213

Summary (SA)

Chapter 213- Manifestations of Viṣṇu

{{Ref- SS 320-324}}

मुनय ऊचुः-

अहो कृष्णस्य माहात्म्यम् अद्भुतं चातिमानुषम् ।
रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥ १ ॥

न तृप्तिम् अधिगच्छामः शृण्वन्तो भगवत्कथाम् ।
तस्माद् ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥ २ ॥

प्रादुर्भावः पुराणेषु विष्णोर् अमिततेजसः ।
सतां कथयताम् एव वराह इति नः श्रुतम् ॥ ३ ॥

न जानीमो ऽस्य चरितं न विधिं न च विस्तरम् ।
न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥ ४ ॥

किमात्मको वराहो ऽसौ का मूर्तिः का च देवता ।
किमाचारप्रभावो वा किं वा तेन तदा कृतम् ॥ ५ ॥

यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् ।
महावराहचरितं सर्वलोकसुखावहम् ॥ ६ ॥

यथा नारायणो ब्रह्मन् वाराहं रूपम् आस्थितः ।
दंष्ट्रया गां समुद्रस्थाम् उज्जहारारिमर्दनः ॥ ७ ॥

विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः ।
श्रोतुं नो वर्तते बुद्धिर् हरेः कृष्णस्य धीमतः ॥ ८ ॥

कर्मणाम् आनुपूर्व्या च प्रादुर्भावाश् च ये विभो ।
या वास्य प्रकृतिर् ब्रह्मंस् ताश् चाख्यातुं त्वम् अर्हसि ॥ ९ ॥

व्यास उवाच-

प्रश्नभारो महान् एष भवद्भिः समुदाहृतः ।
यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ १० ॥

विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिर् उत्थिता ।
तस्माद् विष्णोः समस्ता वै शृणुध्वं याः प्रवृत्तयः ॥ ११ ॥

सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् ।
सहस्रशिरसं देवं सहस्रकरम् अव्ययम् ॥ १२ ॥

सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
सहस्रदं सहस्रादिं सहस्रभुजम् अव्ययम् ॥ १३ ॥

हवनं सवनं चैव होतारं हव्यम् एव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां समित् स्रुवम् ॥ १४ ॥

स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ १५ ॥

यूपं चक्रं ध्रुवां दर्वीं चरूंश् चोलूखलानि च ।
प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत् ॥ १६ ॥

ह्रस्वाण्य् अतिप्रमाणानि स्थावराणि चराणि च ।
प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास् तथा ॥ १७ ॥

मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रासिनं सोमभुजं हुतार्चिषम् उदायुधम् ॥ १८ ॥

आहुर् वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् ।
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥ १९ ॥

प्रादुर्भावसहस्राणि समतीतान्य् अनेकशः ।
भूयश् चैव भविष्यन्ति ह्य् एवम् आह पितामहः ॥ २० ॥

यत् पृच्छध्वं महाभागा दिव्यां पुण्याम् इमां कथाम् ।
प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥ २१ ॥

शृणुध्वं तां महाभागास् तद्गतेनान्तरात्मना ।
प्रवक्ष्याम्य् आनुपूर्व्येण यत् पृच्छध्वं ममानघाः ॥ २२ ॥

वासुदेवस्य माहात्म्यं चरितं च महामतेः ।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥ २३ ॥

बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् ।
प्रादुर्भावांश् च वक्ष्यामि पुण्यान् दिव्यान् गुणान्वितान् ॥ २४ ॥

सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः ।
पूर्णे युगसहस्रे ऽथ देवदेवो जगत्पतिः ॥ २५ ॥

ब्रह्मा च कपिलश् चैव त्र्यम्बकस् त्रिदशास् तथा ।
देवाः सप्तर्षयश् चैव नागाश् चाप्सरसस् तथा ॥ २६ ॥

सनत्कुमारश् च महानुभावो ।
मनुर् महात्मा भगवान् प्रजाकरः ।
पुराणदेवो ऽथ पुराणि चक्रे ।
प्रदीप्तवैश्वानरतुल्यतेजाः ॥ २७ ॥

यो ऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥ २८ ॥

योद्धुकामौ दुराधर्षौ ताव् उभौ मधुकैटभौ ।
हतौ भगवता तेन तयोर् दत्त्वामितं वरम् ॥ २९ ॥

पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे तत्र सम्भूता देवाः सर्षिगणास् तथा ॥ ३० ॥

एष पौष्करको नाम प्रादुर्भावो महात्मनः ।
पुराणं कथ्यते यत्र देवश्रुतिसमाहितम् ॥ ३१ ॥

वाराहस् तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपम् आस्थितः ॥ ३२ ॥

वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ ३३ ॥

अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ।
आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान् ॥ ३४ ॥

सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः ।
प्रायश्चित्तनखो घोरः पशुजानुर् मुखाकृतिः ॥ ३५ ॥

उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।
वाद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥ ३६ ॥

वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिर् अन्वितः ॥ ३७ ॥

दक्षिणाहृदयो योगी महासत्त्रमयो महान् ।
उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः ॥ ३८ ॥

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो ऽसौ मणिशृङ्ग इवोत्थितः ॥ ३९ ॥

महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजलभ्रष्टाम् एकार्णवगतः प्रभुः ॥ ४० ॥

दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
सहस्रशीर्षो लोकादिश् चकार जगतीं पुनः ॥ ४१ ॥

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥ ४२ ॥

वाराह एष कथितो नारसिंहस् ततो द्विजाः ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः ॥ ४३ ॥

पुरा कृतयुगे नाम सुरारिर् बलदर्पितः ।
दैत्यानाम् आदिपुरुषश् चकार सुमहत् तपः ॥ ४४ ॥

दश वर्षसहस्राणि शतानि दश पञ्च च ।
जपोपवासनिरतस् तस्थौ मौनव्रतस्थितः ॥ ४५ ॥

ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ।
प्रीतो ऽभवत् ततस् तस्य तपसा नियमेन च ॥ ४६ ॥

तं वै स्वयम्भूर् भगवान् स्वयम् आगम्य भो द्विजाः ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ ४७ ॥

आदित्यैर् वसुभिः सार्धं मरुद्भिर् दैवतैस् तथा ।
रुद्रैर् विश्वसहायैश् च यक्षराक्षसकिन्नरैः ॥ ४८ ॥

दिशाभिः प्रदिशाभिश् च नदीभिः सागरैस् तथा ।
नक्षत्रैश् च मुहूर्तैश् च खेचरैश् च महाग्रहैः ॥ ४९ ॥

देवर्षिभिस् तपोवृद्धैः सिद्धैर् विद्वद्भिर् एव च ।
राजर्षिभिः पुण्यतमैर् गन्धर्वैर् अप्सरोगणैः ॥ ५० ॥

चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस् तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनम् अब्रवीत् ॥ ५१ ॥

ब्रह्मोवाच-

प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि ॥ ५२ ॥

हिरण्यकशिपुर् उवाच-

न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह ॥ ५३ ॥

शपेयुस् तपसा युक्ता वर एष वृतो मया ।
न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा ॥ ५४ ॥

न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्य् अधः ।
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ॥ ५५ ॥

यो मां नाशयितुं शक्तः स मे मृत्युर् भविष्यति ।
भवेयम् अहम् एवार्कः सोमो वायुर् हुताशनः ॥ ५६ ॥

सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः ।
अहं क्रोधश् च कामश् च वरुणो वासवो यमः ।
धनदश् च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ ५७ ॥

ब्रह्मोवाच-

एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः ।
सर्वान् कामान् इमांस् तात प्राप्स्यसि त्वं न संशयः ॥ ५८ ॥

व्यास उवाच-

एवम् उक्त्वा तु भगवाञ् जगामाशु पितामहः ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ ५९ ॥

ततो देवाश् च नागाश् च गन्धर्वा मुनयस् तथा ।
वरप्रदानं श्रुत्वैव पितामहम् उपस्थिताः ॥ ६० ॥

देवा ऊचुः-

वरेणानेन भगवन् बाधिष्यति स नो ऽसुरः ।
तत् प्रसीदाशु भगवन् वधो ऽप्य् अस्य विचिन्त्यताम् ॥ ६१ ॥

भगवन् सर्वभूतानां स्वयम्भूर् आदिकृत् प्रभुः ।
स्रष्टा च हव्यकव्यानाम् अव्यक्तं प्रकृतिर् ध्रुवम् ॥ ६२ ॥

व्यास उवाच-

ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान् वाक्यं सर्वदेवगणांस् तथा ॥ ६३ ॥

ब्रह्मोवाच-

अवश्यं त्रिदशास् तेन प्राप्तव्यं तपसः फलम् ।
तपसो ऽन्ते च भगवान् वधं विष्णुः करिष्यति ॥ ६४ ॥

व्यास उवाच-

एतच् छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि जग्मुस् ते वै मुदान्विताः ॥ ६५ ॥

लब्धमात्रे वरे चापि सर्वाः सो ऽबाधत प्रजाः ।
हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः ॥ ६६ ॥

आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् ।
सत्यधर्मरतान् दान्तांस् तदा धर्षितवांस् तथा ॥ ६७ ॥

त्रिदिवस्थांस् तथा देवान् पराजित्य महाबलः ।
त्रैलोक्यं वशम् आनीय स्वर्गे वसति सो ऽसुरः ॥ ६८ ॥

यदा वरमदोन्मत्तो विचरन् दानवो भुवि ।
यज्ञीयान् अकरोद् दैत्यान् अयज्ञीयाश् च देवताः ॥ ६९ ॥

आदित्या वसवः साध्या विश्वे च मरुतस् तथा ।
शरण्यं शरणं विष्णुम् उपतस्थुर् महाबलम् ॥ ७० ॥

देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् ।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ।
नारायणं विभुं देवं शरण्यं शरणं गताः ॥ ७१ ॥

देवा ऊचुः-

त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर् भयात् ।
त्वं हि नः परमो देवस् त्वं हि नः परमो गुरुः ॥ ७२ ॥

त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ।
उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयङ्कर ।
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ ७३ ॥

वासुदेव उवाच-

भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम् ।
तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम् ॥ ७४ ॥

एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥ ७५ ॥

व्यास उवाच-

एवम् उक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् ।
हिरण्यकशिपोः स्थानम् आजगाम महाबलः ॥ ७६ ॥

नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ ७७ ॥

घनजीमूतसङ्काशो घनजीमूतनिस्वनः ।
घनजीमूतदीप्तौजा जीमूत इव वेगवान् ॥ ७८ ॥

दैत्यं सो ऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः ।
दृप्तैर् दैत्यगणैर् गुप्तं हतवान् एकपाणिना ॥ ७९ ॥

नृसिंह एष कथितो भूयो ऽयं वामनः परः ।
यत्र वामनम् आस्थाय रूपं दैत्यविनाशनम् ॥ ८० ॥

बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस् त्रिभिर् अक्षोभ्याः क्षोभितास् ते महासुराः ॥ ८१ ॥

विप्रचित्तिः शिवः शङ्कुर् अयःशङ्कुस् तथैव च ।
अयःशिरा अश्वशिरा हयग्रीवश् च वीर्यवान् ॥ ८२ ॥

वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश् चैव शाश्वो ऽश्वपतिर् एव च ॥ ८३ ॥

प्रह्लादो ऽश्वपतिः कुम्भः संह्रादो गमनप्रियः ।
अनुह्रादो हरिहयो वाराहः संहरो ऽनुजः ॥ ८४ ॥

शरभः शलभश् चैव कुपथः क्रोधनः क्रथः ।
बृहत्कीर्तिर् महाजिह्वः शङ्कुकर्णो महास्वनः ॥ ८५ ॥

दीप्तजिह्वो ऽर्कनयनो मृगपादो मृगप्रियः ।
वायुर् गरिष्ठो नमुचिः सम्बरो विस्करो महान् ॥ ८६ ॥

चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
कालकः कालकोपश् च वृत्रः क्रोधो विरोचनः ॥ ८७ ॥

गरिष्ठश् च वरिष्ठश् च प्रलम्बनरकाव् उभौ ।
इन्द्रतापनवातापी केतुमान् बलदर्पितः ॥ ८८ ॥

असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ।
स्वमिश्रः कालवदनः करालः केशिर् एव च ॥ ८९ ॥

एकाक्षश् चन्द्रमा राहुः संह्रादः सम्बरः स्वनः ।
शतघ्नीचक्रहस्ताश् च तथा मुशलपाणयः ॥ ९० ॥

अश्वयन्त्रायुधोपेता भिन्दिपालायुधास् तथा ।
शूलोलूखलहस्ताश् च परश्वधधरास् तथा ॥ ९१ ॥

पाशमुद्गरहस्ताश् च तथा परिघपाणयः ।
महाशिलाप्रहरणाः शूलहस्ताश् च दानवाः ॥ ९२ ॥

नानाप्रहरणा घोरा नानावेशा महाबलाः ।
कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा ॥ ९३ ॥

खरोष्ट्रवदनाश् चैव वराहवदनास् तथा ।
मार्जारशिखिवक्त्राश् च महावक्त्रास् तथा परे ॥ ९४ ॥

नक्रमेषाननाः शूरा गोजाविमहिषाननाः ।
गोधाशल्लकिवक्त्राश् च क्रोष्टुवक्त्राश् च दानवाः ॥ ९५ ॥

आखुदर्दुरवक्त्राश् च घोरा वृकमुखास् तथा ।
भीमा मकरवक्त्राश् च क्रौञ्चवक्त्राश् च दानवाः ॥ ९६ ॥

अश्वाननाः खरमुखा मयूरवदनास् तथा ।
गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः ॥ ९७ ॥

चीरसंवृतगात्राश् च तथा नीलकवाससः ।
उष्णीषिणो मुकुटिनस् तथा कुण्डलिनो ऽसुराः ॥ ९८ ॥

किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।
नानावेशधरा दैत्या नानामाल्यानुलेपनाः ॥ ९९ ॥

स्वान्य् आयुधानि सङ्गृह्य प्रदीप्तानि च तेजसा ।
क्रममाणं हृषीकेशम् उपावर्तन्त सर्वशः ॥ १०० ॥

प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैर् विभुः ।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥ १०१ ॥

तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ ॥ १०२ ॥

परम् आक्रममाणस्य जानुदेशे व्यवस्थितौ ।
विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः ॥ १०३ ॥

हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् ।
ददौ शक्राय वसुधां विष्णुर् बलवतां वरः ॥ १०४ ॥

एष वो वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर् द्विजैर् एतत् कथ्यते वैष्णवं यशः ॥ १०५ ॥

भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥ १०६ ॥

तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ॥ १०७ ॥

अतिवर्धति चाधर्मे सत्ये नष्टे ऽनृते स्थिते ।
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ १०८ ॥

सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यम् असङ्कीर्णं कृतं तेन महात्मना ॥ १०९ ॥

तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥ ११० ॥

एतद् बाहुद्वयं यत् ते तत् ते मम कृते नृप ।
शतानि दश बाहूनां भविष्यन्ति न संशयः ॥ १११ ॥

पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर ।
दुर्निरीक्ष्यो ऽरिवृन्दानां युद्धस्थश् च भविष्यसि ॥ ११२ ॥

एष वो वैष्णवः श्रीमान् प्रादुर्भावो ऽद्भुतः शुभः ।
भूयश् च जामदग्न्यो ऽयं प्रादुर्भावो महात्मनः ॥ ११३ ॥

यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे ।
रामो ऽर्जुनम् अनीकस्थं जघान नृपतिं प्रभुः ॥ ११४ ॥

रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि ।
धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत् ॥ ११५ ॥

कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥ ११६ ॥

कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा ।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ ११७ ॥

कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः ।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ ११८ ॥

यस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम् ॥ ११९ ॥

वारणांस् तुरगाञ् शुभ्रान् रथांश् च रथिनां वरः ।
हिरण्यम् अक्षयं धेनुर् गजेन्द्रांश् च महीपतिः ॥ १२० ॥

ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः ।
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ॥ १२१ ॥

चरमाणस् तपो घोरं जामदग्न्यः पुनः प्रभुः ।
आस्ते वै देववच् छ्रीमान् महेन्द्रे पर्वतोत्तमे ॥ १२२ ॥

एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥ १२३ ॥

चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः ।
जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥ १२४ ॥

कृत्वात्मानं महाबाहुश् चतुर्धा प्रभुर् ईश्वरः ।
लोके राम इति ख्यातस् तेजसा भास्करोपमः ॥ १२५ ॥

प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च ।
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥ १२६ ॥

तम् अप्य् आहुर् मनुष्येन्द्रं सर्वभूतहिते रतम् ।
यः समाः सर्वधर्मज्ञश् चतुर्दश वने ऽवसत् ॥ १२७ ॥

लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ।
चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः ॥ १२८ ॥

रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने ।
पूर्वोदिता तु या लक्ष्मीर् भर्तारम् अनुगच्छति ॥ १२९ ॥

जनस्थाने वसन् कार्यं त्रिदशानां चकार सः ।
तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः ॥ १३० ॥

सीतायाः पदम् अन्विच्छन् निजघान महायशाः ।
देवासुरगणानां च यक्षराक्षसभोगिनाम् ॥ १३१ ॥

यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ।
युक्तं राक्षसकोटीभिर् नीलाञ्जनचयोपमम् ॥ १३२ ॥

त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् ।
दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ॥ १३३ ॥

दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम् ।
जघान सचिवैः सार्धं ससैन्यं रावणं युधि ॥ १३४ ॥

महाभ्रगणसङ्काशं महाकायं महाबलम् ।
रावणं निजघानाशु रामो भूतपतिः पुरा ॥ १३५ ॥

सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
वाली विनिहतः सङ्ख्ये सुग्रीवश् चाभिषेचितः ॥ १३६ ॥

मधोश् च तनयो दृप्तो लवणो नाम दानवः ।
हतो मधुवने वीरो वरमत्तो महासुरः ॥ १३७ ॥

यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् ।
मारीचश् च सुबाहुश् च बलेन बलिनां वरौ ॥ १३८ ॥

निहतौ च निराशौ च कृतौ तेन महात्मना ।
समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः ॥ १३९ ॥

विराधश् च कबन्धश् च राक्षसौ भीमविक्रमौ ।
जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ ॥ १४० ॥

हुताशनार्कांशुतडिद्गुणाभैः ।
प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
महेन्द्रवज्राशनितुल्यसारै ।
रिपून् स रामः समरे निजघ्ने ॥ १४१ ॥

तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता ।
वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैर् अपि ॥ १४२ ॥

वर्तमाने मखे येन जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥ १४३ ॥

एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान् ॥ १४४ ॥

नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ ।
न वित्तहरणं चासीद् रामे राज्यं प्रशासति ॥ १४५ ॥

परिदेवन्ति विधवा नानर्थाश् च कदाचन ।
सर्वम् आसीच् छुभं तत्र रामे राज्यं प्रशासति ॥ १४६ ॥

न प्राणिनां भयं चासीज् जलाग्न्यनिलघातजम् ।
न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे ॥ १४७ ॥

ब्रह्मचर्यपरं क्षत्रं विशस् तु क्षत्रिये रताः ।
शूद्राश् चैव हि वर्णांस् त्रीञ् शुश्रूषन्त्य् अनहङ्कृताः ॥ १४८ ॥

नार्यो नात्यचरन् भर्तॄन् भार्यां नात्यचरत् पतिः ।
सर्वम् आसीज् जगद् दान्तं निर्दस्युर् अभवन् मही ॥ १४९ ॥

राम एको ऽभवद् भर्ता रामः पालयिताभवत् ।
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः ॥ १५० ॥

अरोगाः प्राणिनश् चासन् रामे राज्यं प्रशासति ।
देवतानाम् ऋषीणां च मनुष्याणां च सर्वशः ॥ १५१ ॥

पृथिव्यां समवायो ऽभूद् रामे राज्यं प्रशासति ।
गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः ॥ १५२ ॥

रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ।
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ॥ १५३ ॥

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।
दश वर्षसहस्राणि रामो राज्यम् अकारयत् ॥ १५४ ॥

ऋक्सामयजुषां घोषो ज्याघोषश् च महात्मनः ।
अव्युच्छिन्नो ऽभवद् राष्ट्रे दीयतां भुज्यताम् इति ॥ १५५ ॥

सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
अति चन्द्रं च सूर्यं च रामो दाशरथिर् बभौ ॥ १५६ ॥

ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
हित्वायोध्यां दिवं यातो राघवो हि महाबलः ॥ १५७ ॥

एवम् एव महाबाहुर् इक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवम् आचक्रमे विभुः ॥ १५८ ॥

अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥ १५९ ॥

यत्र शाल्वं च चैद्यं च कंसं द्विविदम् एव च ।
अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥ १६० ॥

नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
दैत्यान् मानुषदेहेन सूदयाम् आस वीर्यवान् ॥ १६१ ॥

छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः ।
नरकश् च हतः सङ्ख्ये यवनश् च महाबलः ॥ १६२ ॥

हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचाराश् च निहिताः पार्थिवा ये महीतले ॥ १६३ ॥

एष लोकहितार्थाय प्रादुर्भावो महात्मनः ।
कल्की विष्णुयशा नाम शम्भलग्रामसम्भवः ॥ १६४ ॥

सर्वलोकहितार्थाय भूयो देवो महायशाः ।
एते चान्ये च बहवो दिव्या देवगणैर् वृताः ॥ १६५ ॥

प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ।
यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने ॥ १६६ ॥

पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ।
एतद् उद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ॥ १६७ ॥

कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर् विभोः ।
प्रीयन्ते पितरस् तस्य प्रादुर्भावानुकीर्तनात् ॥ १६८ ॥

विष्णोर् अमितवीर्यस्य यः शृणोति कृताञ्जलिः ॥ १६९ ॥

एताश् च योगेश्वरयोगमायाः ।
श्रुत्वा नरो मुच्यति सर्वपापैः ।
ऋद्धिं समृद्धिं विपुलांश् च भोगान् ।
प्राप्नोति शीघ्रं भगवत्प्रसादात् ॥ १७० ॥

एवं मया मुनिश्रेष्ठा विष्णोर् अमिततेजसः ।
सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः ॥ १७१ ॥