210

Summary (SA)

Chapter 210- The destruction of the Yādavas

{{Ref- SS 316-317}}

व्यास उवाच-

एवं दैत्यवधं कृष्णो बलदेवसहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ १ ॥

क्षितेश् च भारं भगवान् फाल्गुनेन समं विभुः ।
अवतारयाम् आस हरिः समस्ताक्षौहिणीवधात् ॥ २ ॥

कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान् ।
शापव्याजेन विप्राणाम् उपसंहृतवान् कुलम् ॥ ३ ॥

उत्सृज्य द्वारकां कृष्णस् त्यक्त्वा मानुष्यम् आत्मभूः ।
स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर् निजम् ॥ ४ ॥

मुनय ऊचुः-

स विप्रशापव्याजेन सञ्जह्रे स्वकुलं कथम् ।
कथं च मानुषं देहम् उत्ससर्ज जनार्दनः ॥ ५ ॥

व्यास उवाच-

विश्वामित्रस् तथा कण्वो नारदश् च महामुनिः ।
पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥ ६ ॥

ततस् ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा ।
प्रसृतास् तान् मुनीन् ऊचुः प्रणिपातपुरःसरम् ॥ ७ ॥

कुमारा ऊचुः-

इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥ ८ ॥

व्यास उवाच-

दिव्यज्ञानोपपन्नास् ते विप्रलब्धा कुमारकैः ।
शापं ददुस् तदा विप्रास् तेषां नाशाय सुव्रताः ॥ ९ ॥

मुनयः कुपिताः प्रोचुर् मुशलं जनयिष्यति ।
येनाखिलकुलोत्सादो यादवानां भविष्यति ॥ १० ॥

इत्य् उक्तास् तैः कुमारास् त आचचक्षुर् यथातथम् ।
उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥ ११ ॥

तद् उग्रसेनो मुशलम् अयश्चूर्णम् अकारयत् ।
जज्ञे तच् चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥ १२ ॥

मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर् द्विजाः ।
खण्डं चूर्णयितुं शेकुर् नैव ते तोमराकृति ॥ १३ ॥

तद् अप्य् अम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात् तस्य लुब्धो जग्राह तज् जरा ॥ १४ ॥

विज्ञातपरमार्थो ऽपि भगवान् मधुसूदनः ।
नैच्छत् तद् अन्यथा कर्तुं विधिना यत् समाहृतम् ॥ १५ ॥

देवैश् च प्रहितो दूतः प्रणिपत्याह केशवम् ।
रहस्य् एवम् अहं दूतः प्रहितो भगवन् सुरैः ॥ १६ ॥

वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह ।
विज्ञापयति वः शक्रस् तद् इदं श्रूयतां प्रभो ॥ १७ ॥

देवा ऊचुः-

भारावतरणार्थाय वर्षाणाम् अधिकं शतम् ।
भगवान् अवतीर्णो ऽत्र त्रिदशैः सम्प्रसादितः ॥ १८ ॥

दुर्वृत्ता निहता दैत्या भुवो भारो ऽवतारितः ।
त्वया सनाथास् त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥ १९ ॥

तद् अतीतं जगन्नाथ वर्षाणाम् अधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ २० ॥

देवैर् विज्ञापितो देवो ऽप्य् अथात्रैव रतिस् तव ।
तत् स्थीयतां यथाकालम् आख्येयम् अनुजीविभिः ॥ २१ ॥

श्रीभगवान् उवाच-

यत् त्वम् आत्थाखिलं दूत वेद्मि चैतद् अहं पुनः ।
प्रारब्ध एव हि मया यादवानाम् अपि क्षयः ॥ २२ ॥

भुवो नामातिभारो ऽयं यादवैर् अनिबर्हितैः ।
अवतारं करोम्य् अस्य सप्तरात्रेण सत्वरः ॥ २३ ॥

यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः ।
यादवान् उपसंहृत्य यास्यामि त्रिदशालयम् ॥ २४ ॥

मनुष्यदेहम् उत्सृज्य सङ्कर्षणसहायवान् ।
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥ २५ ॥

जरासन्धादयो ये ऽन्ये निहता भारहेतवः ।
क्षितेस् तेभ्यः स भारो हि यदूनां समधीयत ॥ २६ ॥

तद् एतत् सुमहाभारम् अवतार्य क्षितेर् अहम् ।
यास्याम्य् अमरलोकस्य पालनाय ब्रवीहि तान् ॥ २७ ॥

व्यास उवाच-

इत्य् उक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥ २८ ॥

भगवान् अप्य् अथोत्पातान् दिव्यान् भौमान्तरिक्षगान् ।
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ २९ ॥

तान् दृष्ट्वा यादवान् आह पश्यध्वम् अतिदारुणान् ।
महोत्पाताञ् शमायैषां प्रभासं याम मा चिरम् ॥ ३० ॥

व्यास उवाच-

महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ ३१ ॥

उद्धव उवाच-

भगवन् यन् मया कार्यं तद् आज्ञापय साम्प्रतम् ।
मन्ये कुलम् इदं सर्वं भगवान् संहरिष्यति ।
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ ३२ ॥

श्रीभगवान् उवाच-

गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
बदरीम् आश्रमं पुण्यं गन्धमादनपर्वते ॥ ३३ ॥

नरनारायणस्थाने पवित्रितमहीतले ।
मन्मना मत्प्रसादेन तत्र सिद्धिम् अवाप्स्यसि ॥ ३४ ॥

अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् ।
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥ ३५ ॥

व्यास उवाच-

इत्य् उक्तः प्रणिपत्यैनं जगाम स तदोद्धवः ।
नरनारायणस्थानं केशवेनानुमोदितः ॥ ३६ ॥

ततस् ते यादवाः सर्वे रथान् आरुह्य शीघ्रगान् ।
प्रभासं प्रययुः सार्धं कृष्णरामादिभिर् द्विजाः ॥ ३७ ॥

प्राप्य प्रभासं प्रयता प्रीतास् ते कुक्कुरान्धकाः ।
चक्रुस् तत्र सुरापानं वासुदेवानुमोदिताः ॥ ३८ ॥

पिबतां तत्र वै तेषां सङ्घर्षेण परस्परम् ।
यादवानां ततो जज्ञे कलहाग्निः क्षयावहः ॥ ३९ ॥

जघ्नुः परस्परं ते तु शस्त्रैर् दैवबलात् कृताः ।
क्षीणशस्त्रास् तु जगृहुः प्रत्यासन्नाम् अथैरकाम् ॥ ४० ॥

एरका तु गृहीता तैर् वज्रभूतेव लक्ष्यते ।
तया परस्परं जघ्नुः सम्प्रहारैः सुदारुणैः ॥ ४१ ॥

प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः ।
अनिरुद्धादयश् चान्ये पृथुर् विपृथुर् एव च ॥ ४२ ॥

चारुवर्मा सुचारुश् च तथाक्रूरादयो द्विजाः ।
एरकारूपिभिर् वज्रैस् ते निजघ्नुः परस्परम् ॥ ४३ ॥

निवारयाम् आस हरिर् यादवास् ते च केशवम् ।
सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम् ॥ ४४ ॥

कृष्णो ऽपि कुपितस् तेषाम् एरकामुष्टिम् आददे ।
वधाय तेषां मुशलं मुष्टिलोहम् अभूत् तदा ॥ ४५ ॥

जघान तेन निःशेषान् आततायी स यादवान् ।
जघ्नुश् च सहसाभ्येत्य तथान्ये तु परस्परम् ॥ ४६ ॥

ततश् चार्णवमध्येन जैत्रो ऽसौ चक्रिणो रथः ।
पश्यतो दारुकस्याशु हृतो ऽश्वैर् द्विजसत्तमाः ॥ ४७ ॥

चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खो ऽसिर् एव च ।
प्रदक्षिणं ततः कृत्वा जग्मुर् आदित्यवर्त्मना ॥ ४८ ॥

क्षणमात्रेण वै तत्र यादवानाम् अभूत् क्षयः ।
ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः ॥ ४९ ॥

चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् ।
ददृशाते मुखाच् चास्य निष्क्रामन्तं महोरगम् ॥ ५० ॥

निष्क्रम्य स मुखात् तस्य महाभोगो भुजङ्गमः ।
प्रयातश् चार्णवं सिद्धैः पूज्यमानस् तथोरगैः ॥ ५१ ॥

तम् अर्घ्यम् आदाय तदा जलधिः सम्मुखं ययौ ।
प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः ।
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ॥ ५२ ॥

श्रीभगवान् उवाच-

इदं सर्वं त्वम् आचक्ष्व वसुदेवोग्रसेनयोः ।
निर्याणं बलदेवस्य यादवानां तथा क्षयम् ॥ ५३ ॥

योगे स्थित्वाहम् अप्य् एतत् परित्यज्य कलेवरम् ।
वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः ॥ ५४ ॥

यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति ।
तस्माद् रथैः सुसज्जैस् तु प्रतीक्ष्यो ह्य् अर्जुनागमः ॥ ५५ ॥

न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ।
तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥ ५६ ॥

गत्वा च ब्रूहि कौन्तेयम् अर्जुनं वचनं मम ।
पालनीयस् त्वया शक्त्या जनो ऽयं मत्परिग्रहः ॥ ५७ ॥

इत्य् अर्जुनेन सहितो द्वारवत्यां भवाञ् जनम् ।
गृहीत्वा यातु वज्रश् च यदुराजो भविष्यति ॥ ५८ ॥