Summary (SA)
Chapter 215- Punishment of the wicked in Yama’s world; description of hells
{{Ref- SS 326-330}}
मुनय ऊचुः-
कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् ।
श्रोतुम् इच्छाम तद् ब्रूहि विस्तरेण तपोधन ॥ १ ॥
व्यास उवाच-
सुघोरं तन् महाघोरं द्वारं वक्ष्यामि भीषणम् ।
नानाश्वापदसङ्कीर्णं शिवाशतनिनादितम् ॥ २ ॥
फेत्काररवसंयुक्तम् अगम्यं लोमहर्षणम् ।
भूतप्रेतपिशाचैश् च वृतं चान्यैश् च राक्षसैः ॥ ३ ॥
एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः ।
मोहं गच्छन्ति सहसा त्रासाद् विप्रलपन्ति च ॥ ४ ॥
ततस् ताञ् शृङ्खलैः पाशैर् बद्ध्वा कर्षन्ति निर्भयाः ।
ताडयन्ति च दण्डैश् च भर्त्सयन्ति पुनः पुनः ॥ ५ ॥
लब्धसञ्ज्ञास् ततस् ते वै रुधिरेण परिप्लुताः ।
व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥ ६ ॥
तीव्रकण्टकयुक्तेन शर्करानिचितेन च ।
क्षुरधारानिभैस् तीक्ष्णैः पाषाणैर् निचितेन च ॥ ७ ॥
क्वचित् पङ्केन निचिता निरुत्तारैश् च खातकैः ।
लोहसूचीनिभैर् दन्तैः सञ्छन्नेन क्वचित् क्वचित् ॥ ८ ॥
तटप्रपातविषमैः पर्वतैर् वृक्षसङ्कुलैः ।
प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ ९ ॥
क्वचिद् विषमगर्ताभिः क्वचिल् लोष्टैः सुपिच्छलैः ।
सुतप्तवालुकाभिश् च तथा तीक्ष्णैश् च शङ्कुभिः ॥ १० ॥
अयःशृङ्गाटकैस् तप्तैः क्वचिद् दावाग्निना युतम् ।
क्वचित् तप्तशिलाभिश् च क्वचिद् व्याप्तं हिमेन च ॥ ११ ॥
क्वचिद् वालुकया व्याप्तम् आकण्ठान्तःप्रवेशया ।
क्वचिद् दुष्टाम्बुना व्याप्तं क्वचित् कर्षाग्निना पुनः ॥ १२ ॥
क्वचित् सिंहैर् वृकैर् व्याघ्रैर् दशकीटैश् च दारुणैः ।
क्वचिन् महाजलौकाभिः क्वचिद् अजगरैः पुनः ॥ १३ ॥
मक्षिकाभिश् च रौद्राभिः क्वचित् सर्पविषोल्बणैः ।
क्वचिद् दुष्टगजैश् चैव बलोन्मत्तैः प्रमाथिभिः ॥ १४ ॥
पन्थानम् उल्लिखद्भिश् च तीक्ष्णशृङ्गैर् महावृषैः ।
महाशृङ्गैश् च महिषैर् उष्ट्रैर् मत्तैश् च खादनैः ॥ १५ ॥
डाकिनीभिश् च रौद्राभिर् विकरालैश् च राक्षसैः ।
व्याधिभिश् च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥ १६ ॥
महाधूलिविमिश्रेण महाचण्डेन वायुना ।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ १७ ॥
क्वचिद् विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते ।
महता बाणवर्षेण भिद्यमानाश् च सर्वशः ॥ १८ ॥
पतद्भिर् वज्रनिर्घातैर् उल्कापातैः सुदारुणैः ।
प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥ १९ ॥
महता पांशुवर्षेण पूर्यमाणा रुदन्ति च ।
मेघारवैः सुघोरैश् च वित्रास्यन्ते मुहुर् मुहुः ॥ २० ॥
निःशेषाः शरवर्षेण चूर्ण्यमाणाश् च सर्वतः ।
महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २१ ॥
महाशीतेन मरुता रूक्षेण परुषेण च ।
समन्ताद् दीर्यमाणाश् च शुष्यन्ते सङ्कुचन्ति च ॥ २२ ॥
इत्थं मार्गेण पुरुषाः पाथेयरहितेन च ।
निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २३ ॥
अतिश्रमेण महता निर्गतेनाश्रमाय वै ।
नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥ २४ ॥
यमदूतैर् महाघोरैस् तदाज्ञाकारिभिर् बलात् ।
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ २५ ॥
शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर् मुहुः ।
प्रेतीभूता निषिद्धास् ते शुष्ककण्ठौष्ठतालुकाः ॥ २६ ॥
कृशाङ्गा भीतभीताश् च दह्यमानाः क्षुधाग्निना ।
बद्धाः शृङ्खलया केचित् केचिद् उत्तानपादयोः ॥ २७ ॥
आकृष्यन्ते शुष्यमाणा यमदूतैर् बलोत्कटैः ।
नरा अधोमुखाश् चान्ये कृष्यमाणाः सुदुःखिताः ॥ २८ ॥
अन्नपानीयरहिता याचमानाः पुनः पुनः ।
देहि देहीति भाषन्तः साश्रुगद्गदया गिरा ॥ २९ ॥
कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः ।
भक्ष्यान् उच्चावचान् दृष्ट्वा भोज्यान् पेयांश् च पुष्कलान् ॥ ३० ॥
सुगन्धद्रव्यसंयुक्तान् याचमानाः पुनः पुनः ।
दधिक्षीरघृतोन्मिश्रं दृष्ट्वा शाल्योदनं तथा ॥ ३१ ॥
पानानि च सुगन्धीनि शीतलान्य् उदकानि च ।
तान् याचमानांस् ते याम्या भर्त्सयन्तस् तदाब्रुवन् ।
वचोभिः परुषैर् भीमाः क्रोधरक्तान्तलोचनाः ॥ ३२ ॥
याम्या ऊचुः-
न भवद्भिर् हुतं काले न दत्तं ब्राह्मणेषु च ।
प्रसभं दीयमानं च वारितं च द्विजातिषु ॥ ३३ ॥
तस्य पापस्य च फलं भवतां समुपागतम् ।
नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः ॥ ३४ ॥
कुतो वा साम्प्रतं विप्रे यन् न दत्तं पुराधमाः ।
यैर् दत्तानि तु दानानि साधुभिः सात्त्विकानि तु ॥ ३५ ॥
तेषाम् एते प्रदृश्यन्ते कल्पिता ह्य् अन्नपर्वताः ।
भक्ष्यभोज्याश् च पेयाश् च लेह्याश् चोष्याश् च संवृताः ॥ ३६ ॥
न यूयम् अभिलप्स्यध्वे न दत्तं च कथञ्चन ।
यैस् तु दत्तं हुतं चेष्टं ब्राह्मणाश् चैव पूजिताः ॥ ३७ ॥
तेषाम् अन्नं समानीय इह निक्षिप्यते सदा ।
परस्वं कथम् अस्माभिर् दातुं शक्येत नारकाः ॥ ३८ ॥
व्यास उवाच-
किङ्कराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः ।
ततस् ते दारुणैश् चास्त्रैः पीड्यन्ते यमकिङ्करैः ॥ ३९ ॥
मुद्गरैर् लोहदण्डैश् च शक्तितोमरपट्टिशैः ।
परिघैर् भिन्दिपालैश् च गदापरशुभिः शरैः ॥ ४० ॥
पृष्ठतो हन्यमान्याश् च यमदूतैः सुनिर्दयैः ।
अग्रतः सिंहव्याघ्राद्यैर् भक्ष्यन्ते पापकारिणः ॥ ४१ ॥
न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् ।
स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः ॥ ४२ ॥
तत्र सम्पीड्य सुभृशं प्रवेशं यमकिङ्करैः ।
नीयन्ते पापिनस् तत्र यत्र तिष्ठेत् स्वयं यमः ॥ ४३ ॥
धर्मात्मा धर्मकृद् देवः सर्वसंयमनो यमः ।
एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः ॥ ४४ ॥
प्रज्ञापितास् तदा दूतैर् निवेश्यन्ते यमाग्रतः ।
ततस् ते पापकर्माणस् तं पश्यन्ति भयानकम् ॥ ४५ ॥
पापापविद्धनयना विपरीतात्मबुद्धयः ।
दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम् ॥ ४६ ॥
ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् ।
अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥ ४७ ॥
सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् ।
महामहिषम् आरूढं दीप्ताग्निसमलोचनम् ॥ ४८ ॥
रक्तमाल्याम्बरधरं महामेघम् इवोच्छ्रितम् ।
प्रलयाम्बुदनिर्घोषं पिबन्न् इव महोदधिम् ॥ ४९ ॥
ग्रसन्तम् इव त्रैलोक्यम् उद्गिरन्तम् इवानलम् ।
मृत्युं च तत्समीपस्थं कालानलसमप्रभम् ॥ ५० ॥
प्रलयानलसङ्काशं कृतान्तं च भयानकम् ।
मारीचोग्रा महामारी कालरात्री च दारुणा ॥ ५१ ॥
विविधा व्याधयः कष्टा नानारूपा भयावहाः ।
शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः ॥ ५२ ॥
वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः ।
असङ्ख्याता महावीर्याः क्रूराश् चाञ्जनसप्रभाः ॥ ५३ ॥
सर्वायुधोद्यतकरा यमदूता भयानकाः ।
अनेन परिवारेण महाघोरेण संवृतम् ॥ ५४ ॥
यमं पश्यन्ति पापिष्ठाश् चित्रगुप्तं विभीषणम् ।
निर्भर्त्सयति चात्यर्थं यमस् तान् पापकारिणः ॥ ५५ ॥
चित्रगुप्तस् तु भगवान् धर्मवाक्यैः प्रबोधयन् ॥ ५६ ॥
चित्रगुप्त उवाच-
भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः ।
गर्विता रूपवीर्येण परदारविमर्दकाः ॥ ५७ ॥
यत् स्वयं क्रियते कर्म तत् स्वयं भुज्यते पुनः ।
तत् किम् आत्मोपघातार्थं भवद्भिर् दुष्कृतं कृतम् ॥ ५८ ॥
इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः ।
भुञ्जध्वं स्वानि दुःखानि नहि दोषो ऽस्ति कस्यचित् ॥ ५९ ॥
य एते पृथिवीपालाः सम्प्राप्ता मत्समीपतः ।
स्वकीयैः कर्मभिर् घोरैर् दुष्प्रज्ञा बलगर्विताः ॥ ६० ॥
भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ।
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ ६१ ॥
राज्यलोभेन मोहेन बलाद् अन्यायतः प्रजाः ।
यद् दण्डिताः फलं तस्य भुञ्जध्वम् अधुना नृपाः ॥ ६२ ॥
कुतो राज्यं कलत्रं च यदर्थम् अशुभं कृतम् ।
तत् सर्वं सम्परित्यज्य यूयम् एकाकिनः स्थिताः ॥ ६३ ॥
पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः ।
यमदूतैः पाट्यमाना अधुना कीदृशं फलम् ॥ ६४ ॥
व्यास उवाच-
एवं बहुविधैर् वाक्यैर् उपालब्धा यमेन ते ।
शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ॥ ६५ ॥
इति कर्म समादिश्य नृपाणां धर्मराट् स्वयम् ।
तत्पातकविशुद्ध्यर्थम् इदं वचनम् अब्रवीत् ॥ ६६ ॥
यम उवाच-
भो भोश् चण्ड महाचण्ड गृहीत्वा नृपतीन् इमान् ।
विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥ ६७ ॥
व्यास उवाच-
ततः शीघ्रं समुत्थाय नृपान् सङ्गृह्य पादयोः ।
भ्रामयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥ ६८ ॥
तत्तत्पापप्रमाणेन यमदूताः शिलातले ।
आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम् ॥ ६९ ॥
ततस् तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः ।
निःसञ्ज्ञः स तदा देही निश्चेष्टश् च प्रजायते ॥ ७० ॥
ततः स वायुना स्पृष्टः शनैर् उज्जीवते पुनः ।
ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ ७१ ॥
अन्यांश् च ते तदा दूताः पापकर्मरतान् नरान् ।
निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान् ॥ ७२ ॥
यमदूता ऊचुः-
एष देव तवादेशाद् अस्माभिर् मोहितो भृशम् ।
आनीतो धर्मविमुखः सदा पापरतः परः ॥ ७३ ॥
एष लुब्धो दुराचारो महापातकसंयुतः ।
उपपातककर्ता च सदा हिंसारतो शुचिः ॥ ७४ ॥
अगम्यागामी दुष्टात्मा परद्रव्यापहारकः ।
कन्याक्रयी कूटसाक्षी कृतघ्नो मित्रवञ्चकः ॥ ७५ ॥
अनेन मदमत्तेन सदा धर्मो विनिन्दितः ।
पापम् आचरितं कर्म मर्त्यलोके दुरात्मना ॥ ७६ ॥
इदानीम् अस्य देवेश निग्रहानुग्रहौ वद ।
प्रभुर् अस्य क्रियायोगे वयं वा परिपन्थिनः ॥ ७७ ॥
व्यास उवाच-
इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम् ।
नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ ७८ ॥
किङ्करास् ते ततो यान्ति ग्रहीतुम् अपरान् नरान् ।
प्रतिपन्ने कृते दोषे यमो वै पापकारिणाम् ॥ ७९ ॥
समादिशति तान् घोरान् निग्रहाय स्वकिङ्करान् ।
यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर् विनिग्रहः ॥ ८० ॥
पापस्य तद् भृशं क्रुद्धाः कुर्वन्ति यमकिङ्कराः ।
अङ्कुशैर् मुद्गरैर् दण्डैः क्रकचैः शक्तितोमरैः ॥ ८१ ॥
खड्गशूलनिपातैश् च भिद्यन्ते पापकारिणः ।
नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ ८२ ॥
स्वकर्मोपार्जितैर् दोषैः पीड्यन्ते यमकिङ्करैः ।
शृणुध्वं नरकाणां च स्वरूपं च भयङ्करम् ॥ ८३ ॥
नामानि च प्रमाणं च येन यान्ति नराश् च तान् ।
महावाचीति विख्यातं नरकं शोणितप्लुतम् ॥ ८४ ॥
वज्रकण्टकसम्मिश्रं योजनायुतविस्तृतम् ।
तत्र सम्पीड्यते मग्नो भिद्यते वज्रकण्टके ॥ ८५ ॥
वर्षलक्षं महाघोरं गोघाती नरके नरः ।
योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम् ॥ ८६ ॥
ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता ।
ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः ॥ ८७ ॥
दह्यन्ते तत्र सङ्क्षिप्ता यावद् आभूतसम्प्लवम् ।
रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः ॥ ८८ ॥
योजनानां सहस्राणि षष्टिर् आयामविस्तरैः ।
भिद्यन्ते तत्र नाराचैः सज्वालैर् नरके नराः ॥ ८९ ॥
इक्षुवत् तत्र पीड्यन्ते ये नराः कूटसाक्षिणः ।
अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम् ॥ ९० ॥
निक्षिप्तास् तत्र दह्यन्ते बन्दिग्राहकृताश् च ये ।
अप्रतिष्ठेति नरकं पूयमूत्रपुरीषकम् ॥ ९१ ॥
अधोमुखः पतेत् तत्र ब्राह्मणस्योपपीडकः ।
लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम् ॥ ९२ ॥
निमग्नास् तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः ।
महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम् ॥ ९३ ॥
तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः ।
नरकं च महाघोरं जयन्ती चायसी शिला ॥ ९४ ॥
तया चाक्रम्यते पापः परदारोपसेवकः ।
नरकं शाल्मलाख्यं तु प्रदीप्तदृढकण्टकम् ॥ ९५ ॥
तया लिङ्गति दुःखार्ता नारी बहुनरङ्गमा ।
ये वदन्ति सदासत्यं परमर्मावकर्तनम् ॥ ९६ ॥
जिह्वा चोच्छ्रियते तेषां सदस्यैर् यमकिङ्करैः ।
ये तु रागैः कटाक्षैश् च वीक्षन्ते परयोषितम् ॥ ९७ ॥
तेषां चक्षूंषि नाराचैर् विध्यन्ते यमकिङ्करैः ॥ ९८ ॥
मातरं ये ऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम् ।
स्त्रीबालवृद्धहन्तारो यावद् इन्द्राश् चतुर्दश ।
ज्वालामालाकुलं रौद्रं महारौरवसञ्ज्ञितम् ॥ ९९ ॥
नरकं योजनानां च सहस्राणि चतुर्दश ।
पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना ॥ १०० ॥
स तत्र दह्यते मूढो यावत् कल्पस्थितिर् नरः ।
तामिस्रम् इति विख्यातं लक्षयोजनविस्तृतम् ॥ १०१ ॥
निपतद्भिः सदा रौद्रः खड्गपट्टिशमुद्गरैः ।
तत्र चौरा नराः क्षिप्तास् ताड्यन्ते यमकिङ्करैः ॥ १०२ ॥
शूलशक्तिगदाखड्गैर् यावत् कल्पशतत्रयम् ।
तामिस्राद् द्विगुणं प्रोक्तं महातामिस्रसञ्ज्ञितम् ॥ १०३ ॥
जलौकासर्पसम्पूर्णां निरालोकं सुदुःखदम् ।
मातृहा पितृहा चैव मित्रविस्रम्भघातकः ॥ १०४ ॥
तिष्ठन्ति तक्ष्यमाणाश् च यावत् तिष्ठति मेदिनी ।
असिपत्त्रवनं नाम नरकं भूरिदुःखदम् ॥ १०५ ॥
योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम् ।
पातितस् तत्र तैः खड्गैः शतधा तु समाहतः ॥ १०६ ॥
मित्रघ्नः कृत्यते तावद् यावद् आभूतसम्प्लवम् ।
करम्भवालुका नाम नरकं योजनायुतम् ॥ १०७ ॥
कूपाकारं वृतं दीप्तैर् वालुकाङ्गारकण्टकैः ।
दह्यते भिद्यते वर्षलक्षायुतशतत्रयम् ॥ १०८ ॥
येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः ।
काकोलं नाम नरकं कृमिपूयपरिप्लुतम् ॥ १०९ ॥
क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ् नरः ।
कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः ॥ ११० ॥
पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः ।
सुदुर्गन्धं महाभीमं मांसशोणितसङ्कुलम् ॥ १११ ॥
अभक्ष्यान्ने रतास् ते ऽत्र निपतन्ति नराधमाः ।
क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम् ॥ ११२ ॥
अधोमुखः पतेत् तत्र कन्याविक्रयकृन् नरः ।
नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम् ॥ ११३ ॥
तिलवत् तत्र पीड्यन्ते परपीडारताश् च ये ।
नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम् ॥ ११४ ॥
पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् ।
नाम्ना वज्रकपाटेति वज्रशृङ्खलयान्वितम् ॥ ११५ ॥
पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः ।
निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम् ॥ ११६ ॥
निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत् ।
अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम् ॥ ११७ ॥
दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् ।
महापायीति नरकं लक्षयोजनम् आयतम् ॥ ११८ ॥
पात्यन्ते ऽधोमुखास् तत्र ये जल्पन्ति सदानृतम् ।
महाज्वालेति नरकं ज्वालाभास्वरभीषणम् ॥ ११९ ॥
दह्यते तत्र सुचिरं यः पापे बुद्धिकृन् नरः ।
नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः ॥ १२० ॥
क्रकचैर् वज्रधारोग्रैर् अगम्यागमने रताः ।
नरकं गुडपाकेति ज्वलद्गुडह्रदैर् वृतम् ॥ १२१ ॥
निक्षिप्तो दह्यते तस्मिन् वर्णसङ्करकृन् नरः ।
क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम् ॥ १२२ ॥
छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः ।
नरकं चाम्बरीषाख्यं प्रलयानलदीपितम् ॥ १२३ ॥
कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः ।
नाम्ना वज्रकुठारेति नरकं वज्रसङ्कुलम् ॥ १२४ ॥
छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः ।
नरकं परितापाख्यं प्रलयानलदीपितम् ॥ १२५ ॥
गरदो मधुहर्ता च पच्यते तत्र पापकृत् ।
नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम् ॥ १२६ ॥
भ्रमन्तस् तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः ।
नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम् ॥ १२७ ॥
तत्र सङ्क्षिप्यते कल्पं सदा मांसरुचिर् नरः ।
नरकं चोग्रगन्धेति लालामूत्रपुरीषवत् ॥ १२८ ॥
क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः ।
नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम् ॥ १२९ ॥
उत्कोचभक्षकस् तत्र तिष्ठते वर्षकायुतम् ।
यच् च वज्रमहापीडा नरकं वज्रनिर्मितम् ॥ १३० ॥
तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिङ्करैः ।
धनं धान्यं हिरण्यं वा परकीयं हरन्ति ये ॥ १३१ ॥
यमदूतैश् च चौरास् ते छिद्यन्ते लवशः क्षुरैः ।
ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत् ॥ १३२ ॥
भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिङ्करैः ।
आसनं शयनं वस्त्रं परकीयं हरन्ति ये ॥ १३३ ॥
यमदूतैश् च ते मूढा भिद्यन्ते शक्तितोमरैः ।
फलं पत्त्रं नृणां वापि हृतं यैस् तु कुबुद्धिभिः ॥ १३४ ॥
यमदूतैश् च ते क्रुद्धैर् दह्यन्ते तृणवह्निभिः ।
परद्रव्ये कलत्रे च यः सदा दुष्टधीर् नरः ॥ १३५ ॥
यमदूतैर् ज्वलत् तस्य हृदि शूलं निखन्यते ।
कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥ १३६ ॥
यमलोके तु ते घोरा लभन्ते परियातनाः ।
एवं शतसहस्राणि लक्षकोटिशतानि च ॥ १३७ ॥
नरकाणि नरैस् तत्र भुज्यन्ते पापकारिभिः ।
इह कृत्वा स्वल्पम् अपि नरः कर्माशुभात्मकम् ॥ १३८ ॥
प्राप्नोति नरके घोरे यमलोकेषु यातनाम् ।
न शृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम् ॥ १३९ ॥
दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते ।
दिवा रात्रौ प्रयत्नेन पापं कुर्वन्ति ये नराः ॥ १४० ॥
नाचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः ।
इहैव फलभोक्तारः परत्र विमुखाश् च ये ॥ १४१ ॥
ते पतन्ति सुघोरेषु नरकेषु नराधमाः ।
दारुणो नरके वासः स्वर्गवासः सुखप्रदः ।
नरैः सम्प्राप्यते तत्र कर्म कृत्वा शुभाशुभम् ॥ १४२ ॥