212

Summary (SA)

Chapter 212- Arjuna’s deeds and failures after Kṛṣṇa’s death

{{Ref- SS 318-320}}

व्यास उवाच-

अर्जुनो ऽपि तदान्विष्य कृष्णरामकलेवरे ।
संस्कारं लम्भयाम् आस तथान्येषाम् अनुक्रमात् ॥ १ ॥

अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास् तु याः ।
उपगृह्य हरेर् देहं विविशुस् ता हुताशनम् ॥ २ ॥

रेवती चैव रामस्य देहम् आश्लिष्य सत्तमाः ।
विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥ ३ ॥

उग्रसेनस् तु तच् छ्रुत्वा तथैवानकदुन्दुभिः ।
देवकी रोहिणी चैव विविशुर् जातवेदसम् ॥ ४ ॥

ततो ऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।
निश्चक्राम जनं सर्वं गृहीत्वा वज्रम् एव च ॥ ५ ॥

द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः ।
वज्रं जनं च कौन्तेयः पालयञ् शनकैर् ययौ ॥ ६ ॥

सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता ।
स्वर्गं जगाम भो विप्राः पारिजातश् च पादपः ॥ ७ ॥

यस्मिन् दिने हरिर् यातो दिवं सन्त्यज्य मेदिनीम् ।
तस्मिन् दिने ऽवतीर्णो ऽयं कालकायः कलिः किल ॥ ८ ॥

प्लावयाम् आस तां शून्यां द्वारकां च महोदधिः ।
यदुश्रेष्ठगृहं त्व् एकं नाप्लावयत सागरः ॥ ९ ॥

नातिक्रामति भो विप्रास् तद् अद्यापि महोदधिः ।
नित्यं सन्निहितस् तत्र भगवान् केशवो यतः ॥ १० ॥

तद् अतीव महापुण्यं सर्वपातकनाशनम् ।
विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥ ११ ॥

पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।
चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥ १२ ॥

ततो लोभः समभवत् पार्थेनैकेन धन्विना ।
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ १३ ॥

ततस् ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयाम् आसुः समेत्यात्यन्तदुर्मदाः ॥ १४ ॥

आभीरा ऊचुः-

अयम् एको ऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
नयत्य् अस्मान् अतिक्रम्य धिग् एतत् क्रियतां बलम् ॥ १५ ॥

हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् ।
कर्णादींश् च न जानाति बलं ग्रामनिवासिनाम् ॥ १६ ॥

बलज्येष्ठान् नरान् अन्यान् ग्राम्यांश् चैव विशेषतः ।
सर्वान् एवावजानाति किं वो बहुभिर् उत्तरैः ॥ १७ ॥

व्यास उवाच-

ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः ।
सहस्रशो ऽभ्यधावन्त तं जनं निहतेश्वरम् ।
ततो निवृत्तः कौन्तेयः प्राहाभीरान् हसन्न् इव ॥ १८ ॥

अर्जुन उवाच-

निवर्तध्वम् अधर्मज्ञा यदीतो न मुमूर्षवः ॥ १९ ॥

व्यास उवाच-

अवज्ञाय वचस् तस्य जगृहुस् ते तदा धनम् ।
स्त्रीजनं चापि कौन्तेयाद् विष्वक्सेनपरिग्रहम् ॥ २० ॥

ततो ऽर्जुनो धनुर् दिव्यं गाण्डीवम् अजरं युधि ।
आरोपयितुम् आरेभे न शशाक स वीर्यवान् ॥ २१ ॥

चकार सज्जं कृच्छ्रात् तु तद् अभूच् छिथिलं पुनः ।
न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः ॥ २२ ॥

शरान् मुमोच चैतेषु पार्थः शेषान् स हर्षितः ।
न भेदं ते परं चक्रुर् अस्ता गाण्डीवधन्वना ॥ २३ ॥

वह्निना चाक्षया दत्ताः शरास् ते ऽपि क्षयं ययुः ।
युध्यतः सह गोपालैर् अर्जुनस्याभवत् क्षयः ॥ २४ ॥

अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम् ।
यन् मया शरसङ्घातैः सबला भूभृतो जिताः ॥ २५ ॥

मिषतः पाण्डुपुत्रस्य ततस् ताः प्रमदोत्तमाः ।
अपाकृष्यन्त चाभीरैः कामाच् चान्याः प्रवव्रजुः ॥ २६ ॥

ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः ।
जघान दस्यूंस् ते चास्य प्रहाराञ् जहसुर् द्विजाः ॥ २७ ॥

पश्यतस् त्व् एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुर् आदाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः ॥ २८ ॥

ततः स दुःखितो जिष्णुः कष्टं कष्टम् इति ब्रुवन् ।
अहो भगवता तेन मुक्तो ऽस्मीति रुरोद वै ॥ २९ ॥

अर्जुन उवाच-

तद् धनुस् तानि चास्त्राणि स रथस् ते च वाजिनः ।
सर्वम् एकपदे नष्टं दानम् अश्रोत्रिये यथा ॥ ३० ॥

अहो चाति बलं दैवं विना तेन महात्मना ।
यद् असामर्थ्ययुक्तो ऽहं नीचैर् नीतः पराभवम् ॥ ३१ ॥

तौ बाहू स च मे मुष्टिः स्थानं तत् सो ऽस्मि चार्जुनः ।
पुण्येनेव विना तेन गतं सर्वम् असारताम् ॥ ३२ ॥

ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् ।
विना तेन यद् आभीरैर् जितो ऽहं कथम् अन्यथा ॥ ३३ ॥

व्यास उवाच-

इत्थं वदन् ययौ जिष्णुर् इन्द्रप्रस्थं पुरोत्तमम् ।
चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ ३४ ॥

स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।
तम् उपेत्य महाभागं विनयेनाभ्यवादयत् ॥ ३५ ॥

तं वन्दमानं चरणाव् अवलोक्य सुनिश्चितम् ।
उवाच पार्थं विच्छायः कथम् अत्यन्तम् ईदृशः ॥ ३६ ॥

अजारजोनुगमनं ब्रह्महत्याथवा कृता ।
जयाशाभङ्गदुःखी वा भ्रष्टच्छायो ऽसि साम्प्रतम् ॥ ३७ ॥

सान्तानिकादयो वा ते याचमाना निराकृताः ।
अगम्यस्त्रीरतिर् वापि तेनासि विगतप्रभः ॥ ३८ ॥

भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टम् एकम् अथो भवान् ।
किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥ ३९ ॥

कच्चिन् न सूर्यवातस्य गोचरत्वं गतो ऽर्जुन ।
दुष्टचक्षुर् हतो वापि निःश्रीकः कथम् अन्यथा ॥ ४० ॥

स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितो ऽपि वा ।
तेनातीवासि विच्छायो न्यूनैर् वा युधि निर्जितः ॥ ४१ ॥

व्यास उवाच-

ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्न् इति ।
प्रोक्तो यथावद् आचष्ट विप्रा आत्मपराभवम् ॥ ४२ ॥

अर्जुन उवाच-

यद् बलं यच् च नस् तेजो यद् वीर्यं यत् पराक्रमः ।
या श्रीश् छाया च नः सो ऽस्मान् परित्यज्य हरिर् गतः ॥ ४३ ॥

इतरेणेव महता स्मितपूर्वाभिभाषिणा ।
हीना वयं मुने तेन जातास् तृणमया इव ॥ ४४ ॥

अस्त्राणां सायकानां च गाण्डीवस्य तथा मम ।
सारता याभवन् मूर्ता स गतः पुरुषोत्तमः ॥ ४५ ॥

यस्यावलोकनाद् अस्माञ् श्रीर् जयः सम्पद् उन्नतिः ।
न तत्याज स गोविन्दस् त्यक्त्वास्मान् भगवान् गतः ॥ ४६ ॥

भीष्मद्रोणाङ्गराजाद्यास् तथा दुर्योधनादयः ।
यत्प्रभावेन निर्दग्धाः स कृष्णस् त्यक्तवान् भुवम् ॥ ४७ ॥

निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही ।
विभाति तात नैको ऽहं विरहे तस्य चक्रिणः ॥ ४८ ॥

यस्यानुभावाद् भीष्माद्यैर् मय्य् अग्नौ शलभायितम् ।
विना तेनाद्य कृष्णेन गोपालैर् अस्मि निर्जितः ॥ ४९ ॥

गाण्डीवं त्रिषु लोकेषु ख्यातं यद् अनुभावतः ।
मम तेन विनाभीरैर् लगुडैस् तु तिरस्कृतम् ॥ ५० ॥

स्त्रीसहस्राण्य् अनेकानि ह्य् अनाथानि महामुने ।
यततो मम नीतानि दस्युभिर् लगुडायुधैः ॥ ५१ ॥

आनीयमानम् आभीरैः सर्वं कृष्णावरोधनम् ।
हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ ५२ ॥

निःश्रीकता न मे चित्रं यज् जीवामि तद् अद्भुतम् ।
नीचावमानपङ्काङ्की निर्लज्जो ऽस्मि पितामह ॥ ५३ ॥

व्यास उवाच-

श्रुत्वाहं तस्य तद् वाक्यम् अब्रवं द्विजसत्तमाः ।
दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः ॥ ५४ ॥

अलं ते व्रीडया पार्थ न त्वं शोचितुम् अर्हसि ।
अवेहि सर्वभूतेषु कालस्य गतिर् ईदृशी ॥ ५५ ॥

कालो भवाय भूतानाम् अभवाय च पाण्डव ।
कालमूलम् इदं ज्ञात्वा कुरु स्थैर्यम् अतो ऽर्जुन ॥ ५६ ॥

नद्यः समुद्रा गिरयः सकला च वसुन्धरा ।
देवा मनुष्याः पशवस् तरवश् च सरीसृपाः ॥ ५७ ॥

सृष्टाः कालेन कालेन पुनर् यास्यन्ति सङ्क्षयम् ।
कालात्मकम् इदं सर्वं ज्ञात्वा शमम् अवाप्नुहि ॥ ५८ ॥

यथात्थ कृष्णमाहात्म्यं तत् तथैव धनञ्जय ।
भारावतारकार्यार्थम् अवतीर्णः स मेदिनीम् ॥ ५९ ॥

भाराक्रान्ता धरा याता देवानां सन्निधौ पुरा ।
तदर्थम् अवतीर्णो ऽसौ कामरूपी जनार्दनः ॥ ६० ॥

तच् च निष्पादितं कार्यम् अशेषा भूभृतो हताः ।
वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥ ६१ ॥

न किञ्चिद् अन्यत् कर्तव्यम् अस्य भूमितले ऽर्जुन ।
ततो गतः स भगवान् कृतकृत्यो यथेच्छया ॥ ६२ ॥

सृष्टिं सर्गे करोत्य् एष देवदेवः स्थितिं स्थितौ ।
अन्ते तापसमर्थो ऽयं साम्प्रतं वै यथा कृतम् ॥ ६३ ॥

तस्मात् पार्थ न सन्तापस् त्वया कार्यः पराभवात् ।
भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥ ६४ ॥

यतस् त्वयैकेन हता भीष्मद्रोणादयो नृपाः ।
तेषाम् अर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ ६५ ॥

विष्णोस् तस्यानुभावेन यथा तेषां पराभवः ।
त्वत्तस् तथैव भवतो दस्युभ्यो ऽन्ते तदुद्भवः ॥ ६६ ॥

स देवो ऽन्यशरीराणि समाविश्य जगत्स्थितिम् ।
करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥ ६७ ॥

भवोद्भवे च कौन्तेय सहायस् ते जनार्दनः ।
भवान्ते त्वद्विपक्षास् ते केशवेनावलोकिताः ॥ ६८ ॥

कः श्रद्दध्यात् सगाङ्गेयान् हन्यास् त्वं सर्वकौरवान् ।
आभीरेभ्यश् च भवतः कः श्रद्दध्यात् पराभवम् ॥ ६९ ॥

पार्थैतत् सर्वभूतेषु हरेर् लीलाविचेष्टितम् ।
त्वया यत् कौरवा ध्वस्ता यद् आभीरैर् भवाञ् जितः ॥ ७० ॥

गृहीता दस्युभिर् यच् च रक्षिता भवता स्त्रियः ।
तद् अप्य् अहं यथावृत्तं कथयामि तवार्जुन ॥ ७१ ॥

अष्टावक्रः पुरा विप्र उदवासरतो ऽभवत् ।
बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम् ॥ ७२ ॥

जितेष्व् असुरसङ्घेषु मेरुपृष्ठे महोत्सवः ।
बभूव तत्र गच्छन्त्यो ददृशुस् तं सुरस्त्रियः ॥ ७३ ॥

रम्भातिलोत्तमाद्याश् च शतशो ऽथ सहस्रशः ।
तुष्टुवुस् तं महात्मानं प्रशशंसुश् च पाण्डव ॥ ७४ ॥

आकण्ठमग्नं सलिले जटाभारधरं मुनिम् ।
विनयावनताश् चैव प्रणेमुः स्तोत्रतत्पराः ॥ ७५ ॥

यथा यथा प्रसन्नो ऽभूत् तुष्टुवुस् तं तथा तथा ।
सर्वास् ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥ ७६ ॥

अष्टावक्र उवाच-

प्रसन्नो ऽहं महाभागा भवतीनां यद् इष्यते ।
मत्तस् तद् व्रियतां सर्वं प्रदास्याम्य् अपि दुर्लभम् ॥ ७७ ॥

व्यास उवाच-

रम्भातिलोत्तमाद्याश् च दिव्याश् चाप्सरसो ऽब्रुवन् ॥ ७८ ॥

अप्सरस ऊचुः-

प्रसन्ने त्वय्य् असम्प्राप्तं किम् अस्माकम् इति द्विजाः ॥ ७९ ॥

इतरास् त्व् अब्रुवन् विप्र प्रसन्नो भगवन् यदि ।
तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥ ८० ॥

व्यास उवाच-

एवं भविष्यतीत्य् उक्त्वा उत्ततार जलान् मुनिः ।
तम् उत्तीर्णं च ददृशुर् विरूपं वक्रम् अष्टधा ॥ ८१ ॥

तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत् ।
ताः शशाप मुनिः कोपम् अवाप्य कुरुनन्दन ॥ ८२ ॥

अष्टावक्र उवाच-

यस्माद् विरूपरूपं मां मत्वा हासावमानना ।
भवतीभिः कृता तस्माद् एष शापं ददामि वः ॥ ८३ ॥

मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् ।
मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ ॥ ८४ ॥

व्यास उवाच-

इत्य् उदीरितम् आकर्ण्य मुनिस् ताभिः प्रसादितः ।
पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥ ८५ ॥

एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् ।
भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः ॥ ८६ ॥

तत् त्वया नात्र कर्तव्यः शोको ऽल्पो ऽपि हि पाण्डव ।
तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम् ॥ ८७ ॥

भवतां चोपसंहारम् आसन्नं तेन कुर्वता ।
बलं तेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ ८८ ॥

जातस्य नियतो मृत्युः पतनं च तथोन्नतेः ।
विप्रयोगावसानं तु संयोगः सञ्चयः क्षयः ॥ ८९ ॥

विज्ञाय न बुधाः शोकं न हर्षम् उपयान्ति ये ।
तेषाम् एवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥ ९० ॥

तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह ।
परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम् ॥ ९१ ॥

तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम ।
परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु ॥ ९२ ॥

व्यास उवाच-

इत्य् उक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् ।
दृष्टं चैवानुभूतं वा कथितं तद् अशेषतः ॥ ९३ ॥

व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम् ।
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ ९४ ॥

इत्य् एवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् ।
जातस्य च यदोर् वंशे वासुदेवस्य चेष्टितम् ॥ ९५ ॥