम् उपाध्यायं च भोजयेत् ॥ १०२ ॥

मातुलः श्वशुरः श्यालः सम्बन्धी द्रोणपाठकः ।
मण्डलब्राह्मणो यस् तु पुराणार्थविशारदः ॥ १०३ ॥

अकल्पः कल्पसन्तुष्टः प्रतिग्रहविवर्जितः ।
एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः ॥ १०४ ॥

निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् ।
दैवे नियोगे पित्र्ये च तांस् तथैवोपकल्पयेत् ॥ १०५ ॥

तैश् च संयमिभिर् भाव्यं यस् तु श्राद्धं करिष्यति ।
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो ऽधिगच्छति ॥ १०६ ॥

पितरस् तस्य वै मासं तस्मिन् रेतसि शेरते ।
गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस् तु गच्छति ॥ १०७ ॥

रेतोमूत्रकृताहारास् तं मासं पितरस् तयोः ।
तस्मात् त्व् अप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥ १०८ ॥

अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः ।
भिक्षार्थम् आगतांश् चापि कालेन संयतान् यतीन् ॥ १०९ ॥

भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः ।
योगिनश् च तदा श्राद्धे भोजनीया विपश्चिता ॥ ११० ॥

योगाधारा हि पितरस् तस्मात् तान् पूजयेत् सदा ।
ब्राह्मणानां सहस्राणि एको योगी भवेद् यदि ॥ १११ ॥

यजमानं च भोक्तॄंश् च नौर् इवाम्भसि तारयेत् ।
पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः ॥ ११२ ॥

या गीता पितृभिः पूर्वम् ऐलस्यासीन् महीपतेः ।
कदा नः सन्तताव् अग्र्यः कस्यचिद् भविता सुतः ॥ ११३ ॥

यो योगिभुक्तशेषान् नो भुवि पिण्डान् प्रदास्यति ।
गयायाम् अथवा पिण्डं खड्गमांसं तथा हविः ॥ ११४ ॥

कालशाकं तिलाज्यं च तृप्तये कृसरं च नः ।
वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ॥ ११५ ॥

विषाणवर्जं शिरस आ पादाद् आशिषामहे ।
दद्याच् छ्राद्धं त्रयोदश्यां मघासु च यथाविधि ॥ ११६ ॥

मधुसर्पिःसमायुक्तं पायसं दक्षिणायने ।
तस्मात् सम्पूजयेद् भक्त्या स्वपितॄन् विधिवन् नरः ॥ ११७ ॥

कामान् अभीप्सन् सकलान् पापाद् आत्मविमोचनम् ।
वसून् रुद्रांस् तथादित्यान् नक्षत्रग्रहतारकाः ॥ ११८ ॥

प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः ।
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ ११९ ॥

प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः ।
तथापराह्णः पूर्वाह्णात् पितॄणाम् अतिरिच्यते ॥ १२० ॥

सम्पूज्य स्वागतेनैतान् सदने ऽभ्यागतान् द्विजान् ।
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥ १२१ ॥

श्राद्धं कृत्वा विधानेन सम्भोज्य च द्विजोत्तमान् ।
विसर्जयेत् प्रियाण्य् उक्त्वा प्रणिपत्य च भक्तितः ॥ १२२ ॥

आद्वारम् अनुगच्छेच् च आगच्छेद् अनुमोदितः ।
ततो नित्यक्रियां कुर्याद् भोजयेच् च तथातिथीन् ॥ १२३ ॥

नित्यक्रियां पितॄणां च केचिद् इच्छन्ति सत्तमाः ।
न पितॄणां तथैवान्ये शेषं पूर्ववद् आचरेत् ॥ १२४ ॥

पृथक्त्वेन वदन्त्य् अन्ये केचित् पूर्वं च पूर्ववत् ।
ततस् तद् अन्नं भुञ्जीत सह भृत्यादिभिर् नरः ॥ १२५ ॥

एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः ।
यथा च विप्रमुख्यानां परितोषो ऽभिजायते ॥ १२६ ॥

इदानीं सम्प्रवक्ष्यामि वर्जनीयान् द्विजाधमान् ।
मित्रध्रुक् कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः ॥ १२७ ॥

श्यावदन्तो ऽथ खल्वाटः काणो ऽन्धो बधिरो जडः ।
मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ ॥ १२८ ॥

कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटो ऽलसः ।
मित्रशत्रुर् दुष्कुलीनः पशुपालो निराकृतिः ॥ १२९ ॥

परिवित्तिः परिवेत्ता परिवेदनिकासुतः ।
वृषलीपतिस् तत्सुतश् च न भवेच् छ्राद्धभुग् द्विजः ॥ १३० ॥

वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः ।
भृतकाध्यापको यस् तु भृतकाध्यापितश् च यः ॥ १३१ ॥

सूतकान्नोपजीवी च मृगयुः सोमविक्रयी ।
अभिशस्तस् तथा स्तेनः पतितो वार्द्धुषिः शठः ॥ १३२ ॥

पिशुनो वेदसन्त्यागी दानाग्नित्यागनिष्ठुरः ।
राज्ञः पुरोहितो भृत्यो विद्याहीनो ऽथ मत्सरी ॥ १३३ ॥

वृद्धद्विड् दुर्धरः क्रूरो मूढो देवलकस् तथा ।
नक्षत्रसूचकश् चैव पर्वकारश् च गर्हितः ॥ १३४ ॥

अयाज्ययाजकः षण्ढो गर्हिता ये च ये ऽधमाः ।
न ते श्राद्धे नियोक्तव्या दृष्ट्वामी पङ्क्तिदूषकाः ॥ १३५ ॥

असतां प्रग्रहो यत्र सतां चैवावमानना ।
दण्डो देवकृतस् तत्र सद्यः पतति दारुणः ॥ १३६ ॥

हित्वागमं सुविहितं बालिशं यस् तु भोजयेत् ।
आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति ॥ १३७ ॥

यस् त्व् आश्रितं द्विजं त्यक्त्वा अन्यम् आनीय भोजयेत् ।
तन्निःश्वासाग्निनिर्दग्धस् तत्र दाता विनश्यति ॥ १३८ ॥

वस्त्राभावे क्रिया नास्ति यज्ञा वेदास् तपांसि च ।
तस्माद् वासांसि देयानि श्राद्धकाले विशेषतः ॥ १३९ ॥

कौशेयं क्षौमकार्पासं दुकूलम् अहतं तथा ।
श्राद्धे त्व् एतानि यो दद्यात् कामान् आप्नोति चोत्तमान् ॥ १४० ॥

यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् ।
तथान्नं तत्र विप्राणां जन्तुर् यत्रावतिष्ठते ॥ १४१ ॥

नामगोत्रं च मन्त्रांश् च दत्तम् अन्नं न यन्ति ते ।
अपि ये निधनं प्राप्तास् तृप्तिस् तान् उपतिष्ठते ॥ १४२ ॥

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यम् एव भवन्त्व् इति ॥ १४३ ॥

आद्यावसाने श्राद्धस्य त्रिर् आवृत्त्या जपेत् तदा ।
पिण्डनिर्वपणे वापि जपेद् एवं समाहितः ॥ १४४ ॥

क्षिप्रम् आयान्ति पितरो राक्षसाः प्रद्रवन्ति च ।
प्रीयन्ते त्रिषु लोकेषु मन्त्रो ऽयं तारयत्य् उत ॥ १४५ ॥

क्षौमसूत्रं नवं दद्याच् छाणं कार्पासिकं तथा ।
पत्त्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥ १४६ ॥

वर्जयेच् चादशं प्राज्ञो यद्यप्य् अव्याहतं भवेत् ।
न प्रीणयन्त्य् अथैतानि दातुश् चाप्य् अनयो भवेत् ॥ १४७ ॥

न निवेद्यो भवेत् पिण्डः पितॄणां यस् तु जीवति ।
इष्टेनान्नेन भक्ष्येण भोजयेत् तं यथाविधि ॥ १४८ ॥

पिण्डम् अग्नौ सदा दद्याद् भोगार्थी सततं नरः ।
पत्न्यै दद्यात् प्रजार्थी च मध्यमं मन्त्रपूर्वकम् ॥ १४९ ॥

उत्तमां द्युतिम् अन्विच्छन् पिण्डं गोषु प्रयच्छति ।
प्रज्ञां चैव यशः कीर्तिम् अप्सु चैव निवेदयेत् ॥ १५० ॥

प्रार्थयन् दीर्घम् आयुश् च वायसेभ्यः प्रयच्छति ।
कुमारशालाम् अन्विच्छन् कुक्कुटेभ्यः प्रयच्छति ॥ १५१ ॥

एके विप्राः पुनः प्राहुः पिण्डोद्धरणम् अग्रतः ।
अनुज्ञातस् तु विप्रैस् तैः कामम् उद्ध्रियताम् इति ॥ १५२ ॥

तस्माच् छ्राद्धं तथा कार्यं यथोक्तम् ऋषिभिः पुरा ।
अन्यथा तु भवेद् दोषः पितॄणां नोपतिष्ठति ॥ १५३ ॥

यवैर् व्रीहितिलैर् माषैर् गोधूमैश् चणकैस् तथा ।
सन्तर्पयेत् पितॄन् मुद्गैः श्यामाकैः सर्षपद्रवैः ॥ १५४ ॥

नीवारैर् हस्तिश्यामाकैः प्रियङ्गुभिस् तथार्घयेत् ।
प्रसातिकां सतूलिकां दद्याच् छ्राद्धे विचक्षणः ॥ १५५ ॥

आम्रम् आम्रातकं बिल्वं दाडिमं बीजपूरकम् ।
प्राचीनामलकं क्षीरं नारिकेलं परूषकम् ॥ १५६ ॥

नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् ।
पटोलं च प्रियालं च कर्कन्धूबदराणि च ॥ १५७ ॥

विकङ्कतं वत्सकं च कस्त्वारुर् वारकान् अपि ।
एतानि फलजातानि श्राद्धे देयानि यत्नतः ॥ १५८ ॥

गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम् ।
गव्यं पयो दधि घृतं तैलं च तिलसम्भवम् ॥ १५९ ॥

सैन्धवं सागरोत्थं च लवणं सारसं तथा ।
निवेदयेच् छुचीन् गन्धांश् चन्दनागुरुकुङ्कुमान् ॥ १६० ॥

कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा ।
शाकम् आरण्यकं चापि दद्यात् पुष्पाण्य् अमूनि च ॥ १६१ ॥

जातिचम्पकलोध्राश् च मल्लिकाबाणबर्बरी ।
वृन्ताशोकाटरूषं च तुलसी तिलकं तथा ॥ १६२ ॥

पावन्तीं शतपत्त्रां च गन्धशेफालिकाम् अपि ।
कुब्जकं तगरं चैव मृगम् आरण्यकेतकीम् ॥ १६३ ॥

यूथिकाम् अतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः ।
कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः ॥ १६४ ॥

इन्दीवरं कोकनदं कह्लारं च नियोजयेत् ।
कुष्ठं मांसी वालकं च कुक्कुटी जातिपत्त्रकम् ॥ १६५ ॥

नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी ।
पुनर् अप्य् एवमादीनि गन्धयोग्यानि चक्षते ॥ १६६ ॥

गुग्गुलुं चन्दनं चैव श्रीवासम् अगुरुं तथा ।
धूपानि पितृयोग्यानि ऋषिगुग्गुलम् एव च ॥ १६७ ॥

राजमाषांश् च चणकान् मसूरान् कोरदूषकान् ।
विप्रुषान् मर्कटांश् चैव कोद्रवांश् चैव वर्जयेत् ॥ १६८ ॥

माहिषं चामरं मार्गम् आविकैकशफोद्भवम् ।
स्त्रैणम् औष्ट्रम् आविकं च दधि क्षीरं घृतं त्यजेत् ॥ १६९ ॥

तालं वरुणकाकोलौ बहुपत्त्रार्जुनीफलम् ।
जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत् ॥ १७० ॥

मत्स्यसूकरकूर्माश् च गावो वर्ज्या विशेषतः ।
पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम् ॥ १७१ ॥

कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् ।
पालङ्कं च कुमारीं च किरातं पिण्डमूलकम् ॥ १७२ ॥

गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्त्रिकाम् ।
जीवं च शतपुष्पां च नालिकां गन्धशूकरम् ॥ १७३ ॥

हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् ।
मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम् ॥ १७४ ॥

पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् ।
अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम् ॥ १७५ ॥

वार्ताकं शिवजातं च लोमशानि वटानि च ।
कालीयं रक्तवाणां च बलाका लकुचं तथा ॥ १७६ ॥

श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा ।
आरनालं च शुक्तं च शीर्णं पर्युषितं तथा ॥ १७७ ॥

नोग्रगन्धं च दातव्यं कोविदारकशिग्रुकौ ।
अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः ॥ १७८ ॥

न च देयं गतरसं मद्यगन्धं च यद् भवेत् ।
हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके ॥ १७९ ॥

कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेद् अम्लवेतसम् ।
दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः ॥ १८० ॥

आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् ।
पायसं शाल्मलीमुद्गान् मोदकादींश् च भक्तितः ॥ १८१ ॥

पानकं च रसालं च गोक्षीरं च निवेदयेत् ।
यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः ॥ १८२ ॥

ईषदम्लकटून्य् एव देयानि श्राद्धकर्मणि ।
अत्यम्लं चातिलवणम् अतिरिक्तकटूनि च ॥ १८३ ॥

आसुराणीह भोज्यानि तान्य् अतो दूरतस् त्यजेत् ।
मृष्टस्निग्धानि यानि स्युर् ईषत्कट्वम्लकानि च ॥ १८४ ॥

स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् ।
छागमांसं वार्तिकं च तैत्तिरं शशकामिषम् ॥ १८५ ॥

शिवालावकराजीवमांसं श्राद्धे नियोजयेत् ।
वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम् ॥ १८६ ॥

सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते ।
यद् अप्य् उक्तं हि मनुना रोहितं प्रतियोजयेत् ॥ १८७ ॥

योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् ।
एवम् उक्तं मया विप्रा वाराहेणावलोकितम् ॥ १८८ ॥

मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् ।
एतानि च निषिद्धानि वाराहेण तपोधनाः ॥ १८९ ॥

अभक्ष्याणि द्विजातीनां न देयानि पितृष्व् अपि ।
रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत् ॥ १९० ॥

चक्रवाकं च मद्गुं च शल्कहीनांश् च मत्स्यकान् ।
कुररं च निरस्थिं च वासहातं च कुक्कुटान् ॥ १९१ ॥

कलविङ्कमयूरांश् च भारद्वाजांश् च शार्ङ्गकान् ।
नकुलोलूकमार्जारांल् लोपान् अन्यान् सुदुर्ग्रहान् ॥ १९२ ॥

टिट्टिभान् सार्धजम्बूकान् व्याघ्रर्क्षतरक्षुकान् ।
एतान् अन्यांश् च सन्दुष्टान् यो भक्षयति दुर्मतिः ॥ १९३ ॥

स महापापकारी तु रौरवं नरकं व्रजेत् ।
पितृष्व् एतांस् तु यो दद्यात् पापात्मा गर्हितामिषान् ॥ १९४ ॥

स स्वर्गस्थान् अपि पितॄन् नरके पातयिष्यति ।
कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम् ॥ १९५ ॥

पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् ।
कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम् ॥ १९६ ॥

चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् ।
फलं तालतरूणां च भुक्त्या नरकम् ऋच्छति ॥ १९७ ॥

दत्त्वा पितृषु तैः सार्धं व्रजेत् पूयवहं नरः ।
तस्मात् सर्वप्रयत्नेन नाहरेत् तु विचक्षणः ॥ १९८ ॥

निषिद्धानि वराहेण स्वयं पित्रर्थम् आदरात् ।
वरम् एवात्ममांसस्य भक्षणं मुनयः कृतम् ॥ १९९ ॥

न त्व् एव हि निषिद्धानाम् आदानं पुम्भिर् आदरात् ।
अज्ञानाद् वा प्रमादाद् वा सकृद् एतानि च द्विजाः ॥ २०० ॥

भक्षितानि निषिद्धानि प्रायश्चित्तं ततश् चरेत् ।
फलमूलदधिक्षीरतक्रगोमूत्रयावकैः ॥ २०१ ॥

भोज्यान्नभोज्यसम्भुक्ते प्रत्येकं दिनसप्तकम् ।
एवं निषिद्धाचरणे कृते सकृद् अपि द्विजैः ॥ २०२ ॥

शुद्धिं नेयं शरीरं तु विष्णुभक्तैर् विशेषतः ।
निषिद्धं वर्जयेद् द्रव्यं यथोक्तं च द्विजोत्तमाः ॥ २०३ ॥

समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः ।
एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् ।
आब्रह्मस्तम्बपर्यन्तं जगत् प्रीणाति मानवः ॥ २०४ ॥

मुनय ऊचुः-

पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः ।
कथं श्राद्धं हि कर्तव्यम् एतद् विस्तरशो वद ॥ २०५ ॥

व्यास उवाच-

यस्मै दद्यात् पिता श्राद्धं तस्मै दद्यात् सुतः स्वयम् ।
एवं न हीयते धर्मो लौकिको वैदिकस् तथा ॥ २०६ ॥

मुनय ऊचुः-

मृतः पिता जीवति च यस्य ब्रह्मन् पितामहः ।
स हि श्राद्धं कथं कुर्याद् एतत् त्वं वक्तुम् अर्हसि ॥ २०७ ॥

व्यास उवाच-

पितुः पिण्डं प्रदद्याच् च भोजयेच् च पितामहम् ।
प्रपितामहस्य पिण्डं वै ह्य् अयं शास्त्रेषु निर्णयः ॥ २०८ ॥

मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् ।
सपिण्डीकरणं नास्ति न च पार्वणम् इष्यते ॥ २०९ ॥

आचारम् आचरेद् यस् तु पितृमेधाश्रितं नरः ।
आयुषा धनपुत्रैश् च वर्धत्य् आशु न संशयः ॥ २१० ॥

पितृमेधाध्यायम् इमं श्राद्धकालेषु यः पठेत् ।
तद् अन्नम् अस्य पितरो ऽश्नन्ति च त्रियुगं द्विजाः ॥ २११ ॥

एवं मयोक्तः पितृमेधकल्पः ।
पापापहः पुण्यविवर्धनश् च ।
श्रोतव्य एष प्रयतैर् नरैश् च ।
श्राद्धेषु चैवाप्य् अनुकीर्तयेत ॥ २१२ ॥