Summary (SA)
Chapter 216- Reward of the righteous in Yama’s world
{{Ref- SS 330-331}}
मुनय ऊचुः-
अहो ऽतिदुःखं घोरं च यममार्गे त्वयोदितम् ।
नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥ १ ॥
अस्त्य् उपायो न वा ब्रह्मन् यममार्गे ऽतिभीषणे ।
ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥ २ ॥
व्यास उवाच-
इह ये धर्मसंयुक्तास् त्व् अहिंसानिरता नराः ।
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ ३ ॥
यस्मिन् मनुष्यलोकास् ते सभार्याः ससुतास् तथा ।
तम् अध्वानं च गच्छन्ति यथा तत् कथयामि वः ॥ ४ ॥
विमानैर् विविधैर् दिव्यैः काञ्चनध्वजशोभितैः ।
धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥ ५ ॥
ब्राह्मणेभ्यस् तु दानानि नानारूपाणि भक्तितः ।
ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥ ६ ॥
अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसङ्कृतम् ।
श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥ ७ ॥
तरुणीभिर् वरस्त्रीभिः सेव्यमानाः प्रयत्नतः ।
धर्मराजपुरं यान्ति विमानैर् अभ्यलङ्कृतैः ॥ ८ ॥
ये च सत्यं प्रभाषन्ते बहिर् अन्तश् च निर्मलाः ।
ते ऽपि यान्त्य् अमरप्रख्या विमानैर् यममन्दिरम् ॥ ९ ॥
गोदानानि पवित्राणि विष्णुम् उद्दिश्य साधुषु ।
ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥ १० ॥
ते यान्ति दिव्यवर्णाभैर् विमानैर् मणिचित्रितैः ।
धर्मराजपुरं श्रीमान् सेव्यमानाप्सरोगणैः ॥ ११ ॥
उपानद्युगलं छत्त्रं शय्यासनम् अथापि वा ।
ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च ॥ १२ ॥
ते यान्त्य् अश्वै रथैश् चैव कुञ्जरैश् चाप्य् अलङ्कृताः ।
धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः ॥ १३ ॥
ये च भक्त्या प्रयच्छन्ति गुडपानकम् अर्चितम् ।
ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना ॥ १४ ॥
ते यान्ति काञ्चनैर् यानैर् विविधैस् तु यमालयम् ।
वरस्त्रीभिर् यथाकामं सेव्यमानाः पुनः पुनः ॥ १५ ॥
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु ।
ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥ १६ ॥
चक्रवाकप्रयुक्तैश् च विमानैस् तु हिरण्मयैः ।
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ १७ ॥
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ।
हंसयुक्तैर् विमानैस् तु यान्ति धर्मपुरं नराः ॥ १८ ॥
ये तिलांस् तिलधेनुं च घृतधेनुम् अथापि वा ।
श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः ॥ १९ ॥
सोममण्डलसङ्काशैर् यानैस् ते यान्ति निर्मलैः ।
गन्धर्वैर् उपगीयन्ते पुरे वैवस्वतस्य ते ॥ २० ॥
येषां वाप्यश् च कूपाश् च तडागानि सरांसि च ।
दीर्घिकाः पुष्करिण्यश् च शीतलाश् च जलाशयाः ॥ २१ ॥
यानैस् ते हेमचन्द्राभैर् दिव्यघण्टानिनादितैः ।
व्यजनैस् तालवृन्तैश् च वीज्यमाना महाप्रभाः ॥ २२ ॥
येषां देवकुलान्य् अत्र चित्राण्य् आयतनानि च ।
रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥ २३ ॥
ते यान्ति लोकपालैस् तु विमानैर् वातरंहसैः ।
धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥ २४ ॥
पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् ।
ते वितृष्णाः सुखं यान्ति विमानैस् तं महापथम् ॥ २५ ॥
काष्ठपादुकयानानि पीठकान्य् आसनानि च ।
यैर् दत्तानि द्विजातिभ्यस् ते ऽध्वानं यान्ति वै सुखम् ॥ २६ ॥
सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च ।
ते प्रयान्ति विमानैस् तु अप्सरोगणमण्डितैः ॥ २७ ॥
आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः ।
रोपयन्ति फलाढ्यानि नराणाम् उपकारिणः ॥ २८ ॥
वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः ।
वरस्त्रीगीतवाद्यैश् च सेव्यमाना व्रजन्ति ते ॥ २९ ॥
सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा ।
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥ ३० ॥
भूमिदा दीप्यमानाश् च सर्वकामैस् तु तर्पिताः ।
उदितादित्यसङ्काशैर् विमानैर् भृशनादितैः ॥ ३१ ॥
कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयाम् अलङ्कृताम् ।
दिव्यकन्यावृता यान्ति विमानैस् ते यमालयम् ॥ ३२ ॥
सुगन्धागुरुकर्पूरान् पुष्पधूपान् द्विजोत्तमाः ।
प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः ॥ ३३ ॥
ते सुगन्धाः सुवेशाश् च सुप्रभाः सुविभूषिताः ।
यान्ति धर्मपुरं यानैर् विचित्रैर् अभ्यलङ्कृताः ॥ ३४ ॥
दीपदा यान्ति यानैश् च दीपयन्तो दिशो दश ।
आदित्यसदृशैर् यानैर् दीप्यमाना यथाग्नयः ॥ ३५ ॥
गृहावसथदातारो गृहैः काञ्चनमण्डितैः ।
व्रजन्ति बालार्कनिभैर् धर्मराजगृहं नराः ॥ ३६ ॥
जलभाजनदातारः कुण्डिकाकरकप्रदाः ।
पूजमानाप्सरोभिश् च यान्ति दृप्ता महागजैः ॥ ३७ ॥
पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा ।
ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्य् अश्वैर् यमालयम् ॥ ३८ ॥
विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान् ।
चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम् ॥ ३९ ॥
स्वागतेन च यो विप्रं पूजयेद् आसनेन च ।
स गच्छति तम् अध्वानं सुखं परमनिर्वृतः ॥ ४० ॥
नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् ।
गां च पापहरेत्य् उक्त्वा सुखं यान्ति च तत् पथम् ॥ ४१ ॥
अनन्तराशिनो ये च दम्भानृतविवर्जिताः ।
ते ऽपि सारसयुक्तैस् तु यान्ति यानैश् च तत् पथम् ॥ ४२ ॥
वर्तन्ते ह्य् एकभक्तेन शाठ्यदम्भविवर्जिताः ।
हंसयुक्तैर् विमानैस् तु सुखं यान्ति यमालयम् ॥ ४३ ॥
चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः ।
ते यान्ति धर्मनगरं यानैर् बर्हिणयोजितैः ॥ ४४ ॥
तृतीये दिवसे ये तु भुञ्जते नियतव्रताः ।
ते ऽपि हस्तिरथैर् दिव्यैर् यान्ति यानैश् च तत् पदम् ॥ ४५ ॥
षष्ठे ऽन्नभक्षको यस् तु शौचनित्यो जितेन्द्रियः ।
स याति कुञ्जरस्थस् तु शचीपतिर् इव स्वयम् ॥ ४६ ॥
धर्मराजपुरं दिव्यं नानामणिविभूषितम् ।
नानास्वरसमायुक्तं जयशब्दरवैर् युतम् ॥ ४७ ॥
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः ।
पुरं तद् धर्मराजस्य सेव्यमानाः सुरासुरैः ॥ ४८ ॥
ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः ।
ते ऽपि सूर्यप्रदीप्तैस् तु यान्ति यानैर् यमालयम् ॥ ४९ ॥
महाप्रस्थानम् एकाग्रो यः प्रयाति दृढव्रतः ।
सेव्यमानस् तु गन्धर्वैर् याति यानैर् यमालयम् ॥ ५० ॥
शरीरं साधयेद् यस् तु वैष्णवेनान्तरात्मना ।
स रथेनाग्निवर्णेन यातीह त्रिदशालयम् ॥ ५१ ॥
अग्निप्रवेशं यः कुर्यान् नारायणपरायणः ।
स यात्य् अग्निप्रकाशेन विमानेन यमालयम् ॥ ५२ ॥
प्राणांस् त्यजति यो मर्त्यः स्मरन् विष्णुं सनातनम् ।
यानेनार्कप्रकाशेन याति धर्मपुरं नरः ॥ ५३ ॥
प्रविष्टो ऽन्तर् जलं यस् तु प्राणांस् त्यजति मानवः ।
सोममण्डलकल्पेन याति यानेन वै सुखम् ॥ ५४ ॥
स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति ।
स याति रथमुख्येन काञ्चनेन यमालयम् ॥ ५५ ॥
स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युम् उपैति यः ।
स यात्य् अमरकन्याभिः सेव्यमानो रविप्रभः ॥ ५६ ॥
वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः ।
तत् पथं यान्ति ते घोरं सुखयानैर् अलङ्कृताः ॥ ५७ ॥
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर् भूरिदक्षिणैः ।
तप्तहाटकसङ्काशैर् विमानैर् यान्ति ते सुखम् ॥ ५८ ॥
परपीडाम् अकुर्वन्तो भृत्यानां भरणादिकम् ।
कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः ॥ ५९ ॥
ये क्षान्ताः सर्वभूतेषु प्राणिनाम् अभयप्रदाः ।
क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः ॥ ६० ॥
पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः ।
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥ ६१ ॥
एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् ।
पूजयन्ति हि ते यान्ति विमानैर् भास्करप्रभैः ॥ ६२ ॥
ये च मांसं न खादन्ति सत्यशौचसमन्विताः ।
ते ऽपि यान्ति सुखेनैव धर्मराजपुरं नराः ॥ ६३ ॥
मांसान् मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च ।
तस्मान् मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः ॥ ६४ ॥
गोसहस्रं तु यो दद्याद् यस् तु मांसं न भक्षयेत् ।
समाव् एतौ पुरा प्राह ब्रह्मा वेदविदां वरः ॥ ६५ ॥
सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम् ।
अमांसभक्षणे विप्रास् तच् च तच् च च तत्समम् ॥ ६६ ॥
एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः ।
दानव्रतपरा यानैर् यत्र देवो रवेः सुतः ॥ ६७ ॥
दृष्ट्वा तान् धार्मिकान् देवः स्वयं सम्मानयेद् यमः ।
स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु ॥ ६८ ॥
धन्या यूयं महात्मान आत्मनो हितकारिणः ।
येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥ ६९ ॥
इदं विमानम् आरुह्य दिव्यस्त्रीभोगभूषिताः ।
स्वर्गं गच्छध्वम् अतुलं सर्वकामसमन्वितम् ॥ ७० ॥
तत्र भुक्त्वा महाभोगान् अन्ते पुण्यपरिक्षयात् ।
यत् किञ्चिद् अल्पम् अशुभं फलं तद् इह भोक्ष्यथ ॥ ७१ ॥
ये तु तं धर्मराजानं नराः पुण्यानुभावतः ।
पश्यन्ति सौम्यमनसं पितृभूतम् इवात्मनः ॥ ७२ ॥
तस्माद् धर्मः सेवितव्यः सदा मुक्तिफलप्रदः ।
धर्माद् अर्थस् तथा कामो मोक्षश् च परिकीर्त्यते ॥ ७३ ॥
धर्मो माता पिता भ्राता धर्मो नाथः सुहृत् तथा ।
धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः ॥ ७४ ॥
धर्माद् अर्थो ऽर्थतः कामः कामाद् भोगः सुखानि च ।
धर्माद् ऐश्वर्यम् एकाग्र्यं धर्मात् स्वर्गगतिः परा ॥ ७५ ॥
धर्मस् तु सेवितो विप्रास् त्रायते महतो भयात् ।
देवत्वं च द्विजत्वं च धर्मात् प्राप्नोत्य् असंशयम् ॥ ७६ ॥
यदा च क्षीयते पापं नराणां पूर्वसञ्चितम् ।
तदैषां भजते बुद्धिर् धर्मं चात्र द्विजोत्तमाः ॥ ७७ ॥
जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् ।
यो हि नाचरते धर्मं भवेत् स खलु वञ्चितः ॥ ७८ ॥
कुत्सिता ये दरिद्राश् च विरूपा व्याधितास् तथा ।
परप्रेष्याश् च मूर्खाश् च ज्ञेया धर्मविवर्जिताः ॥ ७९ ॥
ये हि दीर्घायुषः शूराः पण्डिता भोगिनो ऽर्थिनः ।
अरोगा रूपवन्तश् च तैस् तु धर्मः पुरा कृतः ॥ ८० ॥
एवं धर्मरता विप्रा गच्छन्ति गतिम् उत्तमाम् ।
अधर्मं सेवमानास् तु तिर्यग्योनिं व्रजन्ति ते ॥ ८१ ॥
ये नरा नरकध्वंसिवासुदेवम् अनुव्रताः ।
ते स्वप्ने ऽपि न पश्यन्ति यमं वा नरकाणि वा ॥ ८२ ॥
अनादिनिधनं देवं दैत्यदानवदारणम् ।
ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥ ८३ ॥
कर्मणा मनसा वाचा ये ऽच्युतं शरणं गताः ।
न समर्थो यमस् तेषां ते मुक्तिफलभागिनः ॥ ८४ ॥
ये जना जगतां नाथं नित्यं नारायणं द्विजाः ।
नमन्ति नहि ते विष्णोः स्थानाद् अन्यत्र गामिनः ॥ ८५ ॥
न ते दूतान् न तन् मार्गं न यमं न च तां पुरीम् ।
प्रणम्य विष्णुं पश्यन्ति नरकाणि कथञ्चन ॥ ८६ ॥
कृत्वापि बहुशः पापं नरा मोहसमन्विताः ।
न यान्ति नरकं नत्वा सर्वपापहरं हरिम् ॥ ८७ ॥
शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ।
ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम् ॥ ८८ ॥
अत्यन्तक्रोधसक्तो ऽपि कदाचित् कीर्तयेद् धरिम् ।
सो ऽपि दोषक्षयान् मुक्तिं लभेच् चेदिपतिर् यथा ॥ ८९ ॥