Summary (SA)
Chapter 205- Descendants of Kṛṣṇa; Bāṇa-episode- Uṣā’s dream
{{Ref- SS 312-313}}
व्यास उवाच-
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः ।
भान्वादिकांश् च वै पुत्रान् सत्यभामा व्यजायत ॥ १ ॥
दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास् तनया हरेः ।
बभूवुर् जाम्बवत्याश् च साम्बाद्या बाहुशालिनः ॥ २ ॥
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
सङ्ग्रामजित्प्रधानास् तु शैब्यायां चाभवन् सुताः ॥ ३ ॥
वृकाद्यास् तु सुता माद्री गात्रवत्प्रमुखान् सुतान् ।
अवाप लक्ष्मणा पुत्रान् कालिन्द्याश् च श्रुतादयः ॥ ४ ॥
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ ५ ॥
प्रद्युम्नः प्रमुखस् तेषां रुक्मिण्यास् तु सुतस् ततः ।
प्रद्युम्नाद् अनिरुद्धो ऽभूद् वज्रस् तस्माद् अजायत ॥ ६ ॥
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः ।
बाणस्य तनयाम् ऊषाम् उपयेमे द्विजोत्तमाः ॥ ७ ॥
यत्र युद्धम् अभूद् घोरं हरिशङ्करयोर् महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ ८ ॥
मुनय ऊचुः-
कथं युद्धम् अभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः ॥ ९ ॥
एतत् सर्वं महाभाग वक्तुम् अर्हसि नो ऽखिलम् ।
महत् कौतूहलं जातं श्रोतुम् एतां कथां शुभाम् ॥ १० ॥
व्यास उवाच-
उषा बाणसुता विप्राः पार्वतीं शम्भुना सह ।
क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् ।
ततः सकलचित्तज्ञा गौरी ताम् आह भामिनीम् ॥ ११ ॥
गौर्य् उवाच-
अलम् इत्य् अनुतापेन भर्त्रा त्वम् अपि रंस्यसे ॥ १२ ॥
व्यास उवाच-
इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः ।
को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती ॥ १३ ॥
पार्वत्य् उवाच-
वैशाखे शुक्लद्वादश्यां स्वप्ने यो ऽभिभवं तव ।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ १४ ॥
व्यास उवाच-
तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितः ।
तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा ।
ततः प्रबुद्धा पुरुषम् अपश्यन्ती तम् उत्सुका ॥ १५ ॥
उषोवाच-
क्व गतो ऽसीति निर्लज्जा द्विजाश् चोक्तवती सखीम् ।
बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा तु तत्सुता ॥ १६ ॥
तस्याः सख्य् अभवत् सा च प्राह को ऽयं त्वयोच्यते ।
यदा लज्जाकुला नास्य कथयाम् आस सा सखी ॥ १७ ॥
तदा विश्वासम् आनीय सर्वम् एवान्ववेदयत् ।
विदितायां तु ताम् आह पुनर् ऊषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ यो ऽभ्युपायः कुरुष्व तम् ॥ १८ ॥
व्यास उवाच-
ततः पटे सुरान् दैत्यान् गन्धर्वांश् च प्रधानतः ।
मनुष्यांश् चाभिलिख्यासौ चित्रलेखाप्य् अदर्शयत् ॥ १९ ॥
अपास्य सा तु गन्धर्वांस् तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्व् अप्य् अन्धकवृष्णिषु ॥ २० ॥
कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जायतेक्षणा ।
प्रद्युम्नदर्शने व्रीडादृष्टिं निन्ये ततो द्विजाः ॥ २१ ॥
दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता ।
सो ऽयं सो ऽयं ममेत्य् उक्ते तया सा योगगामिनी ।
ययौ द्वारवतीम् ऊषां समाश्वास्य ततः सखी ॥ २२ ॥