Summary (SA)
Chapter 217- The fate of the soul after death; retribution for deeds by rebirth
{{Ref- SS 331-335}}
लोमहर्षण उवाच-
श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् ।
पप्रच्छुश् च पुनर् व्यासं संशयं मुनिसत्तमाः ॥ १ ॥
मुनय ऊचुः-
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ २ ॥
ज्ञातिसम्बन्धिवर्गश् च मित्रवर्गस् तथैव च ।
गृहं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः ।
गच्छन्त्य् अमुत्र लोके वै कश् च तान् अनुगच्छति ॥ ३ ॥
व्यास उवाच-
एकः प्रसूयते विप्रा एक एव हि नश्यति ।
एकस् तरति दुर्गाणि गच्छत्य् एकस् तु दुर्गतिम् ॥ ४ ॥
असहायः पिता माता तथा भ्राता सुतो गुरुः ।
ज्ञातिसम्बन्धिवर्गश् च मित्रवर्गस् तथैव च ॥ ५ ॥
मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः ।
मुहूर्तम् इव रोदित्वा ततो यान्ति पराङ्मुखाः ॥ ६ ॥
तैस् तच् छरीरम् उत्सृष्टं धर्म एको ऽनुगच्छति ।
तस्माद् धर्मः सहायश् च सेवितव्यः सदा नृभिः ॥ ७ ॥
प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम् ।
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ ८ ॥
तस्मात् पापागतैर् अर्थैर् नानुरज्येत पण्डितः ।
धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥ ९ ॥
लोभान् मोहाद् अनुक्रोशाद् भयाद् वाथ बहुश्रुतः ।
नरः करोत्य् अकार्याणि परार्थे लोभमोहितः ॥ १० ॥
धर्मश् चार्थश् च कामश् च त्रितयं जीवतः फलम् ।
एतत् त्रयम् अवाप्तव्यम् अधर्मपरिवर्जितम् ॥ ११ ॥
मुनय ऊचुः-
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ।
शरीरनिचयं ज्ञातुं बुद्धिर् नो ऽत्र प्रजायते ॥ १२ ॥
मृतं शरीरं हि नृणां सूक्ष्मम् अव्यक्ततां गतम् ।
अचक्षुर्विषयं प्राप्तं कथं धर्मो ऽनुगच्छति ॥ १३ ॥
व्यास उवाच-
पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनोन्तरम् ।
बुद्धिर् आत्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ १४ ॥
प्राणिनाम् इह सर्वेषां साक्षिभूता दिवानिशम् ।
एतैश् च सह धर्मो हि तं जीवम् अनुगच्छति ॥ १५ ॥
त्वग् अस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः ।
शरीरं वर्जयन्त्य् एते जीवितेन विवर्जितम् ॥ १६ ॥
ततो धर्मसमायुक्तः स जीवः सुखम् एधते ।
इहलोके परे चैव किं भूयः कथयामि वः ॥ १७ ॥
मुनय ऊचुः-
तद् दर्शितं भगवता यथा धर्मो ऽनुगच्छति ।
एतत् तु ज्ञातुम् इच्छामः कथं रेतः प्रवर्तते ॥ १८ ॥
व्यास उवाच-
अन्नम् अश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः ।
पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनस् तथा ॥ १९ ॥
ततस् तृप्तेषु भो विप्रास् तेषु भूतेषु पञ्चसु ।
मनःषष्ठेषु शुद्धात्मा रेतः सम्पद्यते महत् ॥ २० ॥
ततो गर्भः सम्भवति श्लेष्मा स्त्रीपुंसयोर् द्विजाः ।
एतद् वः सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ ॥ २१ ॥
मुनय ऊचुः-
आख्यातं नो भगवता गर्भः सञ्जायते यथा ।
यथा जातस् तु पुरुषः प्रपद्यते तद् उच्यताम् ॥ २२ ॥
व्यास उवाच-
आसन्नमात्रपुरुषस् तैर् भूतैर् अभिभूयते ।
विप्रयुक्तस् तु तैर् भूतैः पुनर् यात्य् अपरां गतिम् ॥ २३ ॥
स च भूतसमायुक्तः प्राप्नोति जीवम् एव हि ।
ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् ।
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुम् इच्छथ ॥ २४ ॥
मुनय ऊचुः-
त्वग् अस्थि मांसम् उत्सृज्य तैस् तु भूतैर् विवर्जितः ।
जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते ॥ २५ ॥
व्यास उवाच-
जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः ।
स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥ २६ ॥
यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर् वधः ।
दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ २७ ॥
इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः ।
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलम् आश्रितः ॥ २८ ॥
यदि धर्मं समायुज्य जन्मप्रभृति सेवते ।
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ २९ ॥
अथान्तरान्तरं धर्मम् अधर्मम् उपसेवते ।
सुखस्यानन्तरं दुःखं स जीवो ऽप्य् अधिगच्छति ॥ ३० ॥
अधर्मेण समायुक्तो यमस्य विषयं गतः ।
महादुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ ३१ ॥
कर्मणा येन येनेह यस्यां योनौ प्रजायते ।
जीवो मोहसमायुक्तस् तन् मे शृणुत साम्प्रतम् ॥ ३२ ॥
यद् एतद् उच्यते शास्त्रैः सेतिहासैश् च छन्दसि ।
यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते ॥ ३३ ॥
इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः ।
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥ ३४ ॥
यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः ।
कर्मभिर् नियतैर् बद्धो जन्तुर् दुःखान्य् उपाश्नुते ॥ ३५ ॥
येन येन हि भावेन येन वै कर्मणा गतिम् ।
प्रयाति पुरुषो घोरां तथा वक्ष्याम्य् अतः परम् ॥ ३६ ॥
अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः ।
पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते ॥ ३७ ॥
खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः ।
खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ ३८ ॥
बलीवर्दो मृतश् चापि जायते ब्रह्मराक्षसः ।
ब्रह्मरक्षस् तु मासांस् त्रींस् ततो जायेत ब्राह्मणः ॥ ३९ ॥
पतितं याजयित्वा तु कृमियोनौ प्रजायते ।
तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ॥ ४० ॥
क्रिमिभावाद् विनिर्मुक्तस् ततो जायेत गर्दभः ।
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः ॥ ४१ ॥
कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः ।
श्वा वर्षम् एकं भवति ततो जायेत मानवः ॥ ४२ ॥
उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान् ।
स जन्मानीह संसारे त्रीन् आप्नोति न संशयः ॥ ४३ ॥
प्राक् श्वा भवति भो विप्रास् ततः क्रव्यात् ततः खरः ।
प्रेत्य च परिक्लिष्टेषु पश्चाज् जायेत ब्राह्मणः ॥ ४४ ॥
मनसापि गुरोर् भार्यां यः शिष्यो याति पापकृत् ।
उदग्रान् प्रैति संसारान् अधर्मेणेह चेतसा ॥ ४५ ॥
श्वयोनौ तु स सम्भूतस् त्रीणि वर्षाणि जीवति ।
तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते ॥ ४६ ॥
कृमिभावम् अनुप्राप्तो वर्षम् एकं तु जीवति ।
ततस् तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ ४७ ॥
यदि पुत्रसमं शिष्यं गुरुर् हन्याद् अकारणम् ।
आत्मनः कामकारेण सो ऽपि हिंस्रः प्रजायते ॥ ४८ ॥
पितरं मातरं चैव यस् तु पुत्रो ऽवमन्यते ।
सो ऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः ॥ ४९ ॥
गर्दभत्वं तु सम्प्राप्य दश वर्षाणि जीवति ।
संवत्सरं तु कुम्भीरस् ततो जायेत मानवः ॥ ५० ॥
पुत्रस्य मातापितरौ यस्य रुष्टाव् उभाव् अपि ।
गुर्वपध्यानतः सो ऽपि मृतो जायेत गर्दभः ॥ ५१ ॥
खरो जीवति मासांश् च दश चापि चतुर्दश ।
बिडालः सप्त मासांस् तु ततो जायेत मानवः ॥ ५२ ॥
मातापितराव् आक्रुश्य सारीकः सम्प्रजायते ।
ताडयित्वा तु ताव् एव जायते कच्छपो द्विजाः ॥ ५३ ॥
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः ।
व्यालो भूत्वा तु षण् मासांस् ततो जायेत मानुषः ॥ ५४ ॥
भर्तृपिण्डम् उपाश्नीनो राजद्विष्टानि सेवते ।
सो ऽपि मोहसमापन्नो मृतो जायेत वानरः ॥ ५५ ॥
वानरो दश वर्षाणि सप्त वर्षाणि मूषकः ।
श्वा च भूत्वा तु षण् मासांस् ततो जायेत मानवः ॥ ५६ ॥
न्यासापहर्ता तु नरो यमस्य विषयं गतः ।
संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ ५७ ॥
तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ।
दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः ॥ ५८ ॥
असूयको नरश् चापि मृतो जायेत शार्ङ्गकः ।
विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः ॥ ५९ ॥
भूत्वा मीनो ऽष्ट वर्षाणि मृगो जायेत भो द्विजाः ।
मृगस् तु चतुरो मासांस् ततश् छागः प्रजायते ॥ ६० ॥
छागस् तु निधनं प्राप्य पूर्णे संवत्सरे ततः ।
कीटः सञ्जायते जन्तुस् ततो जायेत मानुषः ॥ ६१ ॥
धान्यान् यवांस् तिलान् माषान् कुलित्थान् सर्षपांश् चणान् ।
कलायान् अथ मुद्गांश् च गोधूमान् अतसीस् तथा ॥ ६२ ॥
सस्यान्य् अन्यानि हर्ता च मर्त्यो मोहाद् अचेतनः ।
सञ्जायते मुनिश्रेष्ठा मूषिको निरपत्रपः ॥ ६३ ॥
ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः ।
शूकरो जातमात्रस् तु रोगेण म्रियते पुनः ॥ ६४ ॥
श्वा ततो जायते मूकः कर्मणा तेन मानवः ।
भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः ॥ ६५ ॥
परदाराभिमर्शं तु कृत्वा जायेत वै वृकः ।
श्वा शृगालस् ततो गृध्रो व्यालः कङ्को बकस् तथा ॥ ६६ ॥
भ्रातुर् भार्यां तु पापात्मा यो धर्षयति मोहितः ।
पुंस्कोकिलत्वम् आप्नोति सो ऽपि संवत्सरं द्विजाः ॥ ६७ ॥
सखिभार्यां गुरोर् भार्यां राजभार्यां तथैव च ।
प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः ॥ ६८ ॥
शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः ।
पिपीलिकस् तु मासांस् त्रीन् कीटः स्यान् मासम् एव च ॥ ६९ ॥
एतान् आसाद्य संसारान् कृमियोनौ प्रजायते ।
तत्र जीवति मासांस् तु कृमियोनौ चतुर्दश ॥ ७० ॥
नरो ऽधर्मक्षयं कृत्वा ततो जायेत मानुषः ।
पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुम् इच्छति ॥ ७१ ॥
सो ऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते ।
तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः ॥ ७२ ॥
अधर्मसङ्क्षये मुक्तस् ततो जायेत मानुषः ।
देवकार्यम् अकृत्वा तु पितृकार्यम् अथापि वा ॥ ७३ ॥
अनिर्वाप्य पितॄन् देवान् मृतो जायेत वायसः ।
वायसः शतवर्षाणि ततो जायेत कुक्कुटः ॥ ७४ ॥
जायते व्यालकश् चापि मासं तस्मात् तु मानुषः ।
ज्येष्ठं पितृसमं चापि भ्रातरं यो ऽवमन्यते ॥ ७५ ॥
सो ऽपि मृत्युम् उपागम्य क्रौञ्चयोनौ प्रजायते ।
क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः ॥ ७६ ॥
ततो निधनम् आप्नोति मानुषत्वम् अवाप्नुयात् ।
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥ ७७ ॥
ततः सम्प्राप्य निधनं जायते शूकरः पुनः ।
शूकरो जातमात्रस् तु रोगेण म्रियते द्विजाः ॥ ७८ ॥
श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः ।
श्वा भूत्वा कृतकर्मासौ जायते मानुषस् ततः ॥ ७९ ॥
तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः ।
कृतघ्नस् तु मृतो विप्रा यमस्य विषयं गतः ॥ ८० ॥
यमस्य विषये क्रूरैर् बद्धः प्राप्नोति वेदनाम् ।
दण्डकं मुद्गरं शूलम् अग्निदण्डं च दारुणम् ॥ ८१ ॥
असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् ।
एताश् चान्याश् च बहवो यमस्य विषयं गताः ॥ ८२ ॥
यातनाः प्राप्य घोरास् तु ततो याति च भो द्विजाः ।
संसारचक्रम् आसाद्य क्रिमियोनौ प्रजायते ॥ ८३ ॥
क्रिमिर् भवति वर्षाणि दश पञ्च च भो द्विजाः ।
ततो गर्भं समासाद्य तत्रैव म्रियते नरः ॥ ८४ ॥
ततो गर्भशतैर् जन्तुर् बहुशः सम्प्रपद्यते ।
संसारान् सुबहून् गत्वा ततस् तिर्यक् प्रजायते ॥ ८५ ॥
ततो दुःखम् अनुप्राप्य बहुवर्षगणानि वै ।
स पुनर्भवसंयुक्तस् ततः कूर्मः प्रजायते ॥ ८६ ॥
दधि हृत्वा बकश् चापि प्लवो मत्स्यान् असंस्कृतान् ।
चोरयित्वा तु दुर्बुद्धिर् मधुदंशः प्रजायते ॥ ८७ ॥
फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः ।
चोरयित्वा तु निष्पावं जायते फलमूषकः ॥ ८८ ॥
पायसं चोरयित्वा तु तित्तिरत्वम् अवाप्नुयात् ।
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥ ८९ ॥
अपो हृत्वा तु दुर्बुद्धिर् वायसो जायते नरः ।
कांस्यं हृत्वा तु दुर्बुद्धिर् हारीतो जायते नरः ॥ ९० ॥
राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ ९१ ॥
पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति ।
कोशकारं ततो हृत्वा नरो जायेत नर्तकः ॥ ९२ ॥
अंशुकं चोरयित्वा तु शुको जायेत मानवः ।
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥ ९३ ॥
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः ।
चोरयित्वा नरः पट्टं त्व् आविकं चैव भो द्विजाः ॥ ९४ ॥
क्षौमं च वस्त्रम् आहृत्य शशो जन्तुः प्रजायते ।
चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः ॥ ९५ ॥
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ।
वर्णकादींस् तथा गन्धांश् चोरयित्वेह मानवः ॥ ९६ ॥
चुच्छुन्दरित्वम् आप्नोति विप्रो लोभपरायणः ।
तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥ ९७ ॥
अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः ।
चोरयित्वा पयश् चापि बलाका सम्प्रजायते ॥ ९८ ॥
यस् तु चोरयते तैलं नरो मोहसमन्वितः ।
सो ऽपि विप्रा मृतो जन्तुस् तैलपायी प्रजायते ॥ ९९ ॥
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः ।
अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः ॥ १०० ॥
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते ।
स मृतो मृगयोनौ तु नित्योद्विग्नो ऽभिजायते ॥ १०१ ॥
मृगो विध्येत शस्त्रेण गते संवत्सरे ततः ।
हतो मृगस् ततो मीनः सो ऽपि जालेन बध्यते ॥ १०२ ॥
मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते ।
श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥ १०३ ॥
ततस् तु निधनं प्राप्तः कालपर्यायचोदितः ।
अधर्मस्य क्षयं कृत्वा मानुषत्वम् अवाप्नुयात् ॥ १०४ ॥
वाद्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते ।
तथा पिण्याकसम्मिश्रम् अन्नं यश् चोरयेन् नरः ॥ १०५ ॥
स जायते बभ्रुसटो दारुणो मूषिको नरः ।
दशन् वै मानुषान् नित्यं पापात्मा स द्विजोत्तमाः ॥ १०६ ॥
घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते ।
मत्स्यमांसम् अथो हृत्वा काको जायेत मानवः ॥ १०७ ॥
लवणं चोरयित्वा तु चिरिकाकः प्रजायते ।
विश्वासेन तु निक्षिप्तं यो ऽपनिह्नोति मानवः ॥ १०८ ॥
स गतायुर् नरस् तेन मत्स्ययोनौ प्रजायते ।
मत्स्ययोनिम् अनुप्राप्य मृतो जायेत मानुषः ॥ १०९ ॥
मानुषत्वम् अनुप्राप्य क्षीणायुर् उपजायते ।
पापानि तु नरः कृत्वा तिर्यग् जायेत भो द्विजाः ॥ ११० ॥
न चात्मनः प्रमाणं तु धर्मं जानाति किञ्चन ।
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ॥ १११ ॥
सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्य् उत ।
असंवीताः प्रजायन्ते म्लेच्छाश् चापि न संशयः ॥ ११२ ॥
नराः पापसमाचारा लोभमोहसमन्विताः ।
वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः ॥ ११३ ॥
अरोगा रूपवन्तश् च धनिनस् ते भवन्त्य् उत ।
स्त्रियो ऽप्य् एतेन कल्पेन कृत्वा पापम् अवाप्नुयुः ॥ ११४ ॥
एतेषाम् एव पापानां भार्यात्वम् उपयान्ति ताः ।
प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः ॥ ११५ ॥
एतद् वै लेशमात्रेण कथितं वो द्विजर्षभाः ।
अपरस्मिन् कथायोगे भूयः श्रोष्यथ भो द्विजाः ॥ ११६ ॥
एतन् मया महाभागा ब्रह्मणो वदतः पुरा ।
सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा ॥ ११७ ॥
मयापि तुभ्यं कार्त्स्न्येन यथावद् अनुवर्णितम् ।
एतच् छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम् ॥ ११८ ॥