201

Summary (SA)

Chapter 201- Marriage of Aniruddha; killing of Rukmin

{{Ref- SS 309-310}}

व्यास उवाच-

चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥ १ ॥

चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।
रुक्मिण्य् अजनयत् पुत्रान् कन्यां चारुमतीं तथा ॥ २ ॥

अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ ३ ॥

देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डला ॥ ४ ॥

सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशात्र सहस्राणि स्त्रीणाम् अन्यानि चक्रिणः ॥ ५ ॥

प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस् तनयां शुभाम् ।
स्वयंवरस्थां जग्राह सापि तं तनयं हरेः ॥ ६ ॥

तस्याम् अस्याभवत् पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणे रुद्धो वीर्योदधिर् अरिन्दमः ॥ ७ ॥

तस्यापि रुक्मिणः पौत्रीं वरयाम् आस केशवः ।
दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा ॥ ८ ॥

तस्या विवाहे रामाद्या यादवा हरिणा सह ।
रुक्मिणो नगरं जग्मुर् नाम्ना भोजकटं द्विजाः ॥ ९ ॥

विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यम् अब्रुवन् ॥ १० ॥

कलिङ्गादय ऊचुः-

अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् ।
तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते ॥ ११ ॥

व्यास उवाच-

तथेति तान् आह नृपान् रुक्मी बलसमन्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ १२ ॥

सहस्रम् एकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः ॥ १३ ॥

ततो दश सहस्राणि निष्काणां पणम् आददे ।
बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः ॥ १४ ॥

ततो जहासाथ बलं कलिङ्गाधिपतिर् द्विजाः ।
दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः ॥ १५ ॥

रुक्म्य् उवाच-

अविद्यो ऽयं महाद्यूते बलभद्रः पराजितः ।
मृषैवाक्षावलेपत्वाद् यो ऽयं मेने ऽक्षकोविदम् ॥ १६ ॥

दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् ।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ १७ ॥

व्यास उवाच-

ततः कोपपरीतात्मा निष्ककोटिं हलायुधः ।
ग्लहं जग्राह रुक्मी च ततस् त्व् अक्षान् अपातयत् ॥ १८ ॥

अजयद् बलदेवो ऽथ प्राहोच्चैस् तं जितं मया ।
ममेति रुक्मी प्राहोच्चैर् अलीकोक्तैर् अलं बलम् ॥ १९ ॥

त्वयोक्तो ऽयं ग्लहः सत्यं न ममैषो ऽनुमोदितः ।
एवं त्वया चेद् विजितं न मया विजितं कथम् ॥ २० ॥

ततो ऽन्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २१ ॥

आकाशवाग् उवाच-

जितं तु बलदेवेन रुक्मिणा भाषितं मृषा ।
अनुक्त्वा वचनं किञ्चित् कृतं भवति कर्मणा ॥ २२ ॥

व्यास उवाच-

ततो बलः समुत्थाय क्रोधसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २३ ॥

कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः ।
बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः ॥ २४ ॥

आकृष्य च महास्तम्भं जातरूपमयं बलः ।
जघान ये तत्पक्षास् तान् भूभृतः कुपितो बलः ॥ २५ ॥

ततो हाहाकृतं सर्वं पलायनपरं द्विजाः ।
तद् राजमण्डलं सर्वं बभूव कुपिते बले ॥ २६ ॥

बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः ।
नोवाच वचनं किञ्चिद् रुक्मिणीबलयोर् भयात् ॥ २७ ॥

ततो ऽनिरुद्धम् आदाय कृतोद्वाहं द्विजोत्तमाः ।
द्वारकाम् आजगामाथ यदुचक्रं सकेशवम् ॥ २८ ॥