214

Summary (SA)

Chapter 214- The path to Yama’s world; the gates to his city

{{Ref- SS 324-326}}

मुनय ऊचुः-

न तृप्तिम् अधिगच्छामः पुण्यधर्मामृतस्य च ।
मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ १ ॥

उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् ।
वेत्सि सर्वं मुने तेन पृच्छामस् त्वां महामतिम् ॥ २ ॥

श्रूयते यमलोकस्य मार्गः परमदुर्गमः ।
दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः ॥ ३ ॥

कथं तेन नरा यान्ति मार्गेण यमसादनम् ।
प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ ४ ॥

मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वम् अशेषतः ।
कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने ॥ ५ ॥

केनोपायेन दानेन धर्मेण नियमेन च ।
मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम् ॥ ६ ॥

कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा ।
स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ ७ ॥

कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः ।
किं रूपं किं प्रमाणं वा को वर्णस् तूभयोर् अपि ।
जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ ८ ॥

व्यास उवाच-

शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः ।
संसारचक्रम् अजरं स्थितिर् यस्य न विद्यते ॥ ९ ॥

सो ऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् ।
उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति ॥ १० ॥

स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः ।
यमलोकस्य चाध्वानम् अन्तरं मानुषस्य च ॥ ११ ॥

योजनानां सहस्राणि षडशीतिस् तद् अन्तरम् ।
तप्तताम्रम् इवातप्तं तद् अध्वानम् उदाहृतम् ॥ १२ ॥

तद् अवश्यं हि गन्तव्यं प्राणिभिर् जीवसञ्ज्ञकैः ।
पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो ऽधमाः ॥ १३ ॥

द्वाविंशतिश् च नरका यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक् ॥ १४ ॥

नरको रौरवो रौद्रः शूकरस् ताल एव च ।
कुम्भीपाको महाघोरः शाल्मलो ऽथ विमोहनः ॥ १५ ॥

कीटादः कृमिभक्षश् च नालाभक्षो भ्रमस् तथा ।
नद्यः पूयवहाश् चान्या रुधिराम्भस् तथैव च ॥ १६ ॥

अग्निज्वालो महाघोरः सन्दंशः शुनभोजनः ।
घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ १७ ॥

न तत्र वृक्षच्छाया वा न तडागाः सरांसि च ।
न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ १८ ॥

न मण्डपो नायतनं न नद्यो न च पर्वताः ।
न किञ्चिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ १९ ॥

यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः ।
अवश्यम् एव गन्तव्यः स सर्वैस् तु महापथः ॥ २० ॥

प्राप्ते काले तु सन्त्यज्य सुहृद्बन्धुधनादिकम् ।
जरायुजाण्डजाश् चैव स्वेदजाश् चोद्भिजास् तथा ॥ २१ ॥

जङ्गमाजङ्गमाश् चैव गमिष्यन्ति महापथम् ।
देवासुरमनुष्यैश् च वैवस्वतवशानुगैः ॥ २२ ॥

स्त्रीपुन्नपुंसकैश् चैव पृथिव्यां जीवसञ्ज्ञितैः ।
पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २३ ॥

सन्ध्याकाले ऽर्धरात्रे वा प्रत्यूषे वाप्य् उपस्थिते ।
वृद्धैर् वा मध्यमैर् वापि यौवनस्थैस् तथैव च ॥ २४ ॥

गर्भवासे ऽथ बाल्ये वा गन्तव्यः स महापथः ।
प्रवासस्थैर् गृहस्थैर् वा पर्वतस्थैः स्थले ऽपि वा ॥ २५ ॥

क्षेत्रस्थैर् वा जलस्थैर् वा गृहमध्यगतैस् तथा ।
आसीनैश् चास्थितैर् वापि शयनीयगतैस् तथा ॥ २६ ॥

जाग्रद्भिर् वा प्रसुप्तैर् वा गन्तव्यः स महापथः ।
इहानुभूय निर्दिष्टम् आयुर् जन्तुः स्वयं तदा ॥ २७ ॥

तस्यान्ते च स्वयं प्राणैर् अनिच्छन्न् अपि मुच्यते ।
जलम् अग्निर् विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः ॥ २८ ॥

निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते ।
विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २९ ॥

अन्यच् छरीरम् आदत्ते यातनीयं स्वकर्मजम् ।
दृढं शरीरम् आप्नोति सुखदुःखोपभुक्तये ॥ ३० ॥

तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् ।
सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ ३१ ॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ ३२ ॥

उदानो नाम पवनस् ततश् चोर्ध्वं प्रवर्तते ।
भुज्यताम् अम्बुभक्ष्याणाम् अधोगतिनिरोधकृत् ॥ ३३ ॥

ततो येनाम्बुदानानि कृतान्य् अन्नरसास् तथा ।
दत्ताः स तस्याम् आह्लादम् आपदि प्रतिपद्यते ॥ ३४ ॥

अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
सो ऽपि तृप्तिम् अवाप्नोति विनाप्य् अन्नेन वै तदा ॥ ३५ ॥

येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च ।
आस्तिकः श्रद्दधानश् च सुखमृत्युं स गच्छति ॥ ३६ ॥

देवब्राह्मणपूजायां निरताश् चानसूयकाः ।
शुक्ला वदान्या ह्रीमन्तस् ते नराः सुखमृत्यवः ॥ ३७ ॥

यः कामान् नापि संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत् ।
यथोक्तकारी सौम्यश् च स सुखं मृत्युम् ऋच्छति ॥ ३८ ॥

वारिदास् तृषितानां ये क्षुधितान्नप्रदायिनः ।
प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ ३९ ॥

शीतं जयन्ति धनदास् तापं चन्दनदायिनः ।
प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ ४० ॥

मोहं ज्ञानप्रदातारस् तथा दीपप्रदास् तमः ।
कूटसाक्षी मृषावादी यो गुरुर् नानुशास्ति वै ॥ ४१ ॥

ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ।
विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ ४२ ॥

आगच्छन्ति दुरात्मानो यमस्य पुरुषास् तथा ।
प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ ४३ ॥

क्रन्दत्य् अविरतः सो ऽथ भ्रातृमातृपितृंस् तथा ।
सा तु वाग् अस्फुटा विप्रा एकवर्णा विभाव्यते ॥ ४४ ॥

दृष्टिर् विभ्राम्यते त्रासात् कासावृष्ट्य् अत्य् अथाननम् ।
ततः स वेदनाविष्टं तच् छरीरं विमुञ्चति ॥ ४५ ॥

वाय्वग्रसारी तद्रूपदेहम् अन्यत् प्रपद्यते ।
तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ ४६ ॥

तत्प्रमाणवयोवस्थासंस्थानैः प्राप्यते व्यथा ।
ततो दूतो यमस्याथ पाशैर् बध्नाति दारुणैः ॥ ४७ ॥

जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् ।
भूतैः सन्त्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ ४८ ॥

शरीराच् च्यावितो जीवो रोरवीति तथोल्बणम् ।
निर्गतो वायुभूतस् तु षाट्कौशिककलेवरे ॥ ४९ ॥

मातृभिः पितृभिश् चैव भ्रातृभिर् मातुलैस् तथा ।
दारैः पुत्रैर् वयस्यैश् च गुरुभिस् त्यज्यते भुवि ॥ ५० ॥

दृश्यमानश् च तैर् दीनैर् अश्रुपूर्णेक्षणैर् भृशम् ।
स्वशरीरं समुत्सृज्य वायुभूतस् तु गच्छति ॥ ५१ ॥

अन्धकारम् अपारं च महाघोरं तमोवृतम् ।
सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ ५२ ॥

दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् ।
दुरापम् अतिदुर्गं च पापिष्ठानां सदाहितम् ॥ ५३ ॥

कृष्यमाणाश् च तैर् भूतैर् याम्यैः पाशैस् तु संयताः ।
मुद्गरैस् ताड्यमानाश् च नीयन्ते तं महापथम् ॥ ५४ ॥

क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये ।
निनीषवः समायान्ति यमदूता भयङ्कराः ॥ ५५ ॥

आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च ।
उष्ट्रेषु वानरेष्व् अन्ये वृश्चिकेषु वृकेषु च ॥ ५६ ॥

उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः ।
श्येनशृगालम् आरूढाः सरघाकङ्कवाहनाः ॥ ५७ ॥

वराहपशुवेतालमहिषास्यास् तथा परे ।
नानारूपधरा घोराः सर्वप्राणिभयङ्कराः ॥ ५८ ॥

दीर्घमुष्काः करालास्या वक्रनासास् त्रिलोचनाः ।
महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ ५९ ॥

निर्गतैर् विकृताकारैर् दशनैर् अङ्कुरोपमैः ।
मांसशोणितदिग्धाङ्गा दंष्ट्राभिर् भृशम् उल्बणैः ॥ ६० ॥

मुखैः पातालसदृशैर् ज्वलज्जिह्वैर् भयङ्करैः ।
नेत्रैः सुविकृताकारैर् ज्वलत्पिङ्गलचञ्चलैः ॥ ६१ ॥

मार्जारोलूकखद्योतशक्रगोपवद् उद्धतैः ।
केकरैः सङ्कुलैस् स्तब्धैर् लोचनैः पावकोपमैः ॥ ६२ ॥

भृशम् आभरणैर् भीमैर् आबद्धैर् भुजगोपमैः ।
शोणासरलगात्रैश् च मुण्डमालाविभूषितैः ॥ ६३ ॥

कण्ठस्थकृष्णसर्पैश् च फूत्काररवभीषणैः ।
वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर् भयङ्करैः ॥ ६४ ॥

बभ्रुपिङ्गललोलैश् च कद्रुश्मश्रुभिर् आवृताः ।
भुजदण्डैर् महाघोरैः प्रलम्बैः परिघोपमैः ॥ ६५ ॥

केचिद् द्विबाहवस् तत्र तथान्ये च चतुर्भुजाः ।
द्विरष्टबाहवश् चान्ये दशविंशभुजास् तथा ॥ ६६ ॥

असङ्ख्यातभुजाश् चान्ये केचिद् बाहुसहस्रिणः ।
आयुधैर् विकृताकारैः प्रज्वलद्भिर् भयानकैः ॥ ६७ ॥

शक्तितोमरचक्राद्यैः सुदीप्तैर् विविधायुधैः ।
पाशशृङ्खलदण्डैश् च भीषयन्तो महाबलाः ॥ ६८ ॥

आगच्छन्ति महारौद्रा मर्त्यानाम् आयुषः क्षये ।
ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास् तथा ॥ ६९ ॥

यत् तच् छरीरम् आदत्ते यातनीयं स्वकर्मजम् ।
तद् अस्य नीयते जन्तोर् यमस्य सदनं प्रति ॥ ७० ॥

बद्ध्वा तत् कालपाशैश् च निगडैर् वज्रशृङ्खलैः ।
ताडयित्वा भृशं क्रुद्धैर् नीयते यमकिङ्करैः ॥ ७१ ॥

प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर् मुहुः ।
हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ ७२ ॥

आहत्य निशितैः शूलैर् मुद्गरैर् निशितैर् घनैः ।
खड्गशक्तिप्रहारैश् च वज्रदण्डैः सुदारुणैः ॥ ७३ ॥

भर्त्स्यमानो महारावैर् वज्रशक्तिसमन्वितैः ।
एकैकशो भृशं क्रुद्धैस् ताडयद्भिः समन्ततः ॥ ७४ ॥

स मुह्यमानो दुःखार्तः प्रतपंश् च इतस् ततः ।
आकृष्य नीयते जन्तुर् अध्वानं सुभयङ्करैः ॥ ७५ ॥

कुशकण्टकवल्मीकशङ्कुपाषाणशर्करे ।
तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ ७६ ॥

प्रदीप्तादित्यतप्तेन दह्यमानस् तदंशुभिः ।
कृष्यते यमदूतैश् च शिवासन्नादभीषणैः ॥ ७७ ॥

विकृष्यमाणस् तैर् घोरैर् भक्ष्यमाणः शिवाशतैः ।
प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ ७८ ॥

क्वचिद् भीतैः क्वचित् त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित् ।
दुःखेनाक्रन्दमानैश् च गन्तव्यः स महापथः ॥ ७९ ॥

निर्भर्त्स्यमानैर् उद्विग्नैर् विद्रुतैर् भयविह्वलैः ।
कम्पमानशरीरैस् तु गन्तव्यं जीवसञ्ज्ञकैः ॥ ८० ॥

कण्टकाकीर्णमार्गेण सन्तप्तसिकतेन च ।
दह्यमानैस् तु गन्तव्यं नरैर् दानविवर्जितैः ॥ ८१ ॥

मेदःशोणितदुर्गन्धैर् बस्तगात्रैश् च पूगशः ।
दग्धस्फुटत्वचाकीर्णैर् गन्तव्यं जीवघातकैः ॥ ८२ ॥

कूजद्भिः क्रन्दमानैश् च विक्रोशद्भिश् च विस्वरम् ।
वेदनार्तैश् च सद्भिश् च गन्तव्यं जीवघातकैः ॥ ८३ ॥

शक्तिभिर् भिन्दिपालैश् च खड्गतोमरसायकैः ।
भिद्यद्भिस् तीक्ष्णशूलाग्रैर् गन्तव्यं जीवघातकैः ॥ ८४ ॥

श्वानैर् व्याघ्रैर् वृकैः कङ्कैर् भक्ष्यमाणैश् च पापिभिः ॥ ८५ ॥

कृन्तद्भिः क्रकचाघातैर् गन्तव्यं मांसखादिभिः ।
महिषर्षभशृङ्गाग्रैर् भिद्यमानैः समन्ततः ॥ ८६ ॥

उल्लिखद्भिः शूकरैश् च गन्तव्यं मांसखादकैः ।
सूचीभ्रमरकाकोलमक्षिकाभिश् च सङ्घशः ॥ ८७ ॥

भुज्यमानैश् च गन्तव्यं पापिष्ठैर् मधुघातकैः ।
विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस् तु घातयेत् ॥ ८८ ॥

शस्त्रैर् निकृत्यमानैश् च गन्तव्यं चातुरैर् नरैः ।
घातयन्ति च ये जन्तूंस् ताडयन्ति निरागसः ॥ ८९ ॥

राक्षसैर् भक्ष्यमाणास् ते यान्ति याम्यपथं नराः ।
ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ ९० ॥

ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् ।
वासो धान्यं हिरण्यं वा गृहक्षेत्रम् अथापि वा ॥ ९१ ॥

ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः ।
पाषाणैर् लगुडैर् दण्डैस् ताड्यमानैस् तु जर्जरैः ॥ ९२ ॥

वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् ।
ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ ९३ ॥

ताडयन्ति तथा विप्रान् आक्रोशन्ति नराधमाः ।
शुष्ककाष्ठनिबद्धास् ते छिन्नकर्णाक्षिनासिकाः ॥ ९४ ॥

पूयशोणितदिग्धास् ते कालगृध्रैश् च जम्बुकैः ।
किङ्करैर् भीषणैश् चण्डैस् ताड्यमानाश् च दारुणैः ॥ ९५ ॥

विक्रोशमाना गच्छन्ति पापिनस् ते यमालयम् ।
एवं परमदुर्धर्षम् अध्वानं ज्वलनप्रभम् ॥ ९६ ॥

रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च ।
प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ ९७ ॥

कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः ।
शक्तिवज्रैश् च सङ्कीर्णम् उज्ज्वलं तीव्रकण्टकम् ॥ ९८ ॥

अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् ।
ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ ९९ ॥

अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः ।
यदैव क्रन्दते जन्तुर् दुःखार्तः पतितः क्वचित् ॥ १०० ॥

तदैवाहन्यते सर्वैर् आयुधैर् यमकिङ्करैः ।
एवं सन्ताड्यमानश् च लुब्धः पापेषु यो ऽनयः ॥ १०१ ॥

अवशो नीयते जन्तुर् दुर्धरैर् यमकिङ्करैः ।
सर्वैर् एव हि गन्तव्यम् अध्वानं तत् सुदुर्गमम् ॥ १०२ ॥

नीयते विविधैर् घोरैर् यमदूतैर् अवज्ञया ।
नीत्वा सुदारुणं मार्गं प्राणिनं यमकिङ्करैः ॥ १०३ ॥

प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः ।
सा पुरी विपुलाकारा लक्षयोजनम् आयता ॥ १०४ ॥

चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा ।
प्राकाराः काञ्चनास् तस्या योजनायुतम् उच्छ्रिताः ॥ १०५ ॥

इन्द्रनीलमहानीलपद्मरागोपशोभिता ।
सा पुरी विविधैः सङ्घैर् घोरा घोरैः समाकुला ॥ १०६ ॥

देवदानवगन्धर्वैर् यक्षराक्षसपन्नगैः ।
पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ १०७ ॥

वज्रेन्द्रनीलवैदूर्यमुक्ताफलविभूषितम् ।
गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ १०८ ॥

प्रवेशस् तेन देवानाम् ऋषीणां योगिनां तथा ।
गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ १०९ ॥

उत्तरं नगरद्वारं घण्टाचामरभूषितम् ।
छत्त्रचामरविन्यासं नानारत्नैर् अलङ्कृतम् ॥ ११० ॥

वीणारेणुरवै रम्यैर् गीतमङ्गलनादितैः ।
ऋग्यजुःसामनिर्घोषैर् मुनिवृन्दसमाकुलम् ॥ १११ ॥

विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः ।
ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ ११२ ॥

श्रान्तसंवाहका ये च प्रियवादरताश् च ये ।
ये च दानरताः शूरा मातापितृपराश् च ये ॥ ११३ ॥

द्विजशुश्रूषणे युक्ता नित्यं ये ऽतिथिपूजकाः ।
पश्चिमं तु महाद्वारं पुर्या रत्नैर् विभूषितम् ॥ ११४ ॥

विचित्रमणिसोपानं तोमरैः समलङ्कृतम् ।
भेरीमृदङ्गसन्नादैः शङ्खकाहलनादितम् ॥ ११५ ॥

सिद्धवृन्दैः सदा हृष्टैर् मङ्गलैः प्रणिनादितम् ।
प्रवेशस् तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ ११६ ॥

सर्वतीर्थप्लुता ये च पञ्चाग्नेर् ये च सेवकाः ।
प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ ११७ ॥

अग्नौ विपन्ना ये वीराः साधितं यैर् अनाशकम् ।
ये स्वामिमित्रलोकार्थे गोग्रहे सङ्कुले हताः ॥ ११८ ॥

ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः ।
पुर्यां तस्या महाघोरं सर्वसत्त्वभयङ्करम् ॥ ११९ ॥

हाहाकारसमाक्रुष्टं दक्षिणं द्वारम् ईदृशम् ।
अन्धकारसमायुक्तं तीक्ष्णशृङ्गैः समन्वितम् ॥ १२० ॥

कण्टकैर् वृश्चिकैः सर्पैर् वज्रकीटैः सुदुर्गमैः ।
विलुम्पद्भिर् वृकैर् व्याघ्रैर् ऋक्षैः सिंहैः सजम्बुकैः ॥ १२१ ॥

श्वानमार्जारगृध्रैश् च सज्वालकवलैर् मुखैः ।
प्रवेशस् तेन वै नित्यं सर्वेषाम् अपकारिणाम् ॥ १२२ ॥

ये घातयन्ति विप्रान् गा बालं वृद्धं तथातुरम् ।
शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ १२३ ॥

ये ऽगम्यागामिनो मूढाः परद्रव्यापहारिणः ।
निक्षेपस्यापहर्तारो विषवह्निप्रदाश् च ये ॥ १२४ ॥

परभूमिं गृहं शय्यां वस्त्रालङ्कारहारिणः ।
पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ १२५ ॥

ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये ।
कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ १२६ ॥

अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् ।
मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ १२७ ॥

अन्ये ये चैव निर्दिष्टा महापातककारिणः ।
दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ १२८ ॥