Summary (SA)
Chapter 203- Kṛṣṇa and Satyabhāmā in the world of the gods
{{Ref- SS 311-312}}
व्यास उवाच-
गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥ १ ॥
ततः शङ्खम् उपाध्माय स्वर्गद्वारं गतो हरिः ।
उपतस्थुस् ततो देवाः सार्घपात्रा जनार्दनम् ॥ २ ॥
स देवैर् अर्चितः कृष्णो देवमातुर् निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशे ऽदितिम् ॥ ३ ॥
स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे ।
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ४ ॥
ततः प्रीता जगन्माता धातारं जगतां हरिम् ।
तुष्टावादितिर् अव्यग्रं कृत्वा तत्प्रवणं मनः ॥ ५ ॥
अदितिर् उवाच-
नमस् ते पुण्डरीकाक्ष भक्तानाम् अभयङ्कर ।
सनातनात्मन् भूतात्मन् सर्वात्मन् भूतभावन ॥ ६ ॥
प्रणेतर् मनसो बुद्धेर् इन्द्रियाणां गुणात्मक ।
सितदीर्घादिनिःशेषकल्पनापरिवर्जित ॥ ७ ॥
जन्मादिभिर् असंस्पृष्टस्वप्नादिवारिवर्जितः ।
सन्ध्या रात्रिर् अहर् भूमिर् गगनं वायुर् अम्बु च ॥ ८ ॥
हुताशनो मनो बुद्धिर् भूतादिस् त्वं तथाच्युत ।
सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर् भवान् ॥ ९ ॥
ब्रह्मविष्णुशिवाख्याभिर् आत्ममूर्तिभिर् ईश्वरः ।
मायाभिर् एतद् व्याप्तं ते जगत् स्थावरजङ्गमम् ॥ १० ॥
अनात्मन्य् आत्मविज्ञानं सा ते माया जनार्दन ।
अहं ममेति भावो ऽत्र यया समुपजायते ॥ ११ ॥
संसारमध्ये मायायास् तवैतन् नाथ चेष्टितम् ।
यैः स्वधर्मपरैर् नाथ नरैर् आराधितो भवान् ॥ १२ ॥
ते तरन्त्य् अखिलाम् एतां मायाम् आत्मविमुक्तये ।
ब्रह्माद्याः सकला देवा मनुष्याः पशवस् तथा ॥ १३ ॥
विष्णुमायामहावर्ते मोहान्धतमसावृताः ।
आराध्य त्वाम् अभीप्सन्ते कामान् आत्मभवक्षये ॥ १४ ॥
पदे ते पुरुषा बद्धा मायया भगवंस् तव ।
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ १५ ॥
आराधितो न मोक्षाय मायाविलसितं हि तत् ।
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि ॥ १६ ॥
जायते यद् अपुण्यानां सो ऽपराधः स्वदोषजः ।
तत् प्रसीदाखिलजगन्मायामोहकराव्यय ॥ १७ ॥
अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय ।
नमस् ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ १८ ॥
गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ।
एतत् पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् ।
न जानामि परं यत् ते प्रसीद परमेश्वर ॥ १९ ॥
व्यास उवाच-
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ॥ २० ॥
श्रीकृष्ण उवाच-
माता देवि त्वम् अस्माकं प्रसीद वरदा भव ॥ २१ ॥
अदितिर् उवाच-
एवम् अस्तु यथेच्छा ते त्वम् अशेषसुरासुरैः ।
अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥ २२ ॥
व्यास उवाच-
ततो ऽनन्तरम् एवास्य शक्राणीसहितां दितिम् ।
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २३ ॥
अदितिर् उवाच-
मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यम् एव च ।
भविष्यत्य् अनवद्याङ्गि सर्वकामा भविष्यसि ॥ २४ ॥
व्यास उवाच-
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत् पूजयाम् आस बहुमानपुरःसरम् ॥ २५ ॥
ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान् ।
देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥ २६ ॥
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥ २७ ॥
मथ्यमाने ऽमृते जातं जातरूपसमप्रभम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ।
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥ २८ ॥
सत्यभामोवाच-
कस्मान् न द्वारकाम् एष नीयते कृष्ण पादपः ।
यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे ॥ २९ ॥
मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः ।
न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी ॥ ३० ॥
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत् प्रियम् ।
सत्यं तद् यदि गोविन्द नोपचारकृतं वचः ॥ ३१ ॥
तद् अस्तु पारिजातो ऽयं मम गेहविभूषणम् ।
बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम् ।
सपत्नीनाम् अहं मध्ये शोभेयम् इति कामये ॥ ३२ ॥
व्यास उवाच-
इत्य् उक्तः स प्रहस्यैनं पारिजातं गरुत्मति ।
आरोपयाम् आस हरिस् तम् ऊचुर् वनरक्षिणः ॥ ३३ ॥
वनपाला ऊचुः-
भोः शची देवराजस्य महिषी तत्परिग्रहम् ।
पारिजातं न गोविन्द हर्तुम् अर्हसि पादपम् ॥ ३४ ॥
शचीविभूषणार्थाय देवैर् अमृतमन्थने ।
उत्पादितो ऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ३५ ॥
मौढ्यात् प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् ।
अवश्यम् अस्य देवेन्द्रो विकृतिं कृष्ण यास्यति ॥ ३६ ॥
वज्रोद्यतकरं शक्रम् अनुयास्यन्ति चामराः ।
तद् अलं सकलैर् देवैर् विग्रहेण तवाच्युत ।
विपाककटु यत् कर्म न तच् छंसन्ति पण्डिताः ॥ ३७ ॥
व्यास उवाच-
इत्य् उक्ते तैर् उवाचैतान् सत्यभामातिकोपिनी ॥ ३८ ॥
सत्यभामोवाच-
का शची पारिजातस्य को वा शक्रः सुराधिपः ।
सामान्यः सर्वलोकानां यद्य् एषो ऽमृतमन्थने ॥ ३९ ॥
समुत्पन्नः पुरा कस्माद् एको गृह्णाति वासवः ।
यथा सुरा यथा चेन्दुर् यथा श्रीर् वनरक्षिणः ॥ ४० ॥
सामान्यः सर्वलोकस्य पारिजातस् तथा द्रुमः ।
भर्तृबाहुमहागर्वाद् रुणद्ध्य् एनम् अथो शची ॥ ४१ ॥
तत् कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम ।
सत्यभामा वदत्य् एवं भर्तृगर्वोद्धताक्षरम् ॥ ४२ ॥
यदि त्वं दयिता भर्तुर् यदि तस्य प्रिया ह्य् असि ।
मद्भर्तुर् हरतो वृक्षं तत् कारय निवारणम् ॥ ४३ ॥
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
पारिजातं तथाप्य् एनं मानुषी हारयामि ते ॥ ४४ ॥
व्यास उवाच-
इत्य् उक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर् यथोदितम् ।
शची चोत्साहयाम् आस त्रिदशाधिपतिं पतिम् ॥ ४५ ॥
ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् ।
प्रवृक्तः पारिजातार्थम् इन्द्रो योधयितुं द्विजाः ॥ ४६ ॥
ततः परिघनिस्त्रिंशगदाशूलधरायुधाः ।
बभूवुस् त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥ ४७ ॥
ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥ ४८ ॥
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।
मुमोच च शरव्रातं सहस्रायुतसम्मितम् ॥ ४९ ॥
ततो दिशो नभश् चैव दृष्ट्वा शरशताचितम् ।
मुमुचुस् त्रिदशाः सर्वे शस्त्राण्य् अस्त्राण्य् अनेकशः ॥ ५० ॥
एकैकम् अस्त्रं शस्त्रं च देवैर् मुक्तं सहस्रधा ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ५१ ॥
पाशं सलिलराजस्य समाकृष्योरगाशनः ।
चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत् ॥ ५२ ॥
यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् ।
पृथिव्यां पातयाम् आस भगवान् देवकीसुतः ॥ ५३ ॥
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।
चकार शौरिर् अर्केन्दू दृष्टिपातहतौजसौ ॥ ५४ ॥
नीतो ऽग्निः शतशो बाणैर् द्राविता वसवो दिशः ।
चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥ ५५ ॥
साध्या विश्वे च मरुतो गन्धर्वाश् चैव सायकैः ।
शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत् ॥ ५६ ॥
गरुडश् चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः ।
भक्षयन्न् अहनद् देवान् दानवांश् च सदा खगः ॥ ५७ ॥
ततः शरसहस्रेण देवेन्द्रमधुसूदनौ ।
परस्परं ववर्षाते धाराभिर् इव तोयदौ ॥ ५८ ॥
ऐरावतेन गरुडो युयुधे तत्र सङ्कुले ।
देवैः समेतैर् युयुधे शक्रेण च जनार्दनः ॥ ५९ ॥
छिन्नेषु शीर्यमाणेषु शस्त्रेष्व् अस्त्रेषु सत्वरम् ।
जग्राह वासवो वज्रं कृष्णश् चक्रं सुदर्शनम् ॥ ६० ॥
ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् ।
वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥ ६१ ॥
क्षिप्तं वज्रम् अथेन्द्रेण जग्राह भगवान् हरिः ।
न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ६२ ॥
प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।
सत्यभामाब्रवीद् वाक्यं पलायनपरायणम् ॥ ६३ ॥
सत्यभामोवाच-
त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् ।
पारिजातस्रगाभोगात् त्वाम् उपस्थास्यते शची ॥ ६४ ॥
कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम् ।
अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ ६५ ॥
अलं शक्र प्रयासेन न व्रीडां यातुम् अर्हसि ।
नीयतां पारिजातो ऽयं देवाः सन्तु गतव्यथाः ॥ ६६ ॥
पतिगर्वावलेपेन बहुमानपुरःसरम् ।
न ददर्श गृहायाताम् उपचारेण मां शची ॥ ६७ ॥
स्त्रीत्वाद् अगुरुचित्ताहं स्वभर्तुः श्लाघनापरा ।
ततः कृतवती शक्र भवता सह विग्रहम् ॥ ६८ ॥
तद् अलं पारिजातेन परस्वेन हृतेन वा ।
रूपेण यशसा चैव भवेत् स्त्री का न गर्विता ॥ ६९ ॥
व्यास उवाच-
इत्य् उक्ते वै निववृते देवराजस् तया द्विजाः ।
प्राह चैनाम् अलं चण्डि सखि खेदातिविस्तरैः ॥ ७० ॥
न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः ।
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ ७१ ॥
यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये ।
यस्माद् यतश् च न भविष्यति सर्वभूतात् ।
तेनोद्भवप्रलयपालनकारणेन ।
व्रीडा कथं भवति देवि निराकृतस्य ॥ ७२ ॥
सकलभुवनमूर्तिर् अल्पा सुसूक्ष्मा ।
विदितसकलवेदैर् ज्ञायते यस्य नान्यैः ।
तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं ।
जगदुपकृतिम् आद्यं को विजेतुं समर्थः ॥ ७३ ॥