207

Summary (SA)

Chapter 207- Pauṇḍraka claiming to be Viṣṇu; the burning of Kāśi

{{Ref- SS 314-315}}

मुनय ऊचुः-

चक्रे कर्म महच् छौरिर् बिभ्रद् यो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वदेवांश् च लीलया ॥ १ ॥

यच् चान्यद् अकरोत् कर्म दिव्यचेष्टाविघातकृत् ।
कथ्यतां तन् मुनिश्रेष्ठ परं कौतूहलं हि नः ॥ २ ॥

व्यास उवाच-

गदतो मे मुनिश्रेष्ठाः श्रूयताम् इदम् आदरात् ।
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ ३ ॥

पौण्ड्रको वासुदेवश् च वासुदेवो ऽभवद् भुवि ।
अवतीर्णस् त्वम् इत्य् उक्तो जनैर् अज्ञानमोहितैः ॥ ४ ॥

स मेने वासुदेवो ऽहम् अवतीर्णो महीतले ।
नष्टस्मृतिस् ततः सर्वं विष्णुचिह्नम् अचीकरत् ।
दूतं च प्रेषयाम् आस स कृष्णाय द्विजोत्तमाः ॥ ५ ॥

दूत उवाच-

त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः ।
वासुदेवात्मकं मूढ मुक्त्वा सर्वम् अशेषतः ॥ ६ ॥

आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥ ७ ॥

व्यास उवाच-

इत्य् उक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥ ८ ॥

श्रीभगवान् उवाच-

निजचिह्नम् अहं चक्रं समुत्स्रक्ष्ये त्वयीति वै ।
वाच्यश् च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥ ९ ॥

ज्ञातस् त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम् ।
गृहीतचिह्न एवाहम् आगमिष्यामि ते पुरम् ॥ १० ॥

उत्स्रक्ष्यामि च ते चक्रं निजचिह्नम् असंशयम् ।
आज्ञापूर्वं च यद् इदम् आगच्छेति त्वयोदितम् ॥ ११ ॥

सम्पादयिष्ये श्वस् तुभ्यं तद् अप्य् एषो ऽविलम्बितम् ।
शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।
यथा त्वत्तो भयं भूयो नैव किञ्चिद् भविष्यति ॥ १२ ॥

व्यास उवाच-

इत्य् उक्ते ऽपगते दूते संस्मृत्याभ्यागतं हरिः ।
गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥ १३ ॥

तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस् तदा ।
सर्वसैन्यपरीवारपार्ष्णिग्राहम् उपाययौ ॥ १४ ॥

ततो बलेन महता काशिराजबलेन च ।
पौण्ड्रको वासुदेवो ऽसौ केशवाभिमुखं ययौ ॥ १५ ॥

तं ददर्श हरिर् दूराद् उदारस्यन्दने स्थितम् ।
चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥ १६ ॥

स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् ।
वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥ १७ ॥

किरीटकुण्डलधरं पीतवासःसमन्वितम् ।
दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥ १८ ॥

युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः ।
निस्त्रिंशर्ष्टिगदाशूलशक्तिकार्मुकशालिना ॥ १९ ॥

क्षणेन शार्ङ्गनिर्मुक्तैः शरैर् अग्निविदारणैः ।
गदाचक्रातिपातैश् च सूदयाम् आस तद्बलम् ॥ २० ॥

काशिराजबलं चैव क्षयं नीत्वा जनार्दनः ।
उवाच पौण्ड्रकं मूढम् आत्मचिह्नोपलक्षणम् ॥ २१ ॥

श्रीभगवान् उवाच-

पौण्ड्रकोक्तं त्वया यत् तद् दूतवक्त्रेण मां प्रति ।
समुत्सृजेति चिह्नानि तत् ते सम्पादयाम्य् अहम् ॥ २२ ॥

चक्रम् एतत् समुत्सृष्टं गदेयं ते विसर्जिता ।
गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम् ॥ २३ ॥

इत्य् उच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
पोथितो गदया भग्नो गरुत्मांश् च गरुत्मता ॥ २४ ॥

ततो हाहाकृते लोके काशीनाम् अधिपस् तदा ।
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २५ ॥

ततः शार्ङ्गविनिर्मुक्तैश् छित्त्वा तस्य शरैः शिरः ।
काशिपुर्यां स चिक्षेप कुर्वंल् लोकस्य विस्मयम् ॥ २६ ॥

हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् ।
रेमे द्वारवतीं प्राप्तो ऽमरः स्वर्गगतो यथा ॥ २७ ॥

तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे ।
जनः किम् एतद् इत्य् आह केनेत्य् अत्यन्तविस्मितः ॥ २८ ॥

ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस् ततः ।
पुरोहितेन सहितस् तोषयाम् आस शङ्करम् ॥ २९ ॥

अविमुक्ते महाक्षेत्रे तोषितस् तेन शङ्करः ।
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ ३० ॥

स वव्रे भगवन् कृत्या पितुर् हन्तुर् वधाय मे ।
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान् महेश्वर ॥ ३१ ॥

व्यास उवाच-

एवं भविष्यतीत्य् उक्ते दक्षिणाग्नेर् अनन्तरम् ।
महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥ ३२ ॥

ततो ज्वालाकरालास्या ज्वलत्केशकलापिका ।
कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ ॥ ३३ ॥

ताम् अवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् ।
ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ ३४ ॥

जना ऊचुः-

काशिराजसुतेनेयम् आराध्य वृषभध्वजम् ।
उत्पादिता महाकृत्या वधाय तव चक्रिणः ।
जहि कृत्याम् इमाम् उग्रां वह्निज्वालाजटाकुलाम् ॥ ३५ ॥

व्यास उवाच-

चक्रम् उत्सृष्टम् अक्षेषु क्रीडासक्तेन लीलया ।
तद् अग्निमालाजटिलं ज्वालोद्गारातिभीषणम् ॥ ३६ ॥

कृत्याम् अनुजगामाशु विष्णुचक्रं सुदर्शनम् ।
ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा ॥ ३७ ॥

जगाम वेगिनी वेगात् तद् अप्य् अनुजगाम ताम् ।
कृत्या वाराणसीम् एव प्रविवेश त्वरान्विता ॥ ३८ ॥

विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तमाः ।
ततः काशिबलं भूरि प्रमथानां तथा बलम् ॥ ३९ ॥

समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ।
शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद् बलम् ओजसा ॥ ४० ॥

कृत्वाक्षेमाम् अशेषां तां पुरीं वाराणसीं ययौ ।
प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम् ॥ ४१ ॥

अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैर् अपि ।
ज्वालापरिवृताशेषगृहप्राकारतोरणाम् ॥ ४२ ॥

ददाह तां पुरीं चक्रं सकलाम् एव सत्वरम् ।
अक्षीणामर्षम् अत्यल्पसाध्यसाधननिस्पृहम् ।
तच् चक्रं प्रस्फुरद्दीप्ति विष्णोर् अभ्याययौ करम् ॥ ४३ ॥