Summary (SA)
Chapter 206- Bāṇa-episode (cont.)
{{Ref- SS 313-314}}
व्यास उवाच-
बाणो ऽपि प्रणिपत्याग्रे ततश् चाह त्रिलोचनम् ॥ १ ॥
बाण उवाच-
देव बाहुसहस्रेण निर्विण्णो ऽहं विनाहवम् ।
कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः ।
भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २ ॥
शङ्कर उवाच-
मयूरध्वजभङ्गस् ते यदा बाण भविष्यति ।
पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥ ३ ॥
व्यास उवाच-
ततः प्रणम्य मुदितः शम्भुम् अभ्यागतो गृहात् ।
भग्नं ध्वजम् अथालोक्य हृष्टो हर्षं परं ययौ ॥ ४ ॥
एतस्मिन्न् एव काले तु योगविद्याबलेन तम् ।
अनिरुद्धम् अथानिन्ये चित्रलेखा वरा सखी ॥ ५ ॥
कन्यान्तःपुरमध्ये तं रममाणं सहोषया ।
विज्ञाय रक्षिणो गत्वा शशंसुर् दैत्यभूपतेः ॥ ६ ॥
व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना ।
जघान परिघं लौहम् आदाय परवीरहा ॥ ७ ॥
हतेषु तेषु बाणो ऽपि रथस्थस् तद्वधोद्यतः ।
युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥ ८ ॥
मायया युयुधे तेन स तदा मन्त्रचोदितः ।
ततश् च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ ९ ॥
द्वारवत्यां क्व यातो ऽसाव् अनिरुद्धेति जल्पताम् ।
यदूनाम् आचचक्षे तं बद्धं बाणेन नारदः ॥ १० ॥
तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया ।
योषिता प्रत्ययं जग्मुर् यादवा नाम वैरिति ॥ ११ ॥
ततो गरुडम् आरुह्य स्मृतमात्रागतं हरिः ।
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ १२ ॥
पुरीप्रवेशे प्रमथैर् युद्धम् आसीन् महाबलैः ।
ययौ बाणपुराभ्याशं नीत्वा तान् सङ्क्षयं हरिः ॥ १३ ॥
ततस् त्रिपादस् त्रिशिरा ज्वरो माहेश्वरो महान् ।
बाणरक्षार्थम् अत्यर्थं युयुधे शार्ङ्गधन्वना ॥ १४ ॥
तद्भस्मस्पर्शसम्भूततापं कृष्णाङ्गसङ्गमात् ।
अवाप बलदेवो ऽपि समं सम्मीलितेक्षणः ॥ १५ ॥
ततः संयुध्यमानस् तु सह देवेन शार्ङ्गिणा ।
वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः ॥ १६ ॥
नारायणभुजाघातपरिपीडनविह्वलम् ।
तं वीक्ष्य क्षम्यताम् अस्येत्य् आह देवः पितामहः ॥ १७ ॥
ततश् च क्षान्तम् एवेति प्रोच्य तं वैष्णवं ज्वरम् ।
आत्मन्य् एव लयं निन्ये भगवान् मधुसूदनः ॥ १८ ॥
मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः ।
विज्वरास् ते भविष्यन्तीत्य् उक्त्वा चैनं ययौ हरिः ॥ १९ ॥
ततो ऽग्नीन् भगवान् पञ्च जित्वा नीत्वा क्षयं तथा ।
दानवानां बलं विष्णुश् चूर्णयाम् आस लीलया ॥ २० ॥
ततः समस्तसैन्येन दैतेयानां बलेः सुतः ।
युयुधे शङ्करश् चैव कार्त्तिकेयश् च शौरिणा ॥ २१ ॥
हरिशङ्करयोर् युद्धम् अतीवासीत् सुदारुणम् ।
चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर् बहुधार्दिताः ॥ २२ ॥
प्रलयो ऽयम् अशेषस्य जगतो नूनम् आगतः ।
मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥ २३ ॥
जृम्भणास्त्रेण गोविन्दो जृम्भयाम् आस शङ्करम् ।
ततः प्रणेशुर् दैतेयाः प्रमथाश् च समन्ततः ॥ २४ ॥
जृम्भाभिभूतश् च हरो रथोपस्थम् उपाविशत् ।
न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २५ ॥
गरुडक्षतबाहुश् च प्रद्युम्नास्त्रेण पीडितः ।
कृष्णहुङ्कारनिर्धूतशक्तिश् चापययौ गुहः ॥ २६ ॥
जृम्भिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते ।
नीते प्रमथसैन्ये च सङ्क्षयं शार्ङ्गधन्वना ॥ २७ ॥
नन्दीशसङ्गृहीताश्वम् अधिरूढो महारथम् ।
बाणस् तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २८ ॥
बलभद्रो महावीर्यो बाणसैन्यम् अनेकधा ।
विव्याध बाणैः प्रद्युम्नो धर्मतश् चापलायतः ॥ २९ ॥
आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् ।
बलं बलेन ददृशे बाणो बाणैश् च चक्रिणः ॥ ३० ॥
ततः कृष्णस्य बाणेन युद्धम् आसीत् समासतः ।
परस्परं तु सन्दीप्तान् कायत्राणविभेदिनः ॥ ३१ ॥
कृष्णश् चिच्छेद बाणांस् तान् बाणेन प्रहिताञ् शरैः ।
बिभेद केशवं बाणो बाणं विव्याध चक्रधृक् ॥ ३२ ॥
मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया ।
परस्परक्षतिपरौ परिघांश् च ततो द्विजाः ॥ ३३ ॥
छिद्यमानेष्व् अशेषेषु शस्त्रेष्व् अस्त्रे च सीदति ।
प्राचुर्येण हरिर् बाणं हन्तुं चक्रे ततो मनः ॥ ३४ ॥
ततो ऽर्कशतसम्भूततेजसा सदृशद्युति ।
जग्राह दैत्यचक्रारिर् हरिश् चक्रं सुदर्शनम् ॥ ३५ ॥
मुञ्चतो बाणनाशाय तच् चक्रं मधुविद्विषः ।
नग्ना दैतेयविद्याभूत् कोटरी पुरतो हरेः ॥ ३६ ॥
ताम् अग्रतो हरिर् दृष्ट्वा मीलिताक्षः सुदर्शनम् ।
मुमोच बाणम् उद्दिश्य छेत्तुं बाहुवनं रिपोः ॥ ३७ ॥
क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् ।
छेदं चक्रे ऽसुरस्याशु शस्त्रास्त्रक्षेपणाद् द्रुतम् ॥ ३८ ॥
छिन्ने बाहुवने तत् तु करस्थं मधुसूदनः ।
मुमुक्षुर् बाणनाशाय विज्ञातस् त्रिपुरद्विषा ॥ ३९ ॥
स उत्पत्याह गोविन्दं सामपूर्वम् उमापतिः ।
विलोक्य बाणं दोर्दण्डच्छेदासृक्स्राववर्षिणम् ॥ ४० ॥
रुद्र उवाच-
कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् ।
परेशं परमात्मानम् अनादिनिधनं परम् ॥ ४१ ॥
देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा ॥ ४२ ॥
तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।
तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः ॥ ४३ ॥
अस्मत्संश्रयवृद्धो ऽयं नापराधस् तवाव्यय ।
मया दत्तवरो दैत्यस् ततस् त्वां क्षमयाम्य् अहम् ॥ ४४ ॥
व्यास उवाच-
इत्य् उक्तः प्राह गोविन्दः शूलपाणिम् उमापतिम् ।
प्रसन्नवदनो भूत्वा गतामर्षो ऽसुरं प्रति ॥ ४५ ॥
श्रीभगवान् उवाच-
युष्मद्दत्तवरो बाणो जीवताद् एष शङ्कर ।
त्वद्वाक्यगौरवाद् एतन् मया चक्रं निवर्तितम् ॥ ४६ ॥
त्वया यद् अभयं दत्तं तद् दत्तम् अभयं मया ।
मत्तो ऽविभिन्नम् आत्मानं द्रष्टुम् अर्हसि शङ्कर ॥ ४७ ॥
यो ऽहं स त्वं जगच् चेदं सदेवासुरमानुषम् ।
अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥ ४८ ॥
व्यास उवाच-
इत्य् उक्त्वा प्रययौ कृष्णः प्राद्युम्निर् यत्र तिष्ठति ।
तद्बन्धफणिनो नेशुर् गरुडानिलशोषिताः ॥ ४९ ॥
ततो ऽनिरुद्धम् आरोप्य सपत्नीकं गरुत्मति ।
आजग्मुर् द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥ ५० ॥