Summary (SA)
Chapter 208- Balarāma’s heroic deeds- Release of Sāmba
{{Ref- SS 315-316}}
मुनय ऊचुः-
श्रोतुम् इच्छामहे भूयो बलभद्रस्य धीमतः ।
मुने पराक्रमं शौर्यं तन् नो व्याख्यातुम् अर्हसि ॥ १ ॥
यमुनाकर्षणादीनि श्रुतान्य् अस्माभिर् अत्र वै ।
तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः ॥ २ ॥
व्यास उवाच-
शृणुध्वं मुनयः कर्म यद् रामेणाभवत् कृतम् ।
अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥ ३ ॥
दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम् ।
बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः ॥ ४ ॥
ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः ।
भीष्मद्रोणादयश् चैव बबन्धुर् युधि निर्जितम् ॥ ५ ॥
तच् छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु ।
मुनयः प्रतिचक्रुश् च तान् विहन्तुं महोद्यमम् ॥ ६ ॥
तान् निवार्य बलः प्राह मदलोलाकुलाक्षरम् ।
मोक्ष्यन्ति ते मद्वचनाद् यास्याम्य् एको हि कौरवान् ॥ ७ ॥
बलदेवस् ततो गत्वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्ये ऽभून् न विवेश च तत् पुरम् ॥ ८ ॥
बलम् आगतम् आज्ञाय तदा दुर्योधनादयः ।
गाम् अर्घम् उदकं चैव रामाय प्रत्यवेदयन् ।
गृहीत्वा विधिवत् सर्वं ततस् तान् आह कौरवान् ॥ ९ ॥
बलदेव उवाच-
आज्ञापयत्य् उग्रसेनः साम्बम् आशु विमुञ्चत ॥ १० ॥
व्यास उवाच-
ततस् तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः ।
कर्णदुर्योधनाद्याश् च चुक्रुधुर् द्विजसत्तमाः ॥ ११ ॥
ऊचुश् च कुपिताः सर्वे बाह्लिकाद्याश् च भूमिपाः ।
अराजार्हं यदोर् वंशम् अवेक्ष्य मुशलायुधम् ॥ १२ ॥
कौरवा ऊचुः-
भो भोः किम् एतद् भवता बलभद्रेरितं वचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ १३ ॥
उग्रसेनो ऽपि यद्य् आज्ञां कौरवाणां प्रदास्यति ।
तद् अलं पाण्डुरैश् छत्त्रैर् नृपयोग्यैर् अलङ्कृतैः ॥ १४ ॥
तद् गच्छ बलभद्र त्वं साम्बम् अन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥ १५ ॥
प्रणतिर् या कृतास्माकं मान्यानां कुकुरान्धकैः ।
न नाम सा कृता केयम् आज्ञा स्वामिनि भृत्यतः ॥ १६ ॥
गर्वम् आरोपिता यूयं समानासनभोजनैः ।
को दोषो भवतां नीतिर् यत् प्रीणात्य् अनपेक्षिता ॥ १७ ॥
अस्माभिर् अर्च्यो भवता यो ऽयं बल निवेदितः ।
प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम् ॥ १८ ॥
व्यास उवाच-
इत्य् उक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् ।
कृतैकनिश्चयाः सर्वे विविशुर् गजसाह्वयम् ॥ १९ ॥
मत्तः कोपेन चाघूर्णं ततो ऽधिक्षेपजन्मना ।
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २० ॥
ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः ।
आस्फोटयाम् आस तदा दिशः शब्देन पूरयन् ।
उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥ २१ ॥
बलदेव उवाच-
अहो महावलेपो ऽयम् असाराणां दुरात्मनाम् ।
कौरवाणाम् आधिपत्यम् अस्माकं किल कालजम् ॥ २२ ॥
उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्य् अलङ्घनाम् ।
आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः ॥ २३ ॥
सदाध्यास्ते सुधर्मां ताम् उग्रसेनः शचीपतेः ।
धिङ् मनुष्यशतोच्छिष्टे तुष्टिर् एषां नृपासने ॥ २४ ॥
पारिजाततरोः पुष्पमञ्जरीर् वनिताजनः ।
बिभर्ति यस्य भृत्यानां सो ऽप्य् एषां न महीपतिः ॥ २५ ॥
समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु ।
अद्य निष्कौरवाम् उर्वीं कृत्वा यास्यामि तां पुरीम् ॥ २६ ॥
कर्णं दुर्योधनं द्रोणम् अद्य भीष्मं सबाह्लिकम् ।
दुःशासनादीन् भूरिं च भूरिश्रवसम् एव च ॥ २७ ॥
सोमदत्तं शलं भीमम् अर्जुनं सयुधिष्ठिरम् ।
यमजौ कौरवांश् चान्यान् हन्यां साश्वरथद्विपान् ॥ २८ ॥
वीरम् आदाय तं साम्बं सपत्नीकं ततः पुरीम् ।
द्वारकाम् उग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ॥ २९ ॥
अथवा कौरवादीनां समस्तैः कुरुभिः सह ।
भारावतरणे शीघ्रं देवराजेन चोदितः ॥ ३० ॥
भागीरथ्यां क्षिपाम्य् आशु नगरं नागसाह्वयम् ॥ ३१ ॥
व्यास उवाच-
इत्य् उक्त्वा क्रोधरक्ताक्षस् तालाङ्को ऽधोमुखं हलम् ।
प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः ॥ ३२ ॥
आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम् ।
दृष्ट्वा सङ्क्षुब्धहृदयाश् चुक्रुशुः सर्वकौरवाः ॥ ३३ ॥
कौरवा ऊचुः-
राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया ।
उपसंह्रियतां कोपः प्रसीद मुशलायुध ॥ ३४ ॥
एष साम्बः सपत्नीकस् तव निर्यातितो बल ।
अविज्ञातप्रभावाणां क्षम्यताम् अपराधिनाम् ॥ ३५ ॥
व्यास उवाच-
ततो निर्यातयाम् आसुः साम्बं पत्न्या समन्वितम् ।
निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः ॥ ३६ ॥
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।
क्षान्तम् एव मयेत्य् आह बलो बलवतां वरः ॥ ३७ ॥
अद्याप्य् आघूर्णिताकारं लक्ष्यते तत् पुरं द्विजाः ।
एष प्रभावो रामस्य बलशौर्यवतो द्विजाः ॥ ३८ ॥
ततस् तु कौरवाः साम्बं सम्पूज्य हलिना सह ।
प्रेषयाम् आसुर् उद्वाहधनभार्यासमन्वितम् ॥ ३९ ॥