Summary (SA)
Chapter 204- Reconciliation of Kṛṣṇa and Indra; the Pārijāta-tree on earth
{{Ref- SS 312}}
व्यास उवाच-
संस्तुतो भगवान् इत्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरम् उवाचेदं द्विजोत्तमाः ॥ १ ॥
श्रीभगवान् उवाच-
देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवैतद् अपराधकृतं मम ॥ २ ॥
पारिजाततरुश् चायं नीयताम् उचितास्पदम् ।
गृहीतो ऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥
वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया ।
तवैवैतत् प्रहरणं शक्र वैरिविदारणम् ॥ ४ ॥
शक्र उवाच-
विमोहयसि माम् ईश मर्त्यो ऽहम् इति किं वदन् ।
जानीमस् त्वां भगवतो ऽनन्तसौख्यविदो वयम् ॥ ५ ॥
यो ऽसि सो ऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्य् असुरसूदन ॥ ६ ॥
नीयतां पारिजातो ऽयं कृष्ण द्वारवतीं पुरीम् ।
मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥ ७ ॥
व्यास उवाच-
तथेत्य् उक्त्वा तु देवेन्द्रम् आजगाम भुवं हरिः ।
प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस् त्व् अथर्षिभिः ॥ ८ ॥
जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् ।
ततः शङ्खम् उपाध्माय द्वारकोपरि संस्थितः ॥ ९ ॥
हर्षम् उत्पादयाम् आस द्वारकावासिनां द्विजाः ।
अवतीर्याथ गरुडात् सत्यभामासहायवान् ॥ १० ॥
निष्कुटे स्थापयाम् आस पारिजातं महातरुम् ।
यम् अभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥ ११ ॥
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् ।
ततस् ते यादवाः सर्वे देवगन्धान् अमानुषान् ॥ १२ ॥
ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम् ।
किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥ १३ ॥
स्त्रियश् च कृष्णो जग्राह नरकस्य परिग्रहात् ।
ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥ १४ ॥
ताः कन्या नरकावासात् सर्वतो याः समाहृताः ।
एकस्मिन्न् एव गोविन्दः कालेनासां द्विजोत्तमाः ॥ १५ ॥
जग्राह विधिवत् पाणीन् पृथग्देहे स्वधर्मतः ।
षोडश स्त्रीसहस्राणि शतम् एकं तथाधिकम् ॥ १६ ॥
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ।
एकैकशश् च ताः कन्या मेनिरे मधुसूदनम् ॥ १७ ॥
ममैव पाणिग्रहणं गोविन्दः कृतवान् इति ।
निशासु जगतः स्रष्टा तासां गेहेषु केशवः ।
उवास विप्राः सर्वासां विश्वरूपधरो हरिः ॥ १८ ॥