218

Summary (SA)

Chapter 218- Merit of giving food to Brahmins

{{Ref- SS 335-336}}

मुनय ऊचुः-

अधर्मस्य गतिर् ब्रह्मन् कथिता नस् त्वयानघ ।
धर्मस्य च गतिं श्रोतुम् इच्छामो वदतां वर ॥ १ ॥

कृत्वा पापानि कर्माणि कथं यान्त्य् अशुभां गतिम् ।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ २ ॥

व्यास उवाच-

कृत्वा पापानि कर्माणि त्व् अधर्मवशम् आगतः ।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥ ३ ॥

मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते ।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ ४ ॥

यदि विप्राः कथयते विप्राणां धर्मवादिनाम् ।
ततो ऽधर्मकृतात् क्षिप्रम् अपराधात् प्रमुच्यते ॥ ५ ॥

यथा यथा नरः सम्यग् अधर्मम् अनुभाषते ।
समाहितेन मनसा विमुञ्चति तथा तथा ॥ ६ ॥

यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हते ।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ ७ ॥

भुजङ्ग इव निर्मोकान् पूर्वभुक्ताञ् जहाति तान् ।
दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥ ८ ॥

मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते ।
दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥ ९ ॥

नरः कृत्वाप्य् अकार्याणि ततो धर्मेण युज्यते ।
सर्वेषाम् एव दानानाम् अन्नं श्रेष्ठम् उदाहृतम् ॥ १० ॥

सर्वम् अन्नं प्रदातव्यम् ऋजुना धर्मम् इच्छता ।
प्राणा ह्य् अन्नं मनुष्याणां तस्माज् जन्तुः प्रजायते ॥ ११ ॥

अन्ने प्रतिष्ठिता लोकास् तस्माद् अन्नं प्रशस्यते ।
अन्नम् एव प्रशंसन्ति देवर्षिपितृमानवाः ॥ १२ ॥

अन्नस्य हि प्रदानेन स्वर्गम् आप्नोति मानवः ।
न्यायलब्धं प्रदातव्यं द्विजातिभ्यो ऽन्नम् उत्तमम् ॥ १३ ॥

स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ।
यस्य त्व् अन्नम् उपाश्नन्ति ब्राह्मणाश् च सकृद् दश ॥ १४ ॥

हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् ।
ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः ॥ १५ ॥

नरो ऽधर्मात् प्रमुच्येत पापेष्व् अभिरतः सदा ।
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥ १६ ॥

स्वाध्यायनिरते विप्रे दत्त्वेह सुखम् एधते ।
अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥ १७ ॥

क्षत्रियस् तरसा प्राप्तम् अन्नं यो वै प्रयच्छति ।
द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥ १८ ॥

तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः ।
षड्भागपरिशुद्धं च कृषेर् भागम् उपार्जितम् ॥ १९ ॥

वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते ।
अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम् ॥ २० ॥

अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते ।
औरसेन बलेनान्नम् अर्जयित्वा विहिंसकः ॥ २१ ॥

यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ।
न्यायेनावाप्तम् अन्नं तु नरो हर्षसमन्वितः ॥ २२ ॥

द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते ।
अन्नम् ऊर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः ॥ २३ ॥

सतां पन्थानम् आवृत्य सर्वपापैः प्रमुच्यते ।
दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥ २४ ॥

तेष्व् अप्य् अन्नस्य दातारस् तेभ्यो धर्मः सनातनः ।
सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम् ॥ २५ ॥

कार्यान् न्यायागतं नित्यम् अन्नं हि परमा गतिः ।
अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥ २६ ॥

सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् ।
एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥ २७ ॥

तस्माद् अन्नं प्रदातव्यम् अन्यायपरिवर्जितम् ।
यस् तु प्राणाहुतीपूर्वम् अन्नं भुङ्क्ते गृही सदा ॥ २८ ॥

अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः ।
भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥ २९ ॥

न्यायविद्धर्मविदुषाम् इतिहासविदां तथा ।
न याति नरकं घोरं संसारं न च सेवते ॥ ३० ॥

सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् ।
एवं कर्मसमायुक्तो रमते विगतज्वरः ॥ ३१ ॥

रूपवान् कीर्तिमांश् चैव धनवांश् चोपजायते ।
एतद् वः सर्वम् आख्यातम् अन्नदानफलं महत् ।
मूलम् एतत् तु धर्माणां प्रदानानां च भो द्विजाः ॥ ३२ ॥