219

Summary (SA)

Chapter 219- On ancestral rites

{{Ref- SS 336-340}}

मुनय ऊचुः-

परलोकगतानां तु स्वकर्मस्थानवासिनाम् ।
तेषां श्राद्धं कथं ज्ञेयं पुत्रैश् चान्यैश् च बन्धुभिः ॥ १ ॥

व्यास उवाच-

नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् ।
शृणुध्वं सम्प्रवक्ष्यामि श्राद्धकल्पं यथोदितम् ॥ २ ॥

पुरा कोकाजले मग्नान् पितॄन् उद्धृतवान् विभुः ।
श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः ॥ ३ ॥

मुनय ऊचुः-

किमर्थं ते तु कोकायां निमग्नाः पितरो ऽम्भसि ।
कथं तेनोद्धृतास् ते वै वाराहेण द्विजोत्तम ॥ ४ ॥

तस्मिन् कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे ।
श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ५ ॥

व्यास उवाच-

त्रेताद्वापरयोः सन्धौ पितरो दिव्यमानुषाः ।
पुरा मेरुगिरेः पृष्ठे विश्वैर् देवैः सह स्थिताः ॥ ६ ॥

तेषां समुपविष्टानां पितॄणां सोमसम्भवा ।
कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता ।
ताम् ऊचुः पितरो दिव्या ये तत्रासन् समागताः ॥ ७ ॥

पितर ऊचुः-

कासि भद्रे प्रभुः को वा भवत्या वक्तुम् अर्हसि ॥ ८ ॥

व्यास उवाच-

सा प्रोवाच पितॄन् देवान् कला चान्द्रमसीति ह ।
प्रभुत्वे भवताम् एव वरयामि यदीच्छथ ॥ ९ ॥

ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् ।
भवद्भिश् चाद्यैव कृतं नाम कोकेति भावितम् ॥ १० ॥

ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः ।
तस्या मुखं निरीक्षन्तो न तृप्तिम् अधिजग्मिरे ॥ ११ ॥

विश्वेदेवाश् च ताञ् ज्ञात्वा कन्यामुखनिरीक्षकान् ।
योगच्युतान् निरीक्ष्यैव विहाय त्रिदिवं गताः ॥ १२ ॥

भगवान् अपि शीतांशुर् ऊर्जां नापश्यद् आत्मजाम् ।
समाकुलमना दध्यौ क्व गतेति महायशाः ॥ १३ ॥

स विवेद तदा सोमः प्राप्तां पितॄंश् च कामतः ।
तैश् चावलोकितां हार्दात् स्वीकृतां च तपोबलात् ॥ १४ ॥

ततः क्रोधपरीतात्मा पितॄञ् शशधरो द्विजाः ।
शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः ॥ १५ ॥

यस्माद् अदत्तां मत्कन्यां कामयध्वं सुबालिशाः ।
यस्माद् धृतवती चेयं पतीन् पितृमती सती ॥ १६ ॥

स्वतन्त्रा धर्मम् उत्सृज्य तस्माद् भवतु निम्नगा ।
कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता ॥ १७ ॥

इत्थं शप्ताश् चन्द्रमसा पितरो दिव्यमानुषाः ।
योगभ्रष्टा निपतिता हिमवत्पादभूतले ॥ १८ ॥

ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते ।
प्रस्थे तीर्थं समासाद्य सप्तसामुद्रम् उत्तमम् ॥ १९ ॥

कोका नाम ततो वेगान् नदी तीर्थशताकुला ।
प्लावयन्ती गिरेः शृङ्गं सर्पणात् तु सरित् स्मृता ॥ २० ॥

अथ ते पितरो विप्रा योगहीना महानदीम् ।
ददृशुः शीतसलिलां न विदुस् तां सुलोचनाम् ॥ २१ ॥

ततस् तु गिरिराड् दृष्ट्वा पितॄंस् तांस् तु क्षुधार्दितान् ।
बदरीम् आदिदेशाथ धेनुं चैकां मधुस्रवाम् ॥ २२ ॥

क्षीरं मधु च तद् दिव्यं कोकाम्भो बदरीफलम् ।
इदं गिरिवरेणैषां पोषणाय निरूपितम् ॥ २३ ॥

तया वृत्त्या तु वसतां पितॄणां मुनिसत्तमाः ।
दश वर्षसहस्राणि ययुर् एकम् अहो यथा ॥ २४ ॥

एवं लोके विपितरि तथैव विगतस्वधे ।
दैत्या बभूवुर् बलिनो यातुधानाश् च राक्षसाः ॥ २५ ॥

ते तान् पितृगणान् दैत्या यातुधानाश् च वेगिताः ।
विश्वैर् देवैर् विरहितान् सर्वतः समुपाद्रवन् ॥ २६ ॥

दैतेयान् यातुधानांश् च दृष्ट्वैवापततो द्विजाः ।
कोकातटस्थाम् उत्तुङ्गां शिलां ते जगृहू रुषा ॥ २७ ॥

गृहीतायां शिलायां तु कोका वेगवती पितॄन् ।
छादयाम् आस तोयेन प्लावयन्ती हिमाचलम् ॥ २८ ॥

पितॄन् अन्तर्हितान् दृष्ट्वा दैतेया राक्षसास् तथा ।
विभीतकं समारुह्य निराहारास् तिरोहिताः ॥ २९ ॥

सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः ।
विषीदमानम् आत्मानं समीक्ष्य सलिलाशयाः ।
जगुर् जनार्दनं देवं पितरः शरणं हरिम् ॥ ३० ॥

पितर ऊचुः-

जयस्व गोविन्द जगन्निवास ।
जयो ऽस्तु नः केशव ते प्रसादात् ।
जनार्दनास्मान् सलिलान्तरस्थान् ।
उद्धर्तुम् अर्हस्य् अनघप्रताप ॥ ३१ ॥

निशाचरैर् दारुणदर्शनैः प्रभो ।
वरेण्य वैकुण्ठ वराह विष्णो ।
नारायणाशेषमहेश्वरेश ।
प्रयाहि भीताञ् जय पद्मनाभ ॥ ३२ ॥

उपेन्द्र योगिन् मधुकैटभघ्न ।
विष्णो अनन्ताच्युत वासुदेव ।
श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे ।
रक्षस्व देवेश्वर राक्षसेभ्यः ॥ ३३ ॥

त्वं पिता जगतः शम्भो नान्यः शक्तः प्रबाधितुम् ।
निशाचरगणं भीमम् अतस् त्वां शरणं गताः ॥ ३४ ॥

त्वन्नामसङ्कीर्तनतो निशाचरा ।
द्रवन्ति भूतान्य् अपयान्ति चारयः ।
नाशं तथा सम्प्रति यान्ति विष्णो ।
धर्मादि सत्यं भवतीह मुख्यम् ॥ ३५ ॥

व्यास उवाच-

इत्थं स्तुतः स पितृभिर् धरणीधरस् तु ।
तुष्टस् तदाविष्कृतदिव्यमूर्तिः ।
कोकामुखे पितृगणं सलिले निमग्नं ।
देवो ददर्श शिरसाथ शिलां वहन्तम् ॥ ३६ ॥

तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः ।
भीतं पितृगणं विष्णुर् उद्धर्तुं मतिर् आदधे ॥ ३७ ॥

दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः ।
पितॄन् आदाय च विभुर् उज्जहार शिलातलात् ॥ ३८ ॥

वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः ।
कोकामुखे गतभयाः कृता देवेन विष्णुना ॥ ३९ ॥

उद्धृत्य च पितॄन् देवो विष्णुतीर्थे तु शूकरः ।
ददौ समाहितस् तेभ्यो विष्णुर् लोहार्गले जलम् ॥ ४० ॥

ततः स्वरोमसम्भूतान् कुशान् आदाय केशवः ।
स्वेदोद्भवांस् तिलांश् चैव चक्रे चोल्मुकम् उत्तमम् ॥ ४१ ॥

ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् ।
स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि ॥ ४२ ॥

तुङ्गकूटात् समादाय यज्ञीयान् ओषधीरसान् ।
मधुक्षीररसान् गन्धान् पुष्पधूपानुलेपनान् ॥ ४३ ॥

आदाय धेनुं सरसो रत्नान्य् आदाय चार्णवात् ।
दंष्ट्रयोल्लिख्य धरणीम् अभ्युक्ष्य सलिलेन च ॥ ४४ ॥

घर्मोद्भवेनोपलिप्य कुशैर् उल्लिख्य तां पुनः ।
परिणीयोल्मुकेनैनाम् अभ्युक्ष्य च पुनः पुनः ॥ ४५ ॥

कुशान् आदाय प्रागग्रांल् लोमकूपान्तरस्थितान् ।
ऋषीन् आहूय पप्रच्छ करिष्ये पितृतर्पणम् ॥ ४६ ॥

तैर् अप्य् उक्ते कुरुष्वेति विश्वान् देवांस् ततो विभुः ।
आहूय मन्त्रतस् तेषां विष्टराणि ददौ प्रभुः ॥ ४७ ॥

आहूय मन्त्रतस् तेषां वेदोक्तविधिना हरिः ।
अक्षतैर् दैवतारक्षां चक्रे चक्रगदाधरः ॥ ४८ ॥

अक्षतास् तु यवौषध्यः सर्वदेवांशसम्भवाः ।
रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते ॥ ४९ ॥

देवदानवदैत्येषु यक्षरक्षःसु चैव हि ।
नहि कश्चित् क्षयं तेषां कर्तुं शक्तश् चराचरे ॥ ५० ॥

न केनचित् कृतं यस्मात् तस्मात् ते ह्य् अक्षताः कृताः ।
देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा ॥ ५१ ॥

कुशगन्धयवैः पुष्पैर् अर्घ्यं कृत्वा च शूकरः ।
विश्वेभ्यो देवेभ्य इति ततस् तान् पर्यपृच्छत ॥ ५२ ॥

पितॄन् आवाहयिष्यामि ये दिव्या ये च मानुषाः ।
आवाहयस्वेति च तैर् उक्तस् त्व् आवाहयेच् छुचिः ॥ ५३ ॥

श्लिष्टमूलाग्रदर्भांस् तु सतिलान् वेद वेदवित् ।
जानाव् आरोप्य हस्तं तु ददौ सव्येन चासनम् ॥ ५४ ॥

तथैव जानुसंस्थेन करेणैकेन तान् पितॄन् ।
वाराहः पितृविप्राणाम् आयान्तु न इतीरयन् ॥ ५५ ॥

अपहतेत्य् उवाचैव रक्षणं चापसव्यतः ।
कृत्वा चावाहनं चक्रे पितॄणां नामगोत्रतः ॥ ५६ ॥

तत् पितरो मनोजरान् आगच्छत इतीरयन् ।
संवत्सरैर् इत्य् उदीर्य ततो ऽर्घ्यं तेषु विन्यसेत् ॥ ५७ ॥

यास् तिष्ठन्त्य् अमृता वाचो यन् मैति च पितुः पितुः ।
यन् मे पितामहाइत्य् एवं ददाव् अर्घ्यं पितामह ॥ ५८ ॥

यन् मे प्रपितामहाइति ददौ च प्रपितामहे ।
कुशगन्धतिलोन्मिश्रं सपुष्पम् अपसव्यतः ॥ ५९ ॥

तद्वन् मातामहेभ्यस् तु विधिं चक्रे जनार्दनः ।
तान् अर्च्य भूयो गन्धाद्यैर् धूपं दत्त्वा तु भक्तितः ॥ ६० ॥

आदित्या वसवो रुद्रा इत्य् उच्चार्य जगत्प्रभुः ।
ततश् चान्नं समादाय सर्पिस्तिलकुशाकुलम् ॥ ६१ ॥

विधाय पात्रे तच् चैव पर्यपृच्छत् ततो मुनीन् ।
अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः ॥ ६२ ॥

आहुतित्रितयं दद्यात् सोमायाग्नेर् यमाय च ।
ये मामकाइति च जपेद् यजुःसप्तकम् अच्युतम् ॥ ६३ ॥

हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् ।
त्रिर् आहुतिकम् एकैकं पितरं तु प्रति द्विजाः ॥ ६४ ॥

अतो ऽवशिष्टम् अन्नाद्यं पिण्डपात्रे तु निक्षिपेत् ।
ततो ऽन्नं सरसं स्वादु ददौ पायसपूर्वकम् ॥ ६५ ॥

प्रत्यग्रम् एकदा स्विन्नम् अपर्युषितम् उत्तमम् ।
अल्पशाकं बहुफलं षड्रसम् अमृतोपमम् ॥ ६६ ॥

यद् ब्राह्मणेषु प्रददौ पिण्डपात्रे पितॄंस् तथा ।
वेदपूर्वं पितृस्वन्नम् आज्यप्लुतं मधूक्षितम् ॥ ६७ ॥

मन्त्रितं पृथिवीत्य् एवं मधुवातातृचं जगौ ।
भुञ्जानेषु तु विप्रेषु जपन् वै मन्त्रपञ्चकम् ॥ ६८ ॥

यत् ते प्रकारम् आरभ्य नाधिकं ते ततो जगौ ।
त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा ॥ ६९ ॥

जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम् ।
भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ता स्थ इत्य् उत ॥ ७० ॥

तृप्ताः स्मेति सकृत् तोयं ददौ मौनविमोचनम् ।
पिण्डपात्रं समादाय च्छायायै प्रददौ ततः ॥ ७१ ॥

सा तद् अन्नं द्विधा कृत्वा त्रिधैकैकम् अथाकरोत् ।
वाराहो भूम् अथोल्लिख्य समाच्छाद्य कुशैर् अपि ॥ ७२ ॥

दक्षिणाग्रान् कुशान् कृत्वा तेषाम् उपरि चासनम् ।
सतिलेषु समूलेषु कुशेष्व् एव तु संश्रयः ॥ ७३ ॥

गन्धपुष्पादिकं कृत्वा ततः पिण्डं तु भक्तितः ।
पृथिवी दधीर् इत्य् उक्त्वा ततः पिण्डं प्रदत्तवान् ॥ ७४ ॥

पितामहाः प्रपितामहास् तथेति चान्तरिक्षतः ।
मातामहानाम् अप्य् एवं ददौ पिण्डान् स शूकरः ॥ ७५ ॥

पिण्डनिर्वापणोच्छिष्टम् अन्नं लेपभुजेष्व् अदात् ।
एतद् वः पितर् इत्य् उक्त्वा ददौ वासांसि भक्तितः ॥ ७६ ॥

द्व्यङ्गुलजानि शुक्लानि धौतान्य् अभिनवानि च ।
गन्धपुष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम् ॥ ७७ ॥

आचम्याचामयेद् विप्रान् पैत्रान् आदौ ततः सुरान् ।
ततस् त्व् अभ्युक्ष्य तां भूमिं दत्त्वापः सुमनोक्षतान् ॥ ७८ ॥

सतिलाम्बु पितृष्व् आदौ दत्त्वा देवेषु साक्षतम् ।
अक्षय्यं नस् त्व् इति पितॄन् प्रीयताम् इति देवताः ॥ ७९ ॥

प्रीणयित्वा परावृत्य त्रिर् जपेच् चाघमर्षणम् ।
ततो निवृत्य तु जपेद् यन् मे नाम इतीरयन् ॥ ८० ॥

गृहान् नः पितरो दत्त धनधान्यप्रपूरितान् ।
अर्घ्यपात्राणि पिण्डानाम् अन्तरे स पवित्रकान् ॥ ८१ ॥

निक्षिप्योर्जं वहन्तीति कोकातोयम् अथो ऽजपत् ।
हिमक्षीरं मधुतिलान् पितॄणां तर्पणं ददौ ॥ ८२ ॥

स्वस्तीत्य् उक्ते पैतृकैस् तु सोराह्ने प्नावतर्पयन् ।
रजतं दक्षिणां दत्त्वा विप्रान् देवो गदाधरः ॥ ८३ ॥

संविभागं मनुष्येभ्यो ददौ स्वद् इति चाब्रुवन् ।
कश्चित् सम्पन्नम् इत्य् उक्त्वा प्रत्युक्तस् तैर् द्विजोत्तमाः ॥ ८४ ॥

अभिरम्यताम् इत्य् उवाच प्रोचुस् ते ऽभिरताः स्म वै ।
शिष्टम् अन्नं च पप्रच्छ तैर् इष्टैः सह चोदितः ॥ ८५ ॥

पाणाव् आदाय तान् विप्रान् कुर्याद् अनुगतस् तदा ।
वाजे वाजे इति पठन् बहिर् वेदि विनिर्गतः ॥ ८६ ॥

कोटितीर्थजलेनासाव् अपसव्यं समुत्क्षिपन् ।
अलग्नान् विपुलान् वालान् प्रार्थयाम् आस चाशिषम् ॥ ८७ ॥

दातारो नो ऽभिवर्धन्तां तैस् तथेति समीरितः ।
प्रदक्षिणम् उपावृत्य कृत्वा पादाभिवादनम् ॥ ८८ ॥

आसनानि ददौ चैषां छादयाम् आस शूकरः ।
विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम् ॥ ८९ ॥

छायामयी मही पत्नी तस्यै पिण्डम् अदात् प्रभुः ।
आधत्त पितरो गर्भम् इत्य् उक्त्वा सापि रूपिणी ॥ ९० ॥

पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् ।
विसर्जनं पितॄणां स कर्तुकामश् च शूकरः ॥ ९१ ॥

कोका च पितरश् चैव प्रोचुः स्वार्थकरं वचः ।
शप्ताश् च भगवन् पूर्वं दिवस्था हिमभानुना ॥ ९२ ॥

योगभ्रष्टा भविष्यध्वं सर्व एव दिवश् च्युताः ।
तद् एवं भवता त्राताः प्रविशन्तो रसातलम् ॥ ९३ ॥

योगभ्रष्टांश् च विश्वेशास् तत्यजुर् योगरक्षिणः ।
तत् ते भूयो ऽभिरक्षन्तु विश्वे देवा हि नः सदा ॥ ९४ ॥

स्वर्गं यास्यामश् च विभो प्रसादात् तव शूकर ।
सोमो ऽधिदेवो ऽस्माकं च भवत्व् अच्युत योगधृक् ॥ ९५ ॥

योगाधारस् तथा सोमस् त्रायते न कदाचन ।
दिवि भूमौ सदा वासो भवत्व् अस्मासु योगतः ॥ ९६ ॥

अन्तरिक्षे च केषाञ्चिन् मासं पुष्टिस् तथास्तु नः ।
ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता ॥ ९७ ॥

भवत्व् एषैव योगाढ्या योगमाता च खेचरी ।
इत्य् एवम् उक्तः पितृभिर् वाराहो भूतभावनः ॥ ९८ ॥

प्रोवाचाथ पितॄन् विष्णुस् तां च कोकां महानदीम् ।
यद् उक्तं तु भवद्भिर् मे सर्वम् एतद् भविष्यति ॥ ९९ ॥

यमो ऽधिदेवो भवतां सोमः स्वाध्याय ईरितः ।
अधियज्ञस् तथैवाग्निर् भवतां कल्पना त्व् इयम् ॥ १०० ॥

अग्निर् वायुश् च सूर्यश् च स्थानं हि भवताम् इति ।
ब्रह्मा विष्णुश् च रुद्रश् च भवताम् अधिपूरुषाः ॥ १०१ ॥

आदित्या वसवो रुद्रा भवतां मूर्तयस् त्व् इमाः ।
योगिनो योगदेहाश् च योगधाराश् च सुव्रताः ॥ १०२ ॥

कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु ।
स्वर्गस्थान् नरकस्थांश् च भूमिस्थांश् च चराचरान् ॥ १०३ ॥

निजयोगबलेनैव आप्याययिष्यध्वम् उत्तमाः ।
इयम् ऊर्जा शशिसुता कीलालमधुविग्रहा ॥ १०४ ॥

भविष्यति महाभागा दक्षस्य दुहिता स्वधा ।
तत्रेयं भवतां पत्नी भविष्यति वरानना ॥ १०५ ॥

कोकानदीति विख्याता गिरिराजसमाश्रिता ।
तीर्थकोटिमहापुण्या मद्रूपपरिपालिता ॥ १०६ ॥

अस्याम् अद्य प्रभृति वै निवत्स्याम्य् अघनाशकृत् ।
वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम् ॥ १०७ ॥

कोकासलिलपानं च महापातकनाशनम् ।
तीर्थेष्व् आप्लवनं पुण्यम् उपवासश् च स्वर्गदः ॥ १०८ ॥

दानम् अक्षय्यम् उदितं जन्ममृत्युजरापहम् ।
माघे मास्य् असिते पक्षे भवद्भिर् उडुपक्षये ॥ १०९ ॥

कोकामुखम् उपागम्य स्थातव्यं दिनपञ्चकम् ।
तस्मिन् काले तु यः श्राद्धं पितॄणां निर्वपिष्यति ॥ ११० ॥

प्रागुक्तफलभागी स भविष्यति न संशयः ।
एकादशीं द्वादशीं च स्थेयम् अत्र मया सदा ॥ १११ ॥

यस् तत्रोपवसेद् धीमान् स प्रागुक्तफलं लभेत् ।
तद् व्रजध्वं महाभागाः स्थानम् इष्टं यथेष्टतः ॥ ११२ ॥

अहम् अप्य् अत्र वत्स्यामीत्य् उक्त्वा सो ऽन्तरधीयत ।
गते वराहे पितरः कोकाम् आमन्त्र्य ते ययुः ॥ ११३ ॥

कोकापि तीर्थसहिता संस्थिता गिरिराजनि ।
छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता ॥ ११४ ॥

गर्भम् आदाय सश्रद्धा वाराहस्यैव सुन्दरी ।
ततो ऽस्याः प्राभवत् पुत्रो भौमस् तु नरकासुरः ।
प्राग्ज्योतिषं च नगरम् अस्य दत्तं च विष्णुना ॥ ११५ ॥

एवं मयोक्तं वरदस्य विष्णोः ।
कोकामुखे दिव्यवराहरूपम् ।
श्रुत्वा नरस् त्यक्तमलो विपाप्मा ।
दशाश्वमेधेष्टिफलं लभेत ॥ ११६ ॥