202

Summary (SA)

Chapter 202- Naraka-episode

{{Ref- SS 310}}

व्यास उवाच-

द्वारवत्यां ततः शौरिं शक्रस् त्रिभुवनेश्वरः ।
आजगामाथ मुनयो मत्तैरावतपृष्ठगः ॥ १ ॥

प्रविश्य द्वारकां सो ऽथ समीपे च हरेस् तदा ।
कथयाम् आस दैत्यस्य नरकस्य विचेष्टितम् ॥ २ ॥

इन्द्र उवाच-

त्वया नाथेन देवानां मनुष्यत्वे ऽपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ३ ॥

तपस्विजनरक्षायै सो ऽरिष्टो धेनुकस् तथा ।
प्रलम्बाद्यास् तथा केशी ते सर्वे निहतास् त्वया ॥ ४ ॥

कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास् त्वया सर्वे ये ऽन्ये जगदुपद्रवाः ॥ ५ ॥

युष्मद्दोर्दण्डसम्बुद्धिपरित्राते जगत्त्रये ।
यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः ॥ ६ ॥

सो ऽहं साम्प्रतम् आयातो यन्निमित्तं जनार्दन ।
तच् छ्रुत्वा तत्प्रतीकारप्रयत्नं कर्तुम् अर्हसि ॥ ७ ॥

भौमो ऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानाम् अपघातम् अरिन्दम ॥ ८ ॥

देवसिद्धसुरादीनां नृपाणां च जनार्दन ।
हत्वा तु सो ऽसुरः कन्या रुरोध निजमन्दिरे ॥ ९ ॥

छत्त्रं यत् सलिलस्रावि तज् जहार प्रचेतसः ।
मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम् ॥ १० ॥

अमृतस्राविणी दिव्ये मातुर् मे ऽमृतकुण्डले ।
जहार सो ऽसुरो ऽदित्या वाञ्छत्य् ऐरावतं द्विपम् ॥ ११ ॥

दुर्नीतम् एतद् गोविन्द मया तस्य तवोदितम् ।
यद् अत्र प्रतिकर्तव्यं तत् स्वयं परिमृश्यताम् ॥ १२ ॥

व्यास उवाच-

इति श्रुत्वा स्मितं कृत्वा भगवान् देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ १३ ॥

सञ्चिन्तितम् उपारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ १४ ॥

आरुह्यैरावतं नागं शक्रो ऽपि त्रिदशालयम् ।
ततो जगाम सुमनाः पश्यतां द्वारकौकसाम् ॥ १५ ॥

प्राग्ज्योतिषपुरस्यास्य समन्ताच् छतयोजनम् ।
आचितं भैरवैः पाशैः परसैन्यनिवारणे ॥ १६ ॥

तांश् चिच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरः समुत्तस्थौ तं जघान च केशवः ॥ १७ ॥

मुरोस् तु तनयान् सप्त सहस्रास् तांस् ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश् चकार शलभान् इव ॥ १८ ॥

हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः ।
प्राग्ज्योतिषपुरं धीमांस् त्वरावान् समुपाद्रवत् ॥ १९ ॥

नरकेनास्य तत्राभून् महासैन्येन संयुगः ।
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्रशः ॥ २० ॥

शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २१ ॥

हते तु नरके भूमिर् गृहीत्वादितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदम् अथाब्रवीत् ॥ २२ ॥

धरण्य् उवाच-

यदाहम् उद्धृता नाथ त्वया शूकरमूर्तिना ।
त्वत्संस्पर्शभवः पुत्रस् तदायं मय्य् अजायत ॥ २३ ॥

सो ऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
गृहाण कुण्डले चेमे पालयास्य च सन्ततिम् ॥ २४ ॥

भारावतरणार्थाय ममैव भगवान् इमम् ।
अंशेन लोकम् आयातः प्रसादसुमुख प्रभो ॥ २५ ॥

त्वं कर्ता च विकर्ता च संहर्ता प्रभवो ऽव्ययः ।
जगत्स्वरूपो यश् च त्वं स्तूयसे ऽच्युत किं मया ॥ २६ ॥

व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान् सदा ।
सर्वभूतात्मभूतात्मा स्तूयसे ऽच्युत किं मया ॥ २७ ॥

परमात्मा त्वम् आत्मा च भूतात्मा चाव्ययो भवान् ।
यदा तदा स्तुतिर् नास्ति किमर्थं ते प्रवर्तताम् ॥ २८ ॥

प्रसीद सर्वभूतात्मन् नरकेन कृतं च यत् ।
तत् क्षम्यताम् अदोषाय मत्सुतः स निपातितः ॥ २९ ॥

व्यास उवाच-

तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
रत्नानि नरकावासाज् जग्राह मुनिसत्तमाः ॥ ३० ॥

कन्यापुरे स कन्यानां षोडशातुलविक्रमः ।
शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः ॥ ३१ ॥

चतुर्दंष्ट्रान् गजांश् चोग्रान् षट् सहस्राणि दृष्टवान् ।
काम्बोजानां तथाश्वानां नियुतान्य् एकविंशतिम् ॥ ३२ ॥

कन्यास् ताश् च तथा नागांस् तान् अश्वान् द्वारकां पुरीम् ।
प्रापयाम् आस गोविन्दः सद्यो नरककिङ्करैः ॥ ३३ ॥

ददृशे वारुणं छत्त्रं तथैव मणिपर्वतम् ।
आरोपयाम् आस हरिर् गरुडे पतगेश्वरे ॥ ३४ ॥

आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ ३५ ॥