Summary (SA)
Chapter 211- Kṛṣṇa’s death
{{Ref- SS 318}}
व्यास उवाच-
इत्य् उक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम् ॥ १ ॥
स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् ।
आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥ २ ॥
भगवान् अपि गोविन्दो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्व् अधारयत् ॥ ३ ॥
स मानयन् द्विजवचो दुर्वासा यद् उवाच ह ।
योगयुक्तो ऽभवत् पादं कृत्वा जानुनि सत्तमाः ॥ ४ ॥
सम्प्राप्तो वै जरा नाम तदा तत्र स लुब्धकः ।
मुशलशेषलोहस्य सायकं धारयन् परम् ॥ ५ ॥
स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः ।
ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥ ६ ॥
गतश् च ददृशे तत्र चतुर्बाहुधरं नरम् ।
प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ ७ ॥
अजानता कृतम् इदं मया हरिणशङ्कया ।
क्षम्यताम् आत्मपापेन दग्धं मा दग्धुम् अर्हसि ॥ ८ ॥
व्यास उवाच-
ततस् तं भगवान् आह नास्ति ते भयम् अण्व् अपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥ ९ ॥
व्यास उवाच-
विमानम् आगतं सद्यस् तद्वाक्यसमनन्तरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस् तत्प्रसादतः ॥ १० ॥
गते तस्मिन् स भगवान् संयोज्यात्मानम् आत्मनि ।
ब्रह्मभूते ऽव्यये ऽचिन्त्ये वासुदेवमये ऽमले ॥ ११ ॥
अजन्मन्य् अजरे ऽनाशिन्य् अप्रमेये ऽखिलात्मनि ।
त्यक्त्वा स मानुषं देहम् अवाप त्रिविधां गतिम् ॥ १२ ॥