Summary (SA)
Chapter 209- Balarāma’s heroic deeds- Dvivida-episode
{{Ref- SS 316}}
व्यास उवाच-
शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः ।
कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः ॥ १ ॥
नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।
सखाभवन् महावीर्यो द्विविदो नाम वानरः ॥ २ ॥
वैरानुबन्धं बलवान् स चकार सुरान् प्रति ॥ ३ ॥
द्विविद उवाच-
नरकं हतवान् कृष्णो बलदर्पसमन्वितम् ।
करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम् ॥ ४ ॥
व्यास उवाच-
यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा ।
ततो विध्वंसयाम् आस यज्ञान् अज्ञानमोहितः ॥ ५ ॥
बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ।
ददाह चपलो देशं पुरग्रामान्तराणि च ॥ ६ ॥
क्वचिच् च पर्वतक्षेपाद् ग्रामादीन् समचूर्णयत् ।
शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥ ७ ॥
पुनश् चार्णवमध्यस्थः क्षोभयाम् आस सागरम् ।
तेनातिक्षोभितश् चाब्धिर् उद्वेलो जायते द्विजाः ॥ ८ ॥
प्लावयंस् तीरजान् ग्रामान् पुरादीन् अतिवेगवान् ।
कामरूपं महारूपं कृत्वा सस्यान्य् अनेकशः ॥ ९ ॥
लुठन् भ्रमणसम्मर्दैः सञ्चूर्णयति वानरः ।
तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना ॥ १० ॥
निःस्वाध्यायवषट्कारं द्विजाश् चासीत् सुदुःखितम् ।
कदाचिद् रैवतोद्याने पपौ पानं हलायुधः ॥ ११ ॥
रेवती च महाभागा तथैवान्या वरस्त्रियः ।
उद्गीयमानो विलसल्ललनामौलिमध्यगः ॥ १२ ॥
रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे ।
ततः स वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम् ॥ १३ ॥
मुशलं च चकारास्य सम्मुखः स विडम्बनाम् ।
तथैव योषितां तासां जहासाभिमुखं कपिः ॥ १४ ॥
पानपूर्णांश् च करकांश् चिक्षेपाहत्य वै तदा ।
ततः कोपपरीतात्मा भर्त्सयाम् आस तं बलम् ॥ १५ ॥
तथापि तम् अवज्ञाय चक्रे किलकिलाध्वनिम् ।
ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥ १६ ॥
सो ऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ।
चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥ १७ ॥
बिभेद यादवश्रेष्ठः सा पपात महीतले ।
अपतन् मुशलं चासौ समुल्लङ्घ्य प्लवङ्गमः ॥ १८ ॥
वेगेनायम्य रोषेण बलेनोरस्य् अताडयत् ।
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥ १९ ॥
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ।
पतता तच्छरीरेण गिरेः शृङ्गम् अशीर्यत ॥ २० ॥
मुनयः शतधा वज्रिवज्रेणेव हि ताडितम् ।
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥ २१ ॥
प्रशशंसुस् तदाभ्येत्य साध्व् एतत् ते महत् कृतम् ।
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।
जगन् निराकृतं वीर दिष्ट्या स क्षयम् आगतः ॥ २२ ॥
व्यास उवाच-
एवंविधान्य् अनेकानि बलदेवस्य धीमतः ।
कर्माण्य् अपरिमेयानि शेषस्य धरणीभृतः ॥ २३ ॥